श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षष्टितमः सर्गः
ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः ।
उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः ।। 4.60.1 ।।
ततः कृतोदकमित्यादि ।। 4.60.1 ।।
तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम् ।
जनितप्रत्ययो हर्षात्सम्पातिः पुनरब्रवीत् ।। 4.60.2 ।।
कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम ।
तत्त्वं सङ्कीर्तयिष्यामि यथा जानामि मैथिलीम् ।। 4.60.3 ।।
अस्य विन्ध्यस्य शिखरे पतितो ऽस्मि पुरा वने ।
सूर्यातप परीताङ्गो निर्दग्धः सूर्यरश्मिभिः ।। 4.60.4 ।।
तमिति । जनितप्रत्ययः जनितविश्वासो यथा भवति तथा ऽब्रवीदिति योजना ।
वानरदर्शनरूपस्वकार्यतो जनितविश्वास इत्यर्थः ।। 4.60.24 ।।
लब्धसञ्ज्ञस्तु षड्रात्राद्विवशो विह्वलन्निव ।
वीक्षमाणो दिशः सर्वा नाभिजानामि किञ्चन ।। 4.60.5 ।।
ततस्तु सागरान् शैलान् नदीः सर्वाः सरांसि च ।
वनान्युदधिवेलां च समीक्ष्य मतिरागमत् ।। 4.60.6 ।।
विह्वलन्निव मूर्छन्निव ।। 4.60.5,6 ।।
हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान् ।
दक्षिणस्योदधेस्तीरे विन्ध्यो ऽयमिति निश्चयः ।। 4.60.7 ।।
हृष्टेति । निश्चयः, अभूदिति शेषः ।। 4.60.7 ।।
आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम् ।
ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपा भवत् ।। 4.60.8 ।।
भवत् अभवत् ।। 4.60.8 ।।
अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा विना ।
वसतो मम धर्मज्ञाः स्वर्गते तु निशाकरे ।। 4.60.9 ।।
अवतीर्य च विन्ध्याग्रात्कृच्छ्रेण विषमाच्छनैः ।
तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः ।। 4.60.10 ।।
तमृषिं द्रष्टुकामो ऽस्मि दुःखेनाभ्यागतो भृशम् ।
जटायुषा मया चैव बहुशो ऽधिगतो हि सः ।। 4.60.11 ।।
तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः ।
वृक्षो वा ऽपुष्पितः कश्चिदफलो वा न विद्यते ।। 4.60.12 ।।
उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः ।
द्रष्टुकामः प्रतीक्षो ऽहं भगवन्तं निशाकरम् ।। 4.60.13 ।।
अथापश्यमदूरस्थमृषिं ज्वलिततेजसम् ।
कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम् ।। 4.60.14 ।।
तमृक्षाः सृमरा व्याघ्राः सिंहा नागाः सरीसृपाः ।
परिवार्योपगच्छन्ति धातारं प्राणिनो यथा ।। 4.60.15 ।।
ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः ।
प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम् ।। 4.60.16 ।।
ऋषिस्तु दृष्ट्वा मां प्रीतः प्रविष्टश्चाश्रमं पुनः ।
मुहूर्तमात्रान्निष्क्रम्य ततः कार्यमपृच्छत ।। 4.60.17 ।।
वर्षसहस्राणि, गतानीति शेषः ।। 4.60.917 ।।
सौम्य वैकल्यतां दृष्ट्वा रोम्णां ते नावगम्यते ।
अग्निदग्धाविमौ पक्षौ त्वक् चैव व्रणिता तव ।। 4.60.18 ।।
गृध्रौ द्वौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे ।
गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ ।। 4.60.19 ।।
ज्येष्ठो हि त्वं तु सम्पाते जटायुरनुजस्तव ।
मानुषं रूपमास्थाय गृह्णीतां चरणौ मम ।। 4.60.20 ।।
किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् ।
दण्डो वा ऽयं कृतः केन सर्वमाख्याहि पृच्छतः ।। 4.60.21 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षष्टितमः सर्गः ।। 60 ।।
सौम्येति । विकल एव वैकल्यम् । चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ् । तस्य भावो वैकल्यता । व्रणिता सञ्जातव्रणा । ते नावगम्यत इत्यत्र त इति भिन्नं पदम् । हे सौम्य ते रोम्णां वैकल्यतां दृष्ट्वा नावगम्यते, स्वरूपमिति शेषः । रोमविकलत्वहेतुः अग्निदग्धाविति दृश्येते इति शेषः । व्रणितेत्यत्र दृश्यत इति शेषः ।। 4.60.1821 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षष्टितमः सर्गः ।। 60 ।।