॥ अथाधिकपाठसर्गप्रारम्भः ॥
प्रक्षिप्तेषु प्रथमः सर्गः ॥ १ ॥
वसिष्ठादिभिर्मन्त्रिश्रेष्ठैश्चसह प्रभातेसभांप्रविष्टेनरामेण लक्ष्मणंप्रति कार्यार्थिसमाह्वान -चोदना ॥ १ ॥ लक्ष्मणेन द्वारदेशवर्तिनः कार्यार्थिनः रामानुमत्याऽन्तः प्रवेशनम् ॥ २ ॥
ततः प्रभाते विमले कृत्वा पौर्वाह्णिकीं क्रियाम् ।
धर्मासनगतो राजा रामो राजीवलोचनः ॥ १ ॥
राजधर्मानवेक्षन्वै ब्राह्मणैर्नैगमैः सह ।
पुरोधसा वसिष्ठेन ऋषिणा कश्यपेन च ॥ २ ॥
मन्त्रिभिर्व्यवहारज्ञैस्तथाऽन्यैर्धर्मपारगैः ।
नीतिज्ञैरथ सभ्यैश्च राजभिः सा समावृता ॥ ३ ॥
सभा यथा महेन्द्रस्य यमस्य वरुणस्य च ।
शुशुभे राजसिंहस्य रामस्याक्लिष्टकर्मणः ॥ ४ ॥
अथ रामोऽब्रवीत्तत्र लक्ष्मणं शुभलक्षणम् ।
निर्गच्छ त्वं महाबाहो सुमित्रानन्दवर्धन ।
कार्यार्थिनश्च सौमित्रे व्याहर्तुं त्वमुपक्रम ॥ ५ ॥
रामस्य भाषितं श्रुत्वा लक्ष्मण: शुभलक्षणः ।
द्वारदेशमुपागम्य कार्यिणश्चाह्वयत्स्वयम् ॥ ६ ॥
न कश्चिदब्रवीत्तत्र मम कार्यमिहाद्य वै ।
नाधयो व्याधयश्चैव रामे राज्यं प्रशासति ॥ ७ ॥
पक्वसस्या वसुमती सर्वौषधिसमन्विता ।
न बालो म्रियते तत्र न युवा नच मध्यमः ॥ ८ ॥
धर्मेण शासितं सर्वं न च बाधा विधीयते ।
दृश्यते न च कार्यार्थी रामे राज्यं प्रशासति ॥ ९ ॥
लक्ष्मण: प्राञ्जलिर्भूत्वा रामायैवं न्यवेदयत् ॥ १० ॥
अथ रामः प्रसन्नात्मा सौमित्रिमिदमब्रवीत् ।
भूय एव तु गच्छ त्वं कार्यिणः प्रविचारय ॥ ११ ॥
सम्यक्प्रणीतया नीत्या नाधर्मो विद्यते क्वचित् ।
तस्माद्राजभयात्सर्वे रक्षन्तीव परस्परम् ॥ १२ ॥
बाणा इव मया मुक्ता इह रक्षन्ति मे प्रजाः ।
तथापि त्वं महाबाहो प्रजा रक्षस्व तत्परः ॥ १३ ॥
एवमुक्तस्तु सौमित्रिर्निर्जगाम नृपालयात् ।
अपश्यद्वारदेशे वै श्वानं तावदवस्थितम् ॥ १४ ॥
तमेव वीक्षमाणं वै विक्रोशन्तं मुहुर्मुहुः ।
दृष्ट्वाऽथ लक्ष्मणस्तं वै पप्रच्छाथ स वीर्यवान् ॥ १५ ॥
किं ते कार्यं महाभाग ब्रूहि विस्रब्धमानसः ।
लक्ष्मणस्य वचः श्रुत्वा सारमेयोऽभ्यभाषत ।। १६ ।।
सर्वभूतशरण्याय रामायाक्लिष्टकर्मणे ।
भयेष्वभयदात्रे च तस्मै वक्तुं समुत्सहे ॥ १७ ॥
एतच्छ्रुत्वा तु वचनं सारमेयस्य लक्ष्मणः ।
