॥ अथात्राधिकपाठश्लोकप्रारम्भः ॥
प्रक्षिप्तेषु प्रथमः सर्गः ॥ १ ॥
रावणेन वरुणलोकान्निवृत्य पुनरश्मनगरप्रवेशः ॥ १ ॥ तत्रमणिमयंमहाबलिभवनं -दृष्टवतारावणेन तत्पतिजिज्ञासयातत्रप्रहस्तप्रेषणम् ॥ २ ॥ तद्वारेज्वालामालामध्यवर्तिपुरुष दर्शनाद्भीतपरावृत्तेनप्रहस्तेन रावणंप्रति तन्निवेदनम् ॥ ३ ॥ स्वयमेवतद्भवनंप्रविष्टेन प्रहस्तदृष्टपुरुषदर्शनमात्रेणचकितकंपितेनरावणेन कथंचिद्धैर्यावलंबनेन पुरुषंप्रति तद्गृहपतिनामादिप्रश्नपूर्वकं तेनसहस्वस्ययुयुत्सानिवेदनम् ॥ ४ ॥ तद्भवनपतेर्महाबलित्वनिवेदन -पूर्वकतदनुज्ञयाऽन्तःप्रविष्टेनरावणेन महाबलिविलोकनम् ॥ ५ ॥ तेनस्वागमनकारणंपृष्टेन -रावणेन तंप्रति तंबद्धवताविष्णुनासहस्वस्ययुयुत्सानिवेदने बलिनातंप्रति विष्णुमहिमानुवर्णन -पूर्वकंस्वगृहद्वारस्थपुरुषस्यैव विष्णुत्वनिवेदनं ॥ ६ ॥ ततो रोषाद्युद्धायसमापततिरावणे -विष्णुनातत्काले तस्यहननानिच्छ्यातिरोधानं ॥ ७ ॥
हर्षान्नादांस्तु विसृजन्निष्क्रान्तो वरुणालयात् ।
महोदरेण संयुक्तो हर्षगद्गदभाषिणा ॥ १ ॥
ततोश्मनगरं भूयो विचेरुर्युद्धदुर्मदाः ।
यत्रापश्यद्दशग्रीवो गृहं परमभास्वरम् ।
वैडूर्य तोरणाकीर्णं मुक्ताजालविभूषितम् ॥ २ ॥
सुवर्णस्तम्भगहनं वेदिकाभिः समन्ततः ।
वज्रस्फटिकसोपानं किङ्किणीजालसंयुतम् ॥ ३ ॥
बह्वासनयुतं रम्यं महेन्द्रभवनोपमम् ।
दृष्ट्वा गृहवरं रम्यं दशग्रीवः प्रतापवान् ॥ ४ ॥
कस्येदं भवनं सौम्यं मेरुमन्दरसन्निभम् ।
गच्छ ग्रहस्त शीघ्रं त्वं जानीष्व भवनोत्तमम् ॥ ५ ॥
एवमुक्तः प्रहस्तस्तु प्रविवेश गृहोत्तमम् ॥ ६ ॥
स शून्यं प्रेक्ष्य तद्वारं पुनः कक्ष्यान्तरं ययौ ।
सप्तकक्ष्यान्तरं गत्वा ततो ज्वालामपश्यत ॥ ७ ॥
ततो दृष्टः पुमांस्तत्र हृष्टो हासं मुमोच सः ।
स तु श्रुत्वा महाहासमृर्ध्वरोमाऽभवत्तदा ॥ ८ ॥
ज्वालामध्ये स्थितस्तत्र हेममाली विमोहितः ।
आदित्य इव दुष्प्रेक्ष्यः साक्षाद्यम इव स्थितः ॥ ९ ॥
तथा दृष्ट्वा तु वृत्तान्तं स्वरमाणो विनिर्गतः ।
विनिर्गम्याब्रवीत्सर्वं रावणाय निशाचरः ॥ १० ॥
अथ राम दशग्रीवः पुष्पकादवरुह्य सः ।
प्रवेष्टुमिच्छन्वेश्माथ भिन्नाञ्जनचयोपमः ॥ ११ ॥
चन्द्रमौलिर्व पुष्मांच पुरुषोऽस्याग्रतः स्थितः ।
द्वारमावृत्य सहसा ज्वालासक्तो भयानकः ॥ १२ ॥
रक्ताक्षः श्वेतवदनो बिम्बोष्ठश्चोर्ध्वरोमवान् ।
महाभीषणनासश्च कम्बुग्रीवो महाहनुः ॥ १३ ॥
गूढश्मश्रुर्निगूढास्थि दंष्ट्राभा रोमहर्षणः ।
एतादृशं वै पुरुषं ददर्श स तु रावणः ।
गृहीत्वा लोहमुसलं द्वारं विष्टभ्य सुस्थितम् ॥ १४ ॥
अथ संदर्शनात्तस्य ऊर्ध्वरोमा बभूव सः ।
अस्पन्दतास्य हृदयं वेपथुश्चाप्यजायत ॥ १५ ॥
निमित्तान्यमनोज्ञानि दृष्ट्वा राम व्यचिन्तयत् ।
अथ चिन्तयतस्तस्य स एव पुरुषोऽब्रवीत् ॥ १६ ॥
किं त्वं चिन्तयसे रक्षो ब्रूहि विस्रन्धमानसः ।
युद्धातिथ्यमहं वीर करिष्ये रजनीचर ॥ १७ ॥
एवमुक्त्वा स तद्रक्षः पुनर्वचनमब्रवीत् ।
योत्स्यसे बलिना सार्धं मया वा तद्विधीयताम् ॥ १८ ॥
रावणोऽभिहितो भूय ऊर्ध्वरोमा व्यजायत ।
अथ धैर्य समालम्ब्य रावणो वाक्यमब्रवीत् ॥ १९ ॥
गृहेऽत्र तिष्ठते को वा तं ब्रूहि वदतांवर ।
तेनैव सार्धं योत्स्यामि यथा वा मन्यते भवान् ॥ २० ॥
स एनं पुनरप्याह दानवेन्द्रोत्र तिष्ठति ॥ २१ ॥
एष वै परमोदारः शूरः सत्यपराक्रमः ।
वीरो बहुगुणोपेतः पाशहस्त इवान्तकः ॥ २२ ॥
