[highlight_content]

54 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुष्पञ्चाशः सर्गः

तथा ब्रुवति तारे तु ताराधिपतिवर्चसि ।

अथ मेने हृतं राज्यं हनुमानङ्गदेन तत् ।। 4.54.1 ।।

अथ हनुमता अङ्गदमतभेदनपूर्वकमङ्गदस्य सुग्रीवसमीपगमनाय नियोजनं चतुष्पञ्चाशे तथेत्यादि । राज्यं हृतं मेने राज्यं कर्तुं सामर्थ्यमस्तीति मेन इत्यर्थः ।। 4.54.1 ।।

बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम् ।

चतुर्दशगुणं मेने हनुमान् वालिनः सुतम् ।। 4.54.2 ।।

अष्टाङ्गया “ग्रहणं धारणं चैव स्मरणं प्रतिपादनम् । ऊहा ऽपोहो ऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणः” इत्युक्ताष्टाङ्गयुक्तया । चतुर्बलसमन्वितं बाहुबलमनोबलोपायबलबन्धुबलयुक्तम् । चतुर्दशगुणम् “देशकालज्ञता दार्ढ्यं सर्वक्लेशसहिष्णुता । सर्वविज्ञानिता दाक्ष्यमूर्जः संवृतमन्त्रता ।। अविसंवादिता शौर्यं शक्तिज्ञत्वं कृतज्ञता । शरणागतवात्सल्यममर्षत्वमचापलम् ।।” इत्युक्तचतुर्दशगुणयुक्तम् ।। 4.54.2 ।।

आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः ।

शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया ।। 4.54.3 ।।

बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः ।

शुश्रूषमाणं तारस्य शुक्रस्येव पुरन्दरम् ।। 4.54.4 ।।

भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविदां वरम् ।

अभिसन्धातुमारेभे हनुमानङ्गदं ततः ।। 4.54.5 ।।

आपूर्यमाणमित्यादि । तारस्य शुश्रूषमाणम् । नटस्य शृणोतीतिवत्कारकशेषत्वात् षष्ठी । शुक्रस्येव पुरन्दरमिति पुरन्दरशब्दसन्निधानादत्र शुक्रशब्दो बृहस्पतिपरः । यद्वा कस्याञ्चिदवस्थायां हितमुपदिशतः शुक्रस्य वचनं पुरन्दरः श्रुतवानित्यवगम्यते । “गुरोरिव पुरन्दरम्” इति क्कचित्पाठः । अभिसन्धातुम् अनुकूलयितुम् ।। 4.54.35 ।।

स चतुर्णामुपायानां तृतीयमुपवर्णयन् ।

भेदयामास तान् सर्वान् वानरान्वाक्य सम्पदा ।। 4.54.6 ।।

स इति । चतुर्णां सामादीनाम् । तृतीयं भेदम् । “साम दानं च भेदश्च दण्डश्चेति यथाक्रमम् ।” इति क्रमनियमात् ।। 4.54.6 ।।

तेषु सर्वेषु भिन्नेषु ततो ऽभीषयदङ्गदम् ।

भीषणैर्बहुभिर्वाक्यैः कोपोपायसमन्वितैः ।। 4.54.7 ।।

कोपरूप उपायः कोपोपायः दण्डः तत्समन्वितैः ।। 4.54.7 ।।

त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम् ।

दृढं धारयितुं शक्तः कपिराज्यं यथा पिता ।। 4.54.8 ।।

त्वमिति । पित्रा पितुः ।। 4.54.8 ।।

नित्यमस्थिरचित्ता हि कपयो हरिपुङ्गवः ।

नाज्ञाप्यं विषहिष्यन्ति पुत्रदारान् विना त्वया ।। 4.54.9 ।।

नित्यमिति । आज्ञाप्यम् आज्ञापनम् । भावे कृत्यप्रत्ययः । पुत्रदारान् विना पुत्रदारैर्विरहिताः । त्वयेति कर्तरि तृतीया । अस्य आज्ञाप्यमित्यनेन सम्बन्धः ।। 4.54.9 ।।