राघवाय तदाख्यातुं प्रविवेशालयं शुभम् ॥ १८ ॥
निवेद्य रामस्य पुनर्निर्जगाम नृपालयात् ।
वक्तव्यं यदि ते किंचित्तत्त्वं ब्रूहि नृपाय वै ।
लक्ष्मणस्य वचः श्रुत्वा सारमेयोऽभ्यभाषत ॥ १९ ॥
देवागारे नृपागारे द्विजवेश्मसु वै तथा ।
वह्निः शतक्रतुश्चैव सूर्यो वायुश्च तिष्ठति ॥ २० ॥
नात्र योग्यास्तु सौमित्रे योनीनामधमा वयम् ।
प्रवेष्टुं नात्र शक्ष्यामो धर्मो विग्रहवान्नृपः ॥ २१ ॥
सत्यवादी रणपटुः सर्वभूतहिते रतः ।
षाड्गुण्यस्य पदं वेत्ति नीतिकर्ता स राघवः ॥ २२ ॥
सर्वज्ञः सर्वदर्शी च रामो रमयतांवरः ॥ २३ ॥
स सोमः स च मृत्युश्च स यमो धनदस्तथा ।
वह्निः शतक्रतुश्चैव सूर्यो वै वरुणस्तथा ॥ २४ ॥
तस्य त्वं ब्रूहि सौमित्रे प्रजापाल: स राघवः ।
अनाज्ञप्तस्तु सौमित्रे प्रवेष्टुं नेच्छयाम्यहम् ॥ २५ ।।
आनृशंस्यान्महाभागः प्रविवेश महाद्युतिः ।
नृपालयं प्रविश्याथ लक्ष्मणो वाक्यमब्रवीत् ॥ २६ ॥
श्रूयतां मम विज्ञाप्यं कौसल्यानन्दवर्धन ।
यन्मयोक्तं महाबाहो तव शासनजं विभो ।
श्वा वै ते तिष्ठते द्वारि कार्यार्थी समुपागतः ॥ २७ ॥
लक्ष्मणस्य वचः श्रुत्वा रामो वचनमब्रवीत् ।
संप्रवेशय वै क्षिप्रं कार्यार्थी योत्र तिष्ठति ॥ २८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे प्रथमः सर्गः ॥ १ ॥
प्रक्षिप्तेषु द्वितीयः सर्गः ॥ २ ॥
श्रीरामेण कार्यनिवेदनंचोदितेनशुना तंप्रत्यनपराधेपि निजमूर्धनि सर्वार्थसिद्धनामक -भिक्षुकृत दण्डप्रहार निवेदनम् ॥ १॥ रामेण निजदूतानीतंयतिंप्रति सारमेयशिरस्ताडनहेतुप्रश्नः ॥ २ ॥ भिक्षुणा तंत्रति क्षुधातुरतयाकुद्धेनस्वेन रथ्यास्थितेदूरानपसारिणिसारमेये दण्डप्रहरणा -ङ्गीकरणपूर्वकं स्वस्यसमुचितशिक्षाप्रार्थना ॥ ३ ॥ वसिष्ठादिभिःसह शिक्षाविचारपरेसति रामे तंप्रतिशुना तस्यकालञ्जरपुरेदेवालये कुलपतित्वेऽभिषेचनरूपशिक्षाविधानोक्तिः ॥ ४ ॥ रामेण भिक्षोः कुलपतित्वेऽभिषेचनपूर्वकं गजस्कंधारोपणेनकालञ्जरप्रापणम् ॥ ५ ॥ शिक्षार्हेभिक्षौ वरदानविस्मितामात्यादीन्प्रति शुना रामचोदनया स्वस्यसारमेयत्वप्राप्तेर्जन्मान्तरी -यस्वीयकुलपतित्वहेतुकत्वोक्तिः ॥ ६ ॥
श्रुत्वा रामस्य वचनं लक्ष्मणस्त्वरितस्तदा ।