बालार्क इव तेजस्वी समरेष्वनिवर्तकः ।
अमर्षी दुर्जयो जेता बलिर्हि गुणसागरः ॥ २३ ॥
प्रियंवदः संविभागी गुरुविप्रप्रियः सदा ।
कालकाङ्क्षी महासत्वः सत्यवाक्सौम्यदर्शनः ॥ २४ ॥
स च सर्वगुणोपेतः शूरः स्वाध्यायतत्परः ।
एष गर्जति वात्येष ज्वलते तपते सदा ॥ २५ ॥
देवैश्च भूतसंघैश्च पन्नगैश्च महर्षिभिः ।
भयं यो नाभिजानाति तेन किं योद्धुमिच्छसि ॥ २६ ॥
बलिना यदि ते योद्धुं रोचते राक्षसेश्वर ।
प्रविश त्वं महासत्वं संग्रामं कुरु मा चिरम् ॥ २७ ॥
एवमुक्तो दशग्रीवः प्रविवेश यतो बलिः ।
स विलोक्याथ लङ्केशमट्टहासं जहास च ॥ २८ ॥
आदित्य इव दुष्प्रेक्ष्यः स्थितो दानवसत्तमः ।
अथ संदर्शनादेव बलिर्वै विश्वरूपवान् ।। २९ ॥
स गृहीत्वा च तद्रक्षो ह्युत्सङ्गे स्थाप्य चाब्रवीत् ।
दशग्रीव महाबाहो कं ते कामं करोम्यहम् ।
किमागमनकृत्यं ते ब्रूहि त्वं राक्षसेश्वर ।। ३० ।।
एवमुक्तस्तु बलिना रावणो वाक्यमब्रवीत् ।
श्रुतं मया महाभाग वद्धस्त्वं विष्णुना पुरा ॥ ३१ ॥
सोहं मोचयितुं शक्तो बन्धनात्वां न संशयः ।
एवमुक्ते ततो हासं बलिः कृत्वेदमब्रवीत् ॥ ३२ ॥
श्रूयतामभिधास्यामि यं त्वं पृच्छसि रावण ।
य एष पुरुष: श्यामो द्वारि तिष्ठति नित्यदा ॥ ३३ ॥
एतेन दानवेन्द्राश्च तथाऽन्ये बलवत्तराः ।
वशं नीता बलवता पूर्वं पूर्वतराश्च ये ॥ ३४ ॥
बद्धश्चाहमनेनैवं कृतान्तो दुरतिक्रमः ।
क एनं पुरुषो लोके वञ्चयिष्यति रावण ॥ ३५ ॥
सर्वभूतापहर्ता वै य एष द्वारि तिष्ठति ।
कर्ता कारयिता चैव धाता च भुवनेश्वरः ॥ ३६ ॥
न त्वं वेद न चाहं वै भूतभव्यभवत्प्रभुम् ।
कलिश्चैव हि कालश्च सर्वभूतापहारकः ॥ ३७ ॥
लोकत्रयस्य सर्वस्य हर्ता स्रष्टा तथैव च ।
संहरत्येष भूतानि स्थावराणि चराणि च ॥ ३८ ॥
पुनश्च सृजते सर्वमनाद्यन्तो महेश्वरः ।
करणं कारणं कर्ता सोयं पुरुषसत्तमः ॥ ३९ ॥
इष्टं चैव हि दत्तं च हुतं चैव निशाचर ।
सर्वमेव हि लोकेशो धाता गोप्ता न संशयः ॥ ४० ॥
नैवंविधं महद्भुतं विद्यते भुवनत्रये ॥ ४१ ॥
अहं त्वं चैव पौलस्त्य ये चान्ये पूर्ववत्तराः ।
नेता तेषां महात्मैष पशुं रशनया यथा ॥ ४२ ॥
वृत्रो दनुः शुकः शुम्भो निशुम्भो दम्भुरेव च ।
कालनेमिश्च प्रह्लादस्तथा वैरोचनो बलिः ।। ४३ ।।
कालकेयास्तारकाख्यो मुचुकुन्दो विवर्धनः ।
हिरण्याक्षो मधुश्चैव कैटभो धूमशम्बरौ ॥ ४४ ॥
यमलार्जुनौ च कंसश्च कैटभो मधुना सह ।
एते तपन्ति द्योतन्ति वान्ति वर्षन्ति चैव हि ॥ ४५ ॥
सर्वैः क्रतुशतैरिष्टं सर्वैस्तप्तं महत्तपः ।
सर्वे ते सुमहात्मानः सर्वे वै योगधर्मिणः ॥ ४६ ॥
सर्वैरैश्वर्यमासाद्य भुक्तभोगैर्महत्तरैः ।
दत्तमिष्टमधीतं च प्रजाश्च परिपालिताः ॥ ४७ ॥
स्वपक्षेष्वनुगोप्तारः प्रहर्तारः परेष्वपि ।
समरेष्वपि लोकेषु नैतेषां विद्यते समः ॥ ४८ ॥
शूरास्त्वभिजनोपेताः सर्वशस्त्रास्त्रपारगाः ।
सर्वविद्याप्रवेत्तारः संग्रामेष्वनिवर्तकाः ॥ ४९ ॥
सर्वैस्त्रिदशराज्यानि काङ्क्षितानि महात्मभिः ।
युद्धे सुरगणाः सर्वे निर्जिताश्च सहस्रशः ॥ ५० ॥
देवानामपि ये शक्ताः स्वपक्षपरिपालकाः ।
प्रमत्ता भोगरक्ताश्च बालार्कसमतेजसः ॥ ५१ ॥
यत्स देवान्प्रधर्षेत तदेषो विष्णुरीश्वरः ।
उपायपूर्वकं नाशं संवेत्ता भगवान्हरिः ॥ ५२ ॥
प्रादुर्भावं विकुरुते येनैतन्निधनं नयेत् ।
पुनरेवात्मनात्मानमधिष्ठाय स तिष्ठति ॥ ५३ ।।
