श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिषष्टितमः सर्गः
एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविदां वरः ।
मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टाः स स्वमाश्रमम् ।। 4.63.1 ।।
कन्दरात्तु विसर्पित्वा पर्वतस्य शनैःशनैः ।
अहं विन्ध्यं समारुह्य भवतः प्रतिपालये ।। 4.63.2 ।।
एतैरित्यादि ।। 4.63.1,2 ।।
अद्य त्वेतस्य कालस्य साग्रं वर्षशतं गतम् ।
देशकालप्रतीक्षो ऽस्मि हृदि कृत्वा मुनेर्वचः ।। 4.63.3 ।।
अद्य त्विति । पूर्वं निशाकरमुनिप्रयाणानन्तरम् अष्टौ वर्षसहस्राणि व्यतीतानीत्युक्तवान् । अतः साग्रं वर्षशतं गतमित्येतदष्टवर्षसहस्रोपलक्षणम् ।। 4.63.3 ।।
महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे ।
मां निर्दहति सन्तापो वितर्कैर्बहुभिर्वृतम् ।। 4.63.4 ।।
उत्थितां मरणे बुद्धिं मुनिवाक्यैर्निवर्तये ।
बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणाय तु ।
सा मे ऽपनयते दुःखं दीप्तेवाग्निशिखा तमः ।। 4.63.5 ।।
बुध्यता च मया वीर्यं रावणस्य दुरात्मनः ।
पुत्रः सन्तर्जितो वाग्भिर्न त्राता मैथिली कथम् ।। 4.63.6 ।।
तस्या विलपितं श्रुत्वा तौ च सीताविनाकृतौ ।
न मे दशरथस्नेहात् पुत्रेणोत्पादितं प्रियम् ।। 4.63.7 ।।
तस्य त्वेवं ब्रुवाणस्य सम्पातेर्वानरैः सह ।
उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम् ।। 4.63.8 ।।
वितर्कैः विविधविचारैः ।। 4.63.48 ।।
स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः ।
प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत् ।। 4.63.9 ।।
ऋषेर्निशाकरस्यैव प्रभावादमितात्मनः ।
आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनरुत्थितौ ।। 4.63.10 ।।
यौवने वर्तमानस्य ममासीद्यः पराक्रमः ।
तमेवाद्यानुगच्छामि बलं पौरुषमेव च ।। 4.63.11 ।।
सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ ।
पक्षलाभो ममायं वः सिद्धिप्रत्ययकारकः ।। 4.63.12 ।।
इत्युक्त्वा स हरीन् सर्वान् सम्पातिः पतगोत्तमः ।
उत्पपात गिरेः शृङ्गाज्जिज्ञासुः खगमो गतिम् ।। 4.63.13 ।।
तस्य तद्वचनं श्रुत्वा प्रीतिसंहृष्टमानसाः ।
बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः ।। 4.63.14 ।।
अरुणच्छदैः अरुणबहिष्पत्रैः ।। 4.63.914 ।।
अथ पवनसमानविक्रमाः प्लवगवराः प्रतिलब्धपौरुषाः ।
अभिजिदभिमुखा दिशं ययुर्जनकसुतापरिमार्गणोन्मुखाः ।। 4.63.15 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिषष्टितमः सर्गः ।। 63 ।।
अथेति । अभिजिदभिमुखाः अभिजिन्मुहूर्तप्रतीक्षकाः ।। 4.63.15 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रिषष्टितमः सर्गः ।। 63 ।।