श्वानमाहूय मतिमान्राघवाय न्यवेदयत् ॥ १ ॥
दृष्ट्वा समागतं श्वानं रामो वचनमब्रवीत् ।
विवक्षितार्थं मे ब्रूहि सारमेय न ते भयम् ॥ २ ॥
अथापश्यत तत्रस्थं रामं श्वा भिन्नमस्तकः ।
[ ततो दृष्ट्वा स राजानं सारमेयोऽब्रवीद्वचः ॥ ३ ॥
राजैव कर्ता भूतानां राजा चैव विनाशकः । ]
राजा सुप्तेषु जागर्ति राजा पालयति प्रजाः ।। ४ ।।
राजा कर्ता च गोप्ता च सर्वस्य जगतः पिता ।
राजा कालो युगं चैव राजा सर्वमिदं जगत् ।। ५ ।।
नीत्या सुनीतया राजा धर्मं रक्षति रक्षिता ।
यदा न पालयेद्राजा क्षिप्रं नश्यन्ति वै प्रजाः ॥ ६ ॥
धारणाद्धर्म इत्याहुर्धर्मेण विधृताः प्रजाः ।
यस्माद्धारयते सर्वं त्रैलोक्यं सचराचरम् ॥ ७ ॥
धारणाद्धि द्विषां चैत्र धर्मेणारञ्जयन्प्रजाः ।
तस्माद्धारणमित्युक्तं स धर्म इति निश्चयः ॥ ८ ॥
एष राजन्परो धर्मः फलवान्प्रेत्य राघव ।
न हि धर्माद्भवेत्किञ्चिद्दुष्प्रापमिति मे मतिः ॥ ९ ॥
दानं दया सतां पूजा व्यवहारेषु चार्जवम् ।
एष राम परो धर्मो रक्षणात्प्रेत्य चेह च ॥ १० ॥
त्वं प्रमाणं प्रमाणानामसि राघव सुव्रत ।
विदितश्चैव ते धर्म: सद्भिराचरितस्तु वै ॥ ११ ॥
धर्माणां त्वं परं धाम गुणानां सागरोपमः ।
अज्ञानाच्च मया राजन्नुक्तस्त्वं राजसत्तम ।
प्रसादयामि शिरसा न त्वं क्रोद्धुमिहार्हसि ॥ १२ ॥
शुनकस्य वचः श्रुत्वा राघवो वाक्यमब्रवीत् ।
किं ते कार्यं करोम्यद्य ब्रूहि विस्रब्ध माचिरम् ।। १३ ।।
रामस्य वचनं श्रुत्वा सारमेयोऽब्रवीदिदम् ।
धर्मेण राष्ट्रं विन्देत धर्मेणैवानुपालयेत् ॥ १४ ॥
धर्माच्छरण्यतां याति राजा सर्वभयापहः ।
इदं विज्ञाय यत्कृत्यं श्रूयतां मम राघव ॥ १५ ॥
भिक्षुः सर्वार्थसिद्धश्च ब्राह्मणावसथे वसन् ।
तेन दत्तः प्रहारो मे निष्कारणमनागसः ॥ १६ ॥
एतच्छ्रुत्वा तु रामेण द्वास्थः संप्रेषितस्तदा ।
आनीतश्च द्विजस्तेन सर्वसिद्धार्थकोविदः ॥ १७ ॥
अथ द्विजवरस्तत्र रामं दृष्ट्वा महाद्युतिः ।
किं ते कार्यं मया राम तद्ब्रूहि त्वं ममानघ ॥ १८ ॥
एवमुक्तस्तु विप्रेण रामो वचनमब्रवीत् ।
त्वया दत्तः प्रहारोऽयं सारमेयस्य वै द्विज ।
किं तवापकृतं विप्र दण्डेनाभिहतो यतः ॥ १९ ॥
क्रोधः प्राणहरः शत्रुः क्रोधो मित्रमुखो रिपुः ।