एवमेतेन देवेन दानवेन्द्रा महात्मना ।
ते हि सर्वे क्षयं नीता बलिना कामरूपिणा ॥ ५४ ॥
समरे च दुराधर्षा नृपास्ते च पराजिताः ।
तेन नीताः क्षयं सर्वे कृतान्तबलचोदिताः ॥ ५५ ॥
एवमुक्त्वाऽथ प्रोवाच राक्षसं दानवेश्वरः ।
यदेतदृश्यते वीर चक्रं दीप्तानलोपमम् ।। ५६ ।।
एतद्गृहीत्वाऽऽगच्छ त्वं मम पार्श्वं महाबल ।
ततोऽहं तव चाख्यास्ये मुक्तिकारणमव्ययम् ।। ५७ ।।
तत्कुरुष्व महाबाहो मा विलम्बस्व रावण ।
एतच्छ्रुत्वा गतो रक्षः प्रहसंश्च महाबलः ॥ ५८ ॥
यत्र स्थितं महद्दिव्यं कुण्डलं रघुनन्दन ।
लीलयोत्पाटनं चक्रे रावणो बलदर्पितः ॥ ५९ ॥
न च चालयितुं शक्तो रावणोऽभूत्कथंचन ।
लज्जया स पुनर्भूयो यत्नंप चक्रे महाबलः ॥ ६० ॥
उत्क्षिप्तमात्रे दिव्ये च पपात भुवि राक्षसः ।
छिन्नमूलो यथा शाखी रुधिरौघपरिप्लुतः ॥ ६१ ॥
एतस्मिन्नन्तरे जज्ञे शब्द: पुष्करसंभवः ।
राक्षसेन्द्रस्य सचिवैर्मुक्तो हाहाकृतो महान् ॥ ६२ ॥
ततो रक्षो मुहूर्तेन चेतनां लभ्य चोत्थितम् ।
लज्जयावनतीभूतं बलिर्वाक्यमुवाच ह ।। ६३ ।।
आगच्छ राक्षसश्रेष्ठ वाक्यं शृणु मयोदितम् ।
यत्त्वया चौद्धृतं वीर कुण्डलं मणिभूषितम् ॥ ६४ ॥
एतद्धि पूर्वजस्यासीत्कर्णाभरणमीक्ष्यताम् ।
एतत्पतितमत्रैवमन्यद्भूयो महाबल ॥ ६५ ॥
अन्यत्पर्वतसानौ हि पतितं कुण्डलादनु ।
सुकुटं वेदिसामीप्ये पतितं युध्यतो भुवि ॥ ६६ ॥
हिरण्यकशिपोः पूर्वं मम पूर्वपितामहात् ।
न तस्य कालो मृत्युर्वा न व्याधिर्न विहिंसकाः ॥ ६७ ॥
न दिवा मरणं तस्य न रात्रौ सन्ध्ययोरपि ।
न शुष्केण न चार्द्रेण न च शस्त्रेण केनचित् ।
विद्यते राक्षसश्रेष्ठ तस्य नास्त्रेण केनचित ॥ ६८ ॥
प्रह्लादेन समं चक्रे वादं परमदारुणम् ।
तस्य वादे समुत्पन्ने धीरो लोकभयंकरः ॥ ६९ ॥
सर्वदृश्यस्य वीरस्य प्रह्लादस्य महात्मनः ।
उत्पन्नो राक्षसश्रेष्ठ नृसिंहाकृतिरूपधृत् ॥ ७० ॥
दृष्टं च तेन रौद्रेण क्षुब्धं सर्वमशेषतः ॥ ७१ ॥
तत उद्धृत्य बाहुभ्यां नखैर्निन्ये यमक्षयम् ।
एष तिष्ठति द्वाः स्थो वै वासुदेवो निरञ्जनः ॥ ७२ ॥
तस्य देवादिदेवस्य तत्वत्तो मे शृणुष्व ह ।
वाक्यं परमभावेन यदि ते वर्तते हृदि ॥ ७३ ॥
इन्द्राणां च सहस्राणि सुराणामयुतानि च ।
ऋषीणां सप्तसंख्यानां शतान्यब्दसहस्रशः ।
वशं नीतानि सर्वाणि य एष द्वारि तिष्ठति ॥ ७४ ॥
तस्य तद्वचनं श्रुत्वा रावणो वाक्यमब्रवीत् ।
मया प्रेतेश्वरो दृष्टः कृतान्तः सह मृत्युना ॥ ७५ ॥
पाशहस्तो महाज्वाल ऊर्ध्वरोमा भयानकः ।
विद्युज्जिह्वश्च दंष्ट्रालः सर्पवृश्चिकरोमवान् ॥ ७६ ॥
रक्ताक्षो भीमवेगश्च सर्वसस्वभयंकरः ।
आदित्य इव दुष्प्रेक्ष्यः समरेष्वनिवर्तकः ॥ ७७ ॥
पापानां शमिता चैव स मया युधि निर्जितः ।
न च मे तत्र भीः काचिद्व्यथा वा दानवेश्वर ॥ ७८ ॥
एनं तु नाभिजानामि तद्भवान्वक्तुमर्हति ॥ ७९ ॥
रावणस्य वचः श्रुत्वा बलिर्वैरोचनोऽब्रवीत् ।
एष त्रैलोक्यधाता च हरिर्नारायणः प्रभुः ॥ ८० ॥
अनन्तः कपिलो विष्णुर्नारसिंहो महाद्युतिः ।
ऋतधामा सुधामा च पाशहस्तो भयानकः ।
द्वादशादित्यसदृशः पुराणपुरुषोत्तमः ॥ ८१ ॥
नीलजीमूतसंकाशः सुरनाथः सुरोत्तमः ।
ज्वालामाली महाबाहुर्योगी भक्तजनप्रियः ॥ ८२ ॥
एवं धारयते लोकानेष वै सृजते प्रभुः ।
एष संहरते चैव कालो भूत्वा महाबलः ॥ ८३ ॥
एष यज्ञश्च याज्यश्च चक्रायुधधरो हरिः ।
सर्वदेवमयश्चैव सर्वभूतमयस्तथा ॥ ८४ ।।