त्वां नैते ह्यनुयुञ्जेयुः प्रत्यक्षं प्रवदामि ते ।

यथा ऽयं जाम्बवान्नीलः सुहोत्रश्च महाकपिः ।। 4.54.10 ।।

न ह्यहं त इमे सर्वे सामदानादिभिर्गुणैः ।

दण्डेन वा त्वया शक्याः सुग्रीवादपकर्षितुम् ।। 4.54.11 ।।

अयं जाम्बवान्नीलः सुहोत्रश्च एते त्वां यथा नानुयुञ्जैयुः नानुवर्तेरन् तथा ऽहमपि नानुवर्ते हि । त इमे सर्वे सामादिभिः सुग्रीवादपकर्षितुं न शक्याः ।। 4.54.10,11 ।।

विगृह्यासनमप्याहुर्दुर्बलेन बलीयसः ।

आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः ।। 4.54.12 ।।

बलीयसः प्रबलस्य दुर्बलेन समं विगृह्य आसनमप्यवस्थानमपि कर्तव्यमाहुः, न तु दुर्बलस्य बलीयसा । तस्मात् आत्मरक्षाकरः स्वक्षेमकाम इति यावत् । दुर्बलः बलीयसा न विगृह्णीत विगृह्य नासीत ।। 4.54.12 ।।

यां चेमां मन्यसे धात्रीमेतद्बिलमिति श्रुतम् ।

एतल्लक्ष्मणबाणानामीषत्कार्यं विदारेणे ।। 4.54.13 ।।

स्वतो बलाभावे ऽपि दुर्गबलमस्तीत्याशङ्क्याह यां चेति । यामिमां गुहां धात्रीं रक्षिकां मन्यसे । एतद्बिलमिति ताराच्छ्रुतम्, एतत् ऋक्षबिलं विदारणे विषये लक्ष्मणबाणानामीषत्कार्यम्, अयत्नसाध्यमित्यर्थः ।। 4.54.13 ।।

स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा ।

लक्ष्मणो निशितैर्बाणैर्भिन्द्यात्पत्त्रपुटं यथा ।। 4.54.14 ।।

स्वल्पमिति । पुरा बिलवासिनं मयमुद्दिश्याशनिं वज्रं क्षिपतेन्द्रेण स्वल्पं कृतं द्वारमात्रं कृतम् । लक्ष्मणस्तु निशितैर्बाणैः पत्त्रपुटमिव भिन्द्याद्धि ।। 4.54.14 ।।

लक्ष्मणस्य तु नाराचा बहवः सन्ति तद्विधाः ।

वज्राशनिसमस्पर्शा गिरीणामपि दारणाः ।। 4.54.15 ।।

तद्विधाः तादृशाः, अपरिच्छिन्नवैभवा इति यावत् । गिरीणामपि दारणाः, बिलस्य किमुतेति भावः ।। 4.54.15 ।।

अवस्थाने यदैव त्वमासिष्यसि परन्तप ।

तदेव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः ।। 4.54.16 ।।

स्मरन्तः पत्रदाराणां नित्योद्विग्ना बुभुक्षिताः ।

खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः ।। 4.54.17 ।।

स त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः ।

तृणादपि भृशोद्विग्नः स्पन्दमानाद्भविष्यसि ।। 4.54.18 ।।

अवस्थाने बिले । यद्वा विगृह्यावस्थाने आसिष्यसि स्थास्यसि, विगृह्यावस्थानं यदा ऽध्यवसिष्यसीत्यर्थः ।। 4.54.1618 ।।

न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः ।

अपवृत्तं जिघांसन्तो महावेगा दुरासदाः ।। 4.54.19 ।।

न चेति । लक्ष्मणसायकाः अपवृत्तं वृत्तहीनम्, स्वकार्याकरमित्यर्थः । त्वां न हिंस्युरिति न, हिंस्युरेवेत्यर्थः ।। 4.54.19 ।।

अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम् ।

आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति ।। 4.54.20 ।।

धर्मकामः पितृव्यस्ते प्रीतिकामो दृढव्रतः ।

शुचिः सत्यप्रतिज्ञश्च न त्वां जातु जिघांसति ।। 4.54.21 ।।

प्रियकामश्च ते मासुस्तदर्थं चास्य जीवितम् ।

तस्यापत्यं च नास्त्यन्यत् तस्मादङ्गद गम्यताम् ।। 4.54.22 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुष्पञ्चाशः सर्गः ।। 54 ।।

आनुपूर्व्यात् क्रमप्राप्तेः ।। 4.54.2022 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुष्पञ्चाशः सर्गः ।। 54 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.