क्रोधो ह्यसिर्महातीक्ष्णः सर्वं क्रोधोपकर्षति ॥ २० ॥
तपते यजते चैव यच्च दानं प्रयच्छति ।
क्रोधेन वै संहरति तस्मात्क्रोधं विसर्जयेत् ॥ २१ ।।
इन्द्रियाणां प्रदुष्टानां हयानामिव धावताम् ।
कुर्वीत वृत्या सारथ्यं संहृत्येन्द्रियगोचरम् ॥ २२ ॥
मनसा कर्मणा वाचा चक्षुषा च समाचरेत् ।
श्रेयो लोकस्य चरतो न द्वेष्टि न च लिप्यते ।। २३ ।।
न तत्कुर्यादसिस्तीक्ष्णः सर्वो वा व्याहतस्तथा ।
अरिर्वा नित्यसंक्रुद्धो यथाऽऽत्मा दुरनुष्ठितः ।। २४ ।।
विनीतविनयस्यापि प्रकृतिर्न विधीयते ।
प्रकृतिं गृहमानस्य निश्चये प्रकृतिर्ध्रुवम् ॥ २५ ॥
एवमुक्तः स विप्रो वै रामेणाक्लिष्टकर्मणा ।
द्विजः सर्वार्थसिद्धस्तु अब्रवीद्रामसन्निधौ ॥ २६ ॥
मया दत्तः प्रहारोऽयं क्रोधेनाविष्टचेतसा ।
भिक्षार्थमटमानेन काले विगतभैक्षके ॥ २७ ॥
रथ्यास्थितः स्वयं वा वै गच्छ गच्छेति भाषितः ।
अथ स्वैरेण गच्छंस्तु रथ्यान्ते विषमं स्थितः ।। २८ ।।
क्रोधेन क्षुधयाऽऽविष्टस्तदा दत्तोस्य राघव ।
प्रहारो राजराजेन्द्र शाधि मामपराधिनम् ।
त्वया शस्तस्य राजेन्द्र नास्ति मे नरकाद्भयम् ॥ २९ ॥
अथ रामेण संपृष्टाः सर्व एव सभासदः ।
किं कार्यमस्य वै ब्रूत दण्डो वै कोनु पात्यताम् ।
सम्यक्प्रणिहिते दण्डे प्रजा भवति रक्षिता ॥ ३० ॥
भृग्वाङ्गिरसकुत्साद्या वसिष्ठश्च सकाश्यपः ।
धर्मपालकमुख्याश्च सचिवा नैगमास्तथा ।
एते चान्ये च बहवः पण्डितास्तत्र संगताः ॥ ३१ ॥
अवध्यो ब्राह्मणो दण्डैरिति शास्त्रविदो विदुः ।
ब्रुवते राघवं सर्वे राजधर्मेषु निष्ठिताः ॥ ३२ ॥
अथ ते मुनयः सर्वे राममेवाब्रुवंस्तदा ।। ३३ ।।
राजा शास्ता हि सर्वस्य त्वं विशेषेण राघव ।
त्रैलोक्यस्य भवाञ्छास्ता देवो विष्णु: सनातनः ।। ३४ ।।
एवमुक्ते तु तैः सर्वैः श्वा वै वचनमब्रवीत् ॥ ३५ ॥
यदि तुष्टोसि मे राम यदि देयो वरो मम ।
प्रतिज्ञातं त्वया वीर किं करोमीति विश्रुतम् ॥ ३६ ॥
प्रयच्छ ब्राह्मणस्यास्य कौलपत्यं धराधर ।
कालंचरे महाराज कौलपत्यं प्रदीयताम् ॥ ३७ ॥
एतच्छ्रुत्वा तु रामेण कौलपत्येऽभिषेचितः ।
प्रययौ ब्राह्मणो हृष्टो गजस्कन्धेन सोर्चितः ॥ ३८ ॥
अथ ते रामसचिवाः स्मयमाना वचोऽब्रुवन् ।