सर्वलोकमयश्चैव सर्वज्ञानमयस्तथा ।
सर्वरूपी महारूपी बलदेवो महाभुजः ॥ ८५ ॥
वीरहा वीरचक्षुष्मांस्त्रैलोक्यगुरुरव्ययः ।
एवं मुनिगणाः सर्वे कथयन्तीह मोक्षिणः ॥ ८६ ॥
य एनं वेत्ति पुरुषं न च पापैर्विलिप्यते ।
स्मृत्वा स्तुत्वा तथेष्ट्वा च सर्वमस्मादवाप्यते ॥ ८७ ॥
एतच्छ्रुत्वा च वचनं रावणो निर्ययौ तदा ।
क्रोधसंरक्तनयन उद्यतास्त्रो महाबलः ॥ ८८ ॥
तथाभूतं च तं दृष्ट्वा हरिर्मुसलधृत्प्रभुः ।
नैनं हन्म्यधुना पापं चिन्तयित्वेति विश्वधृत् ।
अन्तर्धानं गतो राम ब्रह्मणः प्रियकाम्यया ।। ८९ ॥
न च तं पुरुपं तत्र ददर्श रजनीचरः ॥ १० ॥
[ हर्षान्नादं विमुञ्चन्वै निष्क्रामन्यरुणालयात् ।
येनैव संप्रविष्टः स पथा तेनैव निर्ययौ ] ॥ ९१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे प्रथम सर्गः ॥ १ ॥
प्रक्षिप्तेषु द्वितीयः सर्गः ॥ २ ॥
सूर्यजिगीषया तन्मण्डलंगतेनरावणेनतंप्रति युद्ध करणपराजितत्ववचनान्यतरपक्षाङ्गी -करण निवेदनाय प्रहस्तप्रेषणम् ॥ १॥ सूर्यद्वारपालकेनदण्डिनाम्ना तस्मिन्प्रहस्तवचननिवेदने सूर्येणदण्डिनंप्रति स्वस्यकालक्षेपासहिष्णुत्वोक्त्या तंप्रत्येवान्यतरपक्षाङ्गीकरणाधिकारदाने तेनचरावणंप्रतितन्निवेदने रावणेन जयघोषणपूर्वकं ततोनिर्गमनम् ॥ २ ॥
अथ संचिन्त्य पौलस्त्यः सूर्यलोकं जगाम ह ।
मेरुशृङ्गे वरे रम्ये उषित्वा तत्र शर्वरीम् ॥ १ ॥
पुष्पकं तत्समारुह्य रवेस्तुरगसन्निभम् ।
मनोवातगतिं दिव्यं विहारवियति स्थितम् ।
तत्रापश्यद्रविं देवं सर्वतेजोमयं शुभम् ॥ २ ॥
वरकाञ्चन केयूररक्ताम्बरविभूषितम् ।
कुण्डलाभ्यां शुभाभ्यां तु भ्राजन्मुखविकासितम् ॥ ३ ॥
केयूरनिष्काभरणं रक्तमालावलम्बिनम् ।
रक्तचन्दनदिग्धाङ्गं सहस्रकिरणोज्ज्वलम् ॥ ४ ॥
तमादिदेवमादित्यं विभुं सप्ताश्ववाहनम् ।
अनाद्यन्तममध्यं च लोकसाक्षिणमीश्वरम् ॥ ५ ॥
तं दृष्ट्वा प्रवरं देवं रावणो राक्षसाधिपः ।
स प्रहस्तमुवाचाथ रवितेजोबलार्दितम् ॥ ६ ॥
गच्छामात्य वद ह्येनं संदेशान्मम शासनम् ।
मार्तण्ड भास्करं श्रेष्ठं तत्त्वत्तो ब्रूहि माचिरम् ॥ ७ ॥
युद्धार्थी रावणः प्राप्तो युद्धं तस्य प्रदीयताम् ।
निर्जितोस्मीति वा ब्रूहि पक्षमेकतरं कुरु ॥ ८ ॥
तस्य तद्वचनाद्रक्षः सूर्यस्यान्तिकमागमत् ।
पिङ्गलं दण्डिनं चैव सोपश्यद्वारपालकौ ॥ ९ ॥
आभ्यामाख्याय तत्सर्वं रावणस्य विनिश्चयम् ।
तूष्णीमास्ते प्रहस्तः स सूर्यतेजःप्रतापितः ॥ १० ॥
दण्डी गत्वा रवेः पार्श्वं प्रणम्याख्यातवान्विभुम् ।। ११ ।।
श्रुत्वा तु सूर्यस्तद्वृत्तं दण्डिनो रावणस्य ह ।
उवाच वचनं श्रीमान्बुद्धिपूर्वं दिवाकरः ॥ १२ ॥
गच्छ दण्डिञ्जयस्वैनं निर्जितोस्मीति वा वद ।
कुरु यत्ते कङ्क्षितं तं नाहं कालक्षिपां सहे ॥ १३ ॥
स गत्वा वचनात्तस्य राक्षसाय महात्मनः ।
कथयामास तत्सर्वं सूर्योक्तं वचनं यथा ॥ १४ ॥
स श्रुत्वा वचनं तस्य दण्डिनो वै महात्मनः ।
घोषयित्वा जगामाथ विजयं राक्षसेश्वरः ॥ १५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे द्वितीयः सर्गः ॥ २ ॥
प्रक्षिप्तेषु तृतीयः सर्गः ॥ ३ ॥
चन्द्रजिगीषयातन्मण्डलंप्रतिप्रस्थितस्यरावणस्य मध्येमार्गं पर्वतमहर्षिणासमागमः ॥ १ ॥ रावणेनतंप्रत्यप्सरोभिः सहविमानैः सहसंचरतांसुकृतिनां स्वरूपादिप्रश्ने तेनतंप्रतितत्कथनम् ॥ २ ॥ रावणेनयुद्धायप्रतियोद्धृप्रदर्शनंप्रार्थितेनपर्वतेन तंप्रतिमान्धातृप्रदर्शनं ॥ ३ ॥ रावण -मान्धातृभ्यांनानास्त्रप्रयोगपूर्वकंमहासमरप्रवर्तने अन्यतरापराजये गालवपुलस्त्याभ्यां सान्त्वनेनतयोर्युद्धप्रतिनिवर्तनम् ॥ ४ ॥
