श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनषष्टितमः सर्गः
ततस्तदमृतास्वादं गृध्रराजेन भाषितम् ।
निशम्य मुदिता हृष्टास्ते वचः प्लवगर्षभाः ।। 4.59.1 ।।
जाम्बवान् वानरश्रेष्ठः सह सर्वैः प्लवङ्गमैः ।
भूतलात्सहसोत्थाय गृध्रराजमथाभ्रवीत् ।। 4.59.2 ।।
क्क सीता केन वा दृष्टा को वा हरति मैथिलीम् ।
तदाख्यातु भवान् सर्वं गतिर्भव वनौकसाम् ।। 4.59.3 ।।
को दाशरथिबाणानां वज्रवेगनिपातिनाम् ।
स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम् ।। 4.59.4 ।।
स हरीन् प्रीतिसंयुक्तान् सीताश्रुतिसमाहितान् ।
पुनराश्वासयन् प्रीत इदं वचनमब्रवीत् ।। 4.59.5 ।।
श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम् ।
येन चापि ममाख्यातं यत्र वा ऽ ऽयतलोचना ।। 4.59.6 ।।
अहमस्मिन् गिरौ दुर्गे बहुयोजनमायते ।
चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः ।। 4.59.7 ।।
तं मामेवं गतं पुत्रः सुपार्श्वो नाम नामतः ।
आहारेण यथाकालं बिभिर्ति पततां वरः ।। 4.59.8 ।।
तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः ।
मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम् ।। 4.59.9 ।।
स कदाचित् क्षुधार्तस्य ममाहाराभिकाङिणः ।
गतसूर्ये ऽहनि प्राप्तो मम पुत्रो ह्यनामिषः ।। 4.59.10 ।।
स मया वृद्धभावाच्च कोपाच्च परिभर्त्सितः ।
क्षुत्पिपासापरीतेन कुमारः पततां वरः ।। 4.59.11 ।।
स मामाहारसंरोधात् पीडितं प्रीतिवर्धनः ।
अनुमान्य यथातत्त्वमिदं वचनमब्रवीत् ।। 4.59.12 ।।
अहं तात यथाकालमामिषार्थी खमाप्लुतः ।
महेन्द्रस्य गिरेर्द्वारमावृत्य च समास्थितः ।। 4.59.13 ।।
ततः सत्त्वसहस्राणां सागरान्तरचारिणाम् ।
पन्थानमेको ऽध्यवसं सन्निरोद्धुमवाङ्मुखः ।। 4.59.14 ।।
तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम् ।
स्त्रियमादाय गच्छन् वै भिन्नाञ्जनचयप्रभः ।। 4.59.15 ।।
सो ऽहमभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्चयः ।
तेन साम्ना विनीतेन पन्थानमभियाचितः ।। 4.59.16 ।।
न हि सामोपपन्नानां प्रहर्ता विद्यते क्कचित् ।
नीचेष्वपि जनः कश्चित् किमङ्ग बत मद्विधः ।। 4.59.17 ।।
ततस्तदमृतास्वादमित्यारभ्य पञ्च सर्गाः प्रक्षिप्ताः । सर्वकोशेष्वदर्शनात् तान् विनापि कथासङ्घट्टनात् पूर्वोक्तार्थविरोधस्फोरकत्वाच्च । तथापि ते व्याख्यास्यन्ते तत इत्यादि । हृष्टाः रोमाञ्चाञ्चिताः । बभूवुरिति शेषः ।। 4.59.117 ।।
स यातस्तेजसा व्योम सङ्क्षिपन्निव वेगतः ।
अथाहं खचरैर्भूतैरभिगम्य सभाजितः ।। 4.59.18 ।।
स यात इति । सभाजितः पूजितः ।। 4.59.18 ।।
दिष्ट्या जीवसि तातेति ह्यब्रुवन् मां महर्षय ।
कथञ्चित् सकलत्रो ऽसौ गतस्ते स्वस्त्यसंशयम् ।
एवमुक्तस्ततो ऽहं तैः सिद्धः परमशौभनैः ।। 4.59.19 ।।
दिष्ट्येति । असौ सकलत्रः सरक्ष्यवर्गः । अतः कथञ्चित् गतः । अतस्ते स्वस्त्यासीत् असंशयम् इति मां महर्षयो ऽब्रुवन्निति योजना ।। 4.59.19 ।।
स च मे रावणो राजा रक्षसां प्रतिवेदितः ।
हरन् दाशरथेर्भार्यां रामस्य जनकात्मजाम् ।। 4.59.20 ।।
भ्रष्टाभऱणकौशेयां शोकवेगपराजिताम् ।
रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्द्धजाम् ।। 4.59.21 ।।
मे मया । प्रतिवेदितः ज्ञातः । सुपार्श्ववचनमिदम् ।। 4.59.20,21 ।।
एष कालात्ययस्तावदिति कालविदां वरः ।
एतमर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् ।। 4.59.22 ।।
तच्छ्रुत्वा हि मे बुद्धिर्नासीत्काचित्पराक्रमे ।
अपक्षो हि कथं पक्षी कर्म किञ्चिदुपक्रमे ।। 4.59.23 ।।
यत्तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना ।
श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम् ।। 4.59.24 ।।
कालात्ययः कालातिक्रमहेतुः, रावणदर्शनमिति भावः ।। 4.59.2224 ।।
वाङ्मतिभ्यां तु सर्वेषां करिष्यामि प्रियं हि वः ।
यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः ।। 4.59.25 ।।
ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः ।
प्रेषिताः कपिराजेन देवैरपि दुरासदाः ।। 4.59.26 ।।
रामलक्ष्मणबाणाश्च निशिताः कङ्कपत्ित्रणः ।
त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे ।। 4.59.27 ।।
कामं खलु दशग्रीवस्तेजोबलसमन्वितः ।
भवतां तु समर्थानां न किञ्चिदपि दुष्करम् ।। 4.59.28 ।।
वागिति । सर्वेषां वः युष्माकं वाङ्मतिभ्यां प्रियं करिष्यामि हि । दाशरथेर्यत्कार्यं तन्ममैव ।। 4.59.2528 ।।
तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः ।
न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः ।। 4.59.29 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनषष्टितमः सर्गः ।। 59 ।।
कालसङ्गेन कालविलम्बेन ।। 4.59.29 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकोनषष्टितमः सर्गः ।। 59 ।।