वरोऽयं दत्त एतस्य नायं शापो महाद्युते ॥ ३९ ॥
एवमुक्तस्तु सचिवै रामो वचनमब्रवीत् ।
न यूयं नीतितत्त्वज्ञाः श्वा वै जानाति कारणम् ॥ ४० ॥
अथ पृष्टस्तु रामेण सारमेयोऽब्रवीदिदम् ।
अहं कुलपतिस्तत्र आसं शिष्टान्नभोजनः ॥ ४१ ॥
देवद्विजातिपूजायां दासीदासेषु राघव ।
संविभागी शुभरतिर्देवद्रव्यस्य रक्षिता ॥ ४२ ॥
विनीतः शीलसंपन्नः सर्वसत्वहिते रतः ।
सोहं प्राप्त इमां घोरामवस्थामधमां गतिम् ॥ ४३ ॥
एवं क्रोधान्वितो विप्रस्त्यक्तधर्माऽहिते रतः ।
क्रुद्धो नृशंसः परुष अविद्वांश्चाप्यधार्मिकः ॥ ४४ ॥
कुलानि पातयत्येव सप्त सप्त च राघव ।
तस्मात्सर्वास्ववस्थासु कौलपत्यं न कारयेत् ॥ ४५ ॥
यमिच्छेन्नरकं नेतुं सपुत्रपशुबान्धवम् ।
देवेष्वधिष्ठितं कुर्याद्गोषु च ब्राह्मणेषु च ॥ ४६ ॥
ब्रह्मस्वं देवताद्रव्यं स्त्रीणां बालधनं च यत् ।
दत्तं हरति यो भूय इष्टै: सह विनश्यति ॥ ४७ ॥
ब्राह्मणद्रव्यमादत्ते देवानां चैव राघव ।
सद्यः पतति घोरे वै नरके वीचिसंज्ञिते ॥ ४८ ॥
मनसाऽपि हि देवस्वं ब्रह्मस्वं च हरेत्तु यः ।
निरयान्निरयं चैव पतत्येव नराधमः ॥ ४९ ॥
तच्छ्रुत्वा वचनं रामो विस्मयोत्फुल्ललोचनः ।
श्वाऽप्यगच्छन्महातेजा यत एवागतस्ततः ॥ ५० ॥
मनस्वी पूर्वजात्या स जातिमात्रोपदूषितः ।
वाराणस्यां महाभागः प्रायं चोपविवेश ह ॥ ५१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे द्वितीयः सर्गः ॥ २ ॥
प्रक्षिप्तेषु तृतीयः सर्गः ॥ ३ ॥
गृध्रोलूकाख्यानम् ॥ १ ॥
अथ तस्मिन्वनोद्देशे रम्ये पादपशोभिते ।
नदीकीर्णे गिरिवरे कोकिलानेककूजिते ॥ १ ॥
सिंहव्याघ्रसमाकीर्णे नानाद्विजगणावृते ।
गृध्रोलूकौ प्रवसतो बहुवर्षगणानपि ॥ २ ॥
अथोलूकस्य भवनं गृध्रः पापविनिश्चयः ।
ममेदमिति कृत्वाऽसौ कलहं तेन चाकरोत् ॥ ३ ॥
राजा सर्वस्य लोकस्य रामो राजीवलोचनः ।
तं प्रपद्यावहे शीघ्रं यस्यैतद्भवनं भवेत् ॥ ४ ॥
इति कृत्वा मतिं तौ तु निश्चयार्थं सुनिश्चिताम् ।
गृध्रोलकौ प्रपद्येतां कोपाविष्टौ ह्यमर्षितौ ॥ ५ ॥
रामं प्रपद्य तौ शीघ्रं कलिव्याकुलचेतसौ ।
तौ परस्परविद्वेषात्स्पृशतश्चरणौ तदा ॥ ६ ॥
अथ दृष्ट्वा नरेन्द्रं तं गृध्रो वचनमब्रवीत् ।