अथ संचिन्त्य पौलस्त्यः सोमलोकं जगाम ह ।
मेरुशृङ्गे वरे रम्ये रजनीमुष्य वीर्यवान् ॥ १ ॥
तदा कश्चिद्रथारूढो दिव्यस्रगनुलेपनः ।
अप्सरोगणमुख्येन सेव्यमानस्तु गच्छति ॥ २ ॥
रतिश्रान्तो सरोङ्गेषु चुम्बितः सन्विबुध्यते ।
रावणस्त्वथ तं दृष्ट्वा कौतूहलसमन्वितः ॥ ३ ॥
अथापश्यदृषिं तत्र पर्वतं मुनिसत्तमम् ।
दशग्रीवो महात्मानं दृष्ट्वा चेदमुवाच ह ।
स्वागतं तव देवर्षे दिष्ट्या चैवागतो ह्यसि ॥ ४ ॥
कोयं स्यन्दनमारूढो ह्यप्सरोगणसेवितः ।
निर्लज्ज इव संयाति भयस्थानं न विन्दति ॥ ५ ॥
रावणेनैवमुक्तस्तु पर्वतो वाक्यमब्रवीत् ।
शृणु वत्स यथातत्त्वं वक्ष्ये तव महामते ॥ ६ ॥
एतेन निर्जिता लोका ब्रह्मा चैवाभितोषितः ।
एष गच्छति मोक्षाय सुसुखं स्थानमुत्तमम् ॥ ७ ॥
तपसा निर्जिता लोका विक्रमेण यथा त्वया ।
प्रयाति पुण्यवान्वत्स सोमं पीत्वा न संशयः ।। ८ ।।
त्वं च राक्षसशार्दूल शूरः सत्यव्रतस्तथा ।
नेदृशेषु च क्रुध्यन्ति बलिनो ब्रह्मचारिषु ॥ ९ ॥
अथापश्यद्रथवरं महाकायं महौजसम् ।
जाज्वल्यमानं वपुषा गीतवादित्रसंकुलम् ॥ १० ॥
क्वैष गच्छति देवर्षे शोभमानो महाद्युतिः ।
किन्नरैश्च प्रगायद्भिर्नृत्यद्भिश्च मनोहरम् ॥ ११ ॥
श्रुत्वा चैनमुवाचाथ पर्वतो मुनिसत्तमः ।
एष शूरो रणे योद्धा संग्रामेष्वनिवर्तकः ।
युध्यमानस्तथैवैष प्रहारैर्जर्जरीकृतः ॥ १२ ॥
कृती शूरो रणे जेता स्वाम्यर्थे त्यक्तजीवितः ।
संग्रामे निहतो वीरान्हत्वा च सबलान्बहून् ।। १३ ।।
इन्द्रस्यातिथिरेवैष ह्यथवा यत्र चेच्छति ।
नृत्तगीतविलासैस्तु सेव्यते नरसत्तमः ॥ १४ ॥
पप्रच्छ रावणो भूयः कोयं यात्यर्कसन्निभः ।
रावणस्य वचः श्रुत्वा पर्वतो वाक्यमब्रवीत् ॥ १५ ॥
य एष दृश्यते राजन्विमाने सर्वकाञ्चने ।
अप्सरोगणसंयुक्ते पूर्णेन्दुसदृशाननः ॥ १६ ॥
सुवर्णदो महाराज विचित्राभरणाम्बरः ।
एष गच्छति शीघ्रेण यानेन सुमहाद्युतिः ॥ १७ ॥
पर्वतस्य वचः श्रुत्वा रावणो वाक्यमब्रवीत् ।
य एते यान्ति राजानो ब्रूहि तानृषिसत्तम ॥ १८ ॥
कोत्र मे याचतो दद्यायुद्धातिथ्यं महाद्युतिः ।
क्षिप्रमाख्याहि धर्मज्ञ पिता मे त्वं हि पर्वत ॥ १९ ॥
एवमुक्तः प्रत्युवाच रावणं पर्वतस्तदा ।
स्वर्गार्थिनो महाराज नैते युद्धार्थिनो नृपाः ॥ २० ॥
वक्ष्यामि च महाराज विचित्राभरणाम्बरः ।
यस्तु राजा महातेजाः सप्तद्वीपेश्वरो महान् ।
मान्धातेत्यभिविख्यातः स ते युद्धं प्रदास्यति ॥ २१ ॥
पर्वतस्य वचः श्रुत्वा रावणो वाक्यमब्रवीत् ।
कुत्रासौ वर्तते राजा तं ममाचक्ष्व तत्वतः ॥ २२ ॥
अहं यास्यामि तत्राद्य यत्रासौ नरपुङ्गवः ।
रावणस्य वचः श्रुत्वा मुनिर्वचनमब्रवीत् ॥ २३ ॥
युवनाश्वसुतो ह्येप मान्धाता राजसत्तमः ।
सप्तद्वीपान्समुद्रान्ताञ्जित्वाऽद्य स्वर्गमेष्यति ॥ २४ ॥
अथापश्यन्महाबाहुर्विरिञ्चिवरदर्पितः ।
अयोध्याधिपतिं वीरं मान्धातारं नृपोत्तमम् ॥ २५ ॥
सप्तद्वीपाधिपं यान्तं स्यन्दनेन विराजितम् ।
काञ्चनेन विचित्रेण महाहारेण भास्वता ॥ २६ ॥
जाज्वल्यमानं रूपेण दिव्यस्त्रगनुलेपनम् ।
तमुवाच दशग्रीवो युद्धं मे दीयतामिति ॥ २७ ॥
एवमुक्तो दशग्रीवं प्रहस्येदमुवाच ह ।
यदि ते जीवितं नेष्टं ततो युध्यस्व मामिति ॥ २८ ॥
मान्धातुर्वचनं श्रुत्वा रावणो वाक्यमब्रवीत् ।
वरुणस्य कुबेरस्य यमस्यापि न विव्यथे ।
किमरे मानुषात्वत्तो रावणो भयमाविशेत् ॥ २९ ॥
एवमुक्त्वा दशग्रीवः क्रोधात्तं प्रदहन्निव ।
आज्ञापयामास तदा राक्षसान्युद्धदुर्मदान् ॥ ३० ॥
अथ क्रुद्धास्तु सचिवा रावणस्य दुरात्मनः ।
ववृषुः शरवर्षाणि क्रूरा युद्धविशारदाः ॥ ३१ ॥
अथ राज्ञा बलवता कैङ्कपत्रैरजिह्यगैः ।
इषुभिस्ताडिताः सर्वे प्रहस्तशुकसारणाः ।
महोदरविरूपाक्षमारीचाकम्पनादयः ॥ ३२ ॥
अथ प्रहस्तो नृपतिं शरवर्षैरवाकिरत् ।
अप्राप्तानेव तान्सर्वान्प्रचिच्छेद नृपोत्तमः ॥ ३३ ॥
भुशुण्डीभिश्च भल्लैश्च भिण्डिपालैश्च तोमरैः ।
नरराजेन दह्यन्ते शलभा इव तेऽग्निना ॥ ३४ ॥
पुनर्नृपवर: क्रुद्धः पञ्चभिः प्रविभेद तम् ।
तोमरैः स महाघोरै: पुरा क्रौञ्चमिवाग्निजः ॥ ३५ ।।
ततो मुहुर्भ्रामयित्वा मुद्गरं वज्रसन्निभम् ।
सुमोच सोतिवेगेन राक्षसस्य रथं प्रति ।। ३६ ॥
स पपात महावेगो मुद्गरो वज्रसन्निभः ।
घूर्णितो रावणस्तेन पतितः शक्रकेतुवत् ॥ ३७ ॥
तदा स नृपतिः प्रीतो हर्षोद्भूतबलो बभौ ।
सकलेन्दुकरैः स्पृष्टं यथाम्बु लवणाम्भसः ॥ ३८ ॥
ततो रक्षोबलं सर्वं महाभूतमचेतनम् ।
परिवार्याथ तं तस्थौ राक्षसेन्द्रं समन्ततः ॥ ३९ ॥
ततश्विरात्समाश्वस्तो रावणो लोकरावणः ।
मान्धातुः पीडयामास देहं लङ्केश्वरो भृशम् ।
रथं चाश्वयुजं क्षिप्रं बभञ्ज च महाबलः ॥ ४० ॥
विरथः स रथं प्राप्य शक्तिं घण्टाट्टहासिनीम् ।
मान्धाता विप्रचिक्षेप तां बलाद्रावणं प्रति ॥ ४१ ॥
मरीचिमिव चार्कस्य चित्रभानोः शिखामिव ।
दीप्यन्तीं रुचिराभासं मान्धातृकरनिस्सृताम् ॥ ४२ ॥
तामापतन्तीं शूलेन पौलस्त्यो रजनीचरः ।
ददाह शक्तिं लङ्केशः पतङ्गभिव पावकः ॥ ४३ ॥
यमदत्तं तु नाराचं निकृष्याथ दशाननः ।
पातयामास वेगेन स तेनाभिहतो भृशम् ॥ ४४ ॥
मूर्च्छितं नृपतिं दृष्ट्वा प्रहृष्टास्ते निशाचराः ।
चुक्रुशुः सिंहनादांश्च क्ष्वेलन्तश्च निशाचराः ॥ ४५ ॥
लब्धसंज्ञो मुहूर्तेन ह्ययोध्याधिपतिस्तदा ।
तं दृष्ट्वा शत्रुभिः शत्रुं पूज्यमानं मुदान्वितैः ॥ ४६ ॥
जातकोपो दुराधर्षश्चन्द्रार्कसदृशद्युतिः ।
महता शरवर्षेण पीडयन्त्राक्षसं बलम् ॥ ४७ ॥
चापस्य च निनादेन तस्य बाणरवेण च ।
संचचाल ततः सैन्यमुद्भूत इव सागरः ॥ ४८ ॥
तद्युद्धमभवद्धोरं नरराक्षससंकुलम् ॥ ४९ ॥
क्रुधाविष्टौ महात्मानौ नरराक्षससत्तमौ ।
कार्मुकासिधरौ वीरौ शरासनगतौ तथा ॥ ५० ।।
मान्धाता रावणं चैव राक्षसश्चैव तं नृपम् ।
क्रोधेन महताऽऽविष्टौ शरवर्षं ववर्षतुः ॥ ५१ ॥
तौ परस्परसंक्षोभात्प्रहारैर्जर्जरीकृतौ ॥ ५२ ॥
रावणो रौद्रमस्त्रं तु प्रायुङ्ग स महाबलः ।
आग्नेयेन स मान्धाता तदस्त्रं प्रत्यवारयत् ॥ ५३ ॥
गान्धर्वेण दशग्रीवो वारुणेन स राजराट् ॥ ५४ ॥
गृहीत्वा स तु ब्रह्मास्त्रं सर्वभूतभयावहम् ।
तोलयामास मान्धाता दिव्यं पाशुपतं महत् ॥ ५५ ॥
तदस्त्रं घोररूपं तु त्रैलोक्यभयवर्धनम् ।
दृष्ट्वा त्रस्तानि भूतानि स्थावराणि चराणि च ।
वरदानात्तु रुद्रस्य तपसाऽधिगतं महत् ॥ ५६ ॥
ततः प्रकम्पितं सर्वं त्रैलोक्यं सचराचरम् ।
देवाः प्रकम्पिताः सर्वे लयं नागाश्च मेनिरे ॥ ५७ ॥
अथ तौ मुनिशार्दूलौ ध्यानयोगादपश्यताम् ।
पुलस्त्यो गालवश्चैव वारयामासतुर्नृपम् ।
उपलब्धैश्च विविधैर्वाक्यै राक्षससत्तमम् ॥ ५८ ॥