सुराणामसुराणां च प्रधानस्त्वं मतो मम ॥ ७ ॥
बृहस्पतेश्च शुक्राच्च विशिष्टोसि महाद्युते ।
परावरज्ञो भूतानां कान्त्या चन्द्र इवापरः ॥ ८ ॥
दुर्निरीक्ष्यो यथा सूर्यो हिमांश्चैव गौरवे ।
सागरश्चासि गाम्भीर्ये लोकपालो यमो ह्यसि ॥ ९ ॥
क्षान्त्या धरण्या तुल्योसि शीघ्रत्वे ह्यनिलोपमः ।
गुरुस्त्वं सर्वसंपन्नः कीर्तियुक्तश्च राघव ॥ १० ॥
अमर्षी दुर्जयो जेता सर्वास्त्रविधिपारगः ।
शृणुष्व मम वै राम विज्ञाप्यं नरपुङ्गव ॥ ११ ॥
ममालयं पूर्वकृतं बाहुवीर्येण राघव ।
उलूको हरते राजंस्तत्र त्वं त्रातुमर्हसि ॥ १२ ॥
एवमुक्ते तु गृध्रेण उलूको वाक्यमब्रवीत् ॥ १३ ॥
सोमाच्छतक्रतोः सूर्याद्धनदाद्वा यमात्तथा ।
जायते वै नृपो राम किंचिद्भवति मानुषः ।
त्वं तु सर्वमयो देवो नारायण इवापरः ॥ १४ ॥
या च ते सौम्यता राजन्सम्यक्प्रणिहिता विभो ।
समं चरसि चान्विष्य तेन सोमांशको भवान् ॥ १५ ॥
क्रोधे दण्डे प्रजानाथ दाने पापभयापहः ।
दाता हर्तासि गोप्तासि तेनेन्द्र इव नो भवान् ॥ १६ ॥
अधृष्य: सर्वभूतेषु तेजसा चानलोपमः ।
अभीक्ष्णं तपसे लोकांस्तेन भास्करसन्निभः ॥ १७ ॥
साक्षाद्वित्तेशतुल्योसि अथवा धनदाधिकः ।
वित्तेशस्यैव पद्मा श्रीर्नित्यं ते राजसत्तम ॥ १८ ॥
धनदस्य तु कोपेन धनदस्तेन नो भवान् ।
समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ॥ १९ ॥
शत्रौ मित्रे च ते दृष्टिः समतां याति राघव ।
धर्मेण शासनं नित्यं व्यवहारे विधिक्रमात् ॥ २० ॥
यस्य कृष्यसि वै राम तस्य मृत्युर्विधावति ।
गीयसे तेन वै राम यम इत्यतिविक्रमः ॥ २१ ।।
यश्चैष मानुषो भावो भवतो नृपसत्तम ।
आनृशंस्यपरो राजा सत्वेषु क्षमयाऽन्वितः ॥ २२ ॥
दुर्बलस्य त्वनाथस्य राजा भवति वै बलम् ।
अचक्षुषोत्तमं चक्षुरगतेः स गतिर्भवान् ॥ २३ ॥
अस्माकमपि नाथस्त्वं श्रूयतां मम धार्मिक ।
ममालयप्रविष्टस्तु गृध्रो मां बाधते नृप ।
त्वं हि देव मनुष्येषु शास्ता वै नरपुङ्गवः ॥ २४ ॥
एतच्छ्रुत्वा तु वै रामः सचिवानाह्वयत्स्वयम् ॥ २५ ।।
धृष्टिर्जयन्तो विजयः सिद्धार्थो राष्ट्रवर्धनः ।
अशोको धर्मपालश्च सचिवः सुमहाबलः ॥ २६ ॥
एते रामस्य सचिवा राज्ञो दशरथस्य च ।
नीतियुक्ता महात्मानः सर्वशास्त्रविशारदाः ।