तौ तु कृत्वा परां प्रीतिं नरराक्षसयोस्तदा ।
संप्रस्थितौ तु तौ हृष्टौ पथा येनैव चागतौ ॥ ५९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे तृतीयः सर्गः ॥ ३ ॥
प्रक्षिप्तेषु चतुर्थः सर्गः ॥ ४ ॥
मेघमण्डलाद्यतिक्रमेणचन्द्रमण्डलसमीपंगतेनरावणेन सहचरेषुप्रहस्तादिषु चान्द्रतेज -स्सहनाक्षमेषु युयुत्सया चन्द्रप्रति शरगणवर्षणे ब्रह्मणातत्रसमागमनं ॥ १ ॥ तेनरावणंप्रति चन्द्रस्यलोकहितकरत्वोक्त्या तद्विहिंसनात्प्रतिनिवर्सनपूर्वकं तस्मैशिवनामाष्टोत्तरशतरूपमहा -मन्त्रोपदेशः ॥ २ ॥
गताभ्यामथ विप्राभ्यां रावणो राक्षसाधिपः ।
दशयोजनसाहस्रं प्रथमं स मरुत्पथम् ॥ १ ॥
अत्यक्रामन्महातेजाः पुष्पकेण महाबलः ।
यत्र तिष्ठन्ति संन्यस्ता हंसाः सर्वगुणान्विताः ॥ २ ॥
अत ऊर्ध्वं द्वितीयं तु गत्वा चैष मरुत्पथम् ।
दशयोजनसाहस्रं तद्धि वै परिगण्यते ॥ ३ ॥
तत्र मेघाः स्थिताः सर्वे त्रिविधा नित्यसंश्रिताः ।
आग्नेयाः पक्षजा ब्राह्मास्त्रिविधा इति संस्थिताः ॥ ४ ॥
अथ गत्वा तृतीयं तु वायोः पन्थानमुत्तमम् ।
नित्यं यत्र स्थिताः सिद्धाश्चारणाश्च मनस्विनः ।
दशैव तु सहस्राणि योजनानां तथैव च ॥ ५ ॥
चतुर्थ वायुमार्गं तु गतवान्रावणस्तथा ।
वसन्ति यत्र नित्यं वै भूताश्च सविनायकाः ॥ ६ ॥
अथ गत्वा तु वै शीघ्रं पञ्चमं वायुगोचरम् ।
दशैव तु सहस्राणि योजनानां तथैव च ॥ ७ ॥
गङ्गा यत्र सरिच्छ्रेष्टा नागाश्र कुमुदादयः ।
कुञ्जरा यत्र तिष्ठन्ति ये च मुञ्चन्ति शीकरान् ।
गङ्गातोयेषु तिष्ठन्तः पुण्यं कुर्वन्ति सर्वशः ।। ८ ।।
ततः करिकराद्भ्रंष्टं वायुना लोलितं भृशम् ।
जलं कुञ्जेषु पतितं हिमं भवति राघव ॥ ९ ॥
ततो जगाम षष्ठं स वायुमार्ग महाद्युते ।
योजनानां सहस्राणि तथैव तु स राक्षसः ।
यत्रास्ते गरुडो नित्यं ज्ञातिबांन्धवसत्कृतः ॥ १० ॥
तथैव तु सहस्राणि योजनानां तथोपरि ।
सप्तमं वायुमार्गं तु यत्र वै ऋषयः स्थिताः ॥ ११ ॥
अत ऊर्ध्वं स गत्वाऽथ सहस्राणि दशैव तु ।
अष्टमं वायुमार्गं तु यत्र गङ्गा प्रतिष्ठिता ॥ १२ ॥
आकाशगङ्गा विख्याता ह्यादित्यपथमास्थिता ।
वायुना धार्यमाणा सा महावेगा महास्वना ॥१३ ॥
अत ऊर्ध्वं प्रवक्ष्यामि चन्द्रमा यत्र तिष्ठति ॥ १४ ॥
अशीतिं तु सहस्राणि योजनानां तथोपरि ।
चन्द्रमास्तिष्ठते यत्र ग्रहनक्षत्रसंयुतः ॥ १५ ॥
शतं शतसहस्राणि रश्मयश्चन्द्रमण्डलात् ।
प्रकाशयन्ति लोकांस्तु सर्वसत्वसुखावहाः ॥ १६ ॥
ततो दृष्ट्वा दशग्रीवं चन्द्रमा निर्दहन्निव ।
स तु शीताग्निना शीघ्रं प्रादहद्रावणं तदा ॥ १७ ॥
नासहंस्तस्य सचिवाः शीताग्निं भयपीडिताः ।
रावणं जयशब्देन प्रहस्तो वाक्यमब्रवीत् ॥ १८ ॥
राजञ्शीतन बाध्यामो निवर्ताम इतो वयम् ।
चन्द्ररश्मिप्रतापेन रक्षसां भयमाविशत् ॥ १९ ॥
स्वभासा ह्येष राजेन्द्र शीतांशुर्दहनात्मकः ॥ २० ॥
एतच्छ्रुत्वा प्रहस्तस्य रावणः क्रोधमूर्च्छितः ।
विस्फार्य धनुरुद्यम्य नाराचैस्तं ह्यपीडयत् ॥ २१ ॥
अथ ब्रह्मा समागम्य चन्द्रलोकं त्वरान्वितः ।
दशग्रीव महाबाहो साक्षाद्विश्रवसः सुत ।
गच्छ शीघ्रमितः सौम्य मा चन्द्रं पीडयाशुगैः ॥ २२ ॥
लोकस्य हितकामोऽयं द्विजराजो महाद्युतिः ।
मन्त्रं च ते प्रदास्यामि प्राणात्ययभयेऽभयम् ॥ २३ ॥
यस्त्विमं संस्मरेन्मन्त्रं न स मृत्युमवाप्नुयात् ।
एवमुक्तो दशग्रीवः प्राञ्जलिर्वाक्यमब्रवीत् ॥ २४ ॥
यदि तुष्टोसि मे देव अनुग्राह्यो यदि ह्यहम् ।