प्रीतिमन्तः कुलीनाश्च नये मन्त्रे च कोविदाः ॥ २७ ॥
तानाहूय स धर्मात्मा पुष्पकादवतीर्य च ।
गृध्रोलूकविवादं तं पृच्छति स्म रघूत्तमः ॥ २८ ॥
कति वर्षाणि वै गृध्र तवेदं निलयं कृतम् ।
एतन्मे कारणं ब्रूहि यदि जानासि तत्त्वतः ॥ २९ ॥
एतच्छ्रुत्वा तु वै गृध्रो भाषते राघवं स तम् ।। ३० ।।
इयं वसुमती राम मनुष्यैः परितो यदा ।
उत्थितैरावृता सर्वा तदाप्रभृति मे गृहम् ॥ ३१ ॥
उलूकश्चाब्रवीद्रामं पादपैरुपशोभिता ।
यदेयं पृथिवी राजंस्तदाप्रभृति मे गृहम् ॥ ३२ ॥
एतच्छ्रुत्वा तु रामो वै सभासद उवाच ह ।। ३३ ॥
न सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम् ।
नासौ धर्मा यत्र न सत्यमस्ति न तरसत्यं यच्छलेनानुविद्धम् ॥ ३४ ॥
ये तु सभ्या: सदा ज्ञात्वा तूष्णीं ध्यायन्त आसते ।
यथाप्राप्तं न ब्रुवते ते सर्वेऽनृतवादिनः ।। ३५ ।।
जानन्न वाऽब्रवीत्प्रश्नान्कामात्क्रोधाद्भयात्तथा ।
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति ॥ ३६ ॥
तेषां संवत्सरे पूर्णे पाश एकः प्रमुच्यते ।
तस्मात्सत्येन वक्तव्यं जानता सत्यमञ्जसा ॥ ३७ ।।
एतच्छ्रुत्वा तु सचिवा राममेवाब्रुवंस्तदा ।
उलूक: शोभते राजन्न तु गृध्रो महामते ॥ ३८ ॥
त्वं प्रमाणं महाराज राजा हि परमा गतिः ।
राजमूला: प्रजाः सर्वा राजा धर्मः सनातनः ॥ ३९ ॥
शास्ता नृणां नृपो येषां ते न गच्छन्ति दुर्गतिम् ।
वैवस्वतेन मुक्तास्तु भवन्ति पुरुषोत्तमाः ॥ ४० ॥
सचिवानां वचः श्रुत्वा रामो वचनमब्रवीत् ।
श्रूयतामभिधास्यामि पुराणे यदुदाहृतम् ॥ ४१ ॥
द्यौः सचन्द्रार्कनक्षत्रा सपर्वतमहावना ।
सलिलार्णवसंपूर्णं त्रैलोक्यं सचराचरम् ।
एक एव तदा ह्यासीद्युक्तो मेरुरिवापरः ॥ ४२ ॥
पुरा भूः सह लक्ष्म्या च विष्णोर्जठरमाविशत् ।
तां निगृह्य महातेजाः प्रविश्य सलिलार्णवम् ।
सुष्वाप देवो भूतात्मा बहून्वर्षगणानपि ॥ ४३ ॥
विष्णौ सुप्ते तदा ब्रह्मा विवेश जठरं ततः ॥ ४४ ॥
रुद्धस्रोतं तु तं ज्ञात्वा महायोगी समाविशत् ।
नाभ्यां विष्णोः समुत्पन्ने पद्मे हेमविभूषिते ॥ ४५ ॥
स तु निर्गम्य वै ब्रह्मा योगी भूत्वा महाप्रभुः ।
सिसृक्षुः पृथिवीं वायुं पर्वतान्समहीरुहान् ॥ ४६ ॥
तदन्तरे प्रजाः सर्वां: समनुष्यसरीसृपाः ।
जरायुजोण्डजाः सर्वाः ससर्ज स महातपाः ॥ ४७ ॥
ततः श्रोत्रमलोत्पन्नः कैटभो मधुना सह ।
दानवौ तौ महावीर्यौ घोररूपौ दुरासदौ ॥ ४८ ॥
दृष्ट्वा प्रजापतिं तत्र क्रोधाविष्टौ बभूवतुः ।
वेगेन महता तत्र स्वयंभुवमधावताम् ॥ ४९ ॥
दृष्ट्वा स्वयंभुवा मुक्तो रावो वै विकृतस्तदा ।
तेन शब्देन संग्राप्तौ दानवौ हरिणा सह ॥ ५० ॥
अथ चक्रप्रहारेण सूदितौ मधुकैटभौ ।
मेदसा प्लाविता सर्वा पृथिवी च समन्ततः ॥ ५१ ॥
भूयो विशोधिता तेन हरिणा लोकधारिणा ।
शुद्धां वै मेदिनीं तां तु वृक्षैः सर्वामपूरयत् ।
ओषध्य: सर्वसस्यानि निष्पद्यन्त पृथग्विधाः ॥ ५२ ॥
मेदोगन्धात्तु धरणी मेदिनीत्यभिसंज्ञिता ।
तस्मान्न गृध्रस्य गृहमुलूकस्येति मे मतिः ॥ ५३ ॥
तस्माद्गृध्रस्तु दण्ड्यो वै पापो हर्ता परालयम् ।
पीडां करोति पापात्मा दुर्विनीतो महानयम् ॥ ५४ ॥
अथाशरीरिणी वाणी अन्तरिक्षात्प्रबोधिनी ।
मा वधी राम ग्रुधं तं पूर्वदग्धं तपोबलात् ॥ ५५ ॥
काले गौतमदग्धोऽयं प्रजानाथो धनेश्वरः ।
ब्रह्मदत्तस्तु नाम्नैष शूरः सत्यव्रतः शुचिः ॥ ५६ ॥
गृहं त्वस्यागतो विप्रो भोजनं प्रत्यमार्गत ।
साग्रं वर्षशतं चैव भोक्तव्यं नृपसत्तम ॥ ५७ ॥
ब्रह्मदत्तः स वै तस्य पाद्यमर्घ्यं स्वयं नृपः ।
हार्दं चैवाकरोत्तस्य भोजनार्थं महाद्युतेः ।
मांसमस्याभवत्तत्र आहारे तु महात्मनः ॥ ५८ ॥
अथ क्रुद्धेन मुनिना शापो दत्तोस्य दारुणः ।
गृध्रस्त्वं भव वै राजन्मामैनं ह्यथ सोब्रवीत् ॥ ५९ ॥
[ प्रसादं कुरु धर्मज्ञ अज्ञानान्मे महाव्रत ।
शापस्यान्तं महाभाग क्रियतां वै ममानघ ॥ ६० ॥
तदज्ञानकृतं मत्वा राजानं मुनिरब्रवीत् ॥ ६१ ॥ ]
उत्पत्स्यति कुले राज्ञां रामो नाम महायशाः ।
इक्ष्वाकूणां महाभागो राजा राजीवलोचनः ।
तेन स्पृष्टो विपापस्त्वं भविता नरपुङ्गवः ।। ६२ ॥
स्पृष्टो रामेण तच्छ्रुत्वा नरेन्द्रः पृथिवीपतिः ।
गृध्रत्वं त्यक्तवान्राजा दिव्यगन्धानुलेपनः ।
पुरुषो दिव्यरूपोऽभूदुवाचेदं च राघवम् ।। ६३ ।।
साधु राघव धर्मज्ञ त्वत्प्रसादादहं विभो ।
विमुक्तो नरकाद्धोराच्छापस्यान्तः कृतस्त्वया ॥ ६४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठेतृतीयः सर्गः ॥ ३ ॥