यदि मन्त्रेश्वरो देयो दीयतां मम धार्मिक ॥ २५ ॥
यं जप्त्वाऽहं महाभाग सर्वदेवेषु निर्भयः ।
अमरेषु च सर्वेषु दानवेषु पतत्रिषु ।
त्वत्प्रसादात्तु देवेश न भयं विद्यते मम ॥ २६ ॥
एवमुक्तो दशग्रीवं ब्रह्मा वचनमब्रवीत् ।
प्रणात्यये तु वै दद्मि न नित्यं राक्षसाधिप ॥ २७ ॥
अक्षसूत्रं गृहीत्वा तु जपेन्मन्त्रमिमं शुभम् ।
जप्त्वा तु राक्षसपते त्वमजेयो भविष्यसि ।
अजप्त्वा राक्षसश्रेष्ठ न ते सिद्धिर्भविष्यति ॥ २८ ॥
शृणु मन्त्रं प्रवक्ष्यामि येन राक्षसपुङ्गव ।
मन्त्रस्य कीर्तनादेव प्राप्स्यसे समरे जयम् ॥ २९ ॥
नमस्ते देवदेवेश सुरासुरनमस्कृत ।
भूतभव्यमहादेव हर पिङ्गललोचन ॥ ३० ॥
बालस्त्वं वृद्धरूपी च वैयाघ्रवसनच्छद ।
आरुणेयोसि देव त्वं त्रैलोक्यप्रभुरीश्वरः ॥ ३१ ॥
हरो हरित नेमिस्त्वं युगान्तदहनोऽनलः ।
गणेशो लोकशम्भुश्च लोकपालो महाभुजः ॥ ३२ ॥
महादेवो महाशूली महादंष्ट्रो महाभुजः ।
कालश्च कालरूपी च नीलग्रीवो महोदरः ॥ ३३ ॥
वेदान्तगो वेदमयः पशूनांपतिरव्ययः ।
शूलधृच्छूलकेतुश्च नेता गोप्ता हरिः शिवः ॥ ३४ ॥
जटी मुण्डी शिखण्डी च लगुडी च महायशाः ।
भूतेश्वरो गणाध्यक्षः सर्वात्मा सर्वभावनः ॥ ३५ ।।
सर्वदः सर्वहारी च स्रष्टा च गुरुरव्ययः ।
कमण्डलुथरो देवः पिनाकी धूर्जटिस्तथा ॥ ३६ ॥
माननीयोर्हणीयश्च ओंकारः सामवेदगः ।
मृत्युश्च मृत्युदूतश्च पारियात्रश्च सूव्रतः ॥ २७ ॥
ब्रह्मचारी गृही योगी वीणापणवतूणवान् ।
अमरो दर्शनीयश्च बालसूर्यनिभस्तथा ॥ ३८ ॥
श्मशानचारी भगवानुमापतिररिन्दमः ।
भगनेत्रः प्रहर्ता च पूषदन्तनिपातनः ॥ ३९ ॥
ज्वरहर्ता पाशहस्तः प्रलयः काल एव च ।
उल्कामुखोऽग्निकेतुश्च मुनिर्दीप्तो विशांपतिः ॥ ४० ॥
उन्मादमोहनकरः समर्थस्त्रिदशोत्तमः ।
वामनो वामदेवश्च प्राग्दक्षिण्यश्च नामतः ॥ ४१ ॥
भिक्षुश्च भिक्षुरूपी च त्रिजटी जटिलः स्वयम् ।
चक्रहस्तः प्रतिष्टम्भी चमूनां स्तम्भनस्तथा ॥ ४२ ॥
ऋतुर्ऋतुकरः कालो मधुर्मधुरलोचनः ।
वानस्पत्यः शीकरश्च नित्यमाश्रित पूजितः ॥ ४३ ॥
जगद्धाता च कर्ता च पुरुषः शाश्वतो ह्यजः ।
धर्माध्यक्षो विरूपाक्षस्त्रिवर्त्मा भूतभावनः ॥ ४४ ॥
त्रिनेत्रो बहुनेत्रश्च सूर्यायुतसमप्रभः ।
देवदेवोभिदेवश्च चन्द्राङ्कितजटस्तथा ॥ ४५ ॥
नर्तको लासकश्चैव पूर्णेन्दुसदृशाननः ।
सुब्रह्मण्यः शरण्यश्च सर्वदेवमयस्तथा ॥ ४६ ॥
सर्वभूतनिवासश्च सर्वबन्धविमोचकः ।
मोहनो वञ्चकश्चैव सर्पधारी वरोत्तमः ॥ ४७ ॥
पुष्पदन्तो विभागश्च मुख्यः सर्वहरस्तथा ।
हरिश्मश्रुर्धनुर्धारी भीमो भीमपराक्रमः ।
भक्ताभीष्टप्रद: स्थाणुः परमात्मा सनातनः ॥ ४८ ॥
मया प्रोक्तमिदं पुण्यं नाम्नामष्टोत्तरं शतम् ।
[ सर्वपापहरं पुण्यं शरण्यं शरणार्थिनाम् ] ।
जप्यमेतद्दशग्रीव कुर्याच्छत्रुविनाशनम् ॥ ४९ ।।
दत्त्वा तु रावणस्येदं वरं स कमलोद्भवः ।
पुनरेव जगामाशु ब्रह्मलोकं सनातनम् ॥ ५० ॥
रावणोपि वरं लब्ध्वा पुनरेवागमत्तदा ।
निवर्तमानः संहृष्टो रावणः स दुरात्मवान् ।
अहे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ॥ ५१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे चतुर्थः सर्गः ॥ ४ ॥
प्रक्षिप्तेषु पञ्चमः सर्गः ॥ ५ ॥
कदाचनसचिवैः सहपश्चिमार्णवंगतेनरावणेन क्वचनद्वीपे कस्यचिन्महापुरुषस्यदर्शनम् ॥ १ ॥ तेनयुद्धायात्मानमाहूतवतोरावणस्य लीलयाऽत्यल्पमुष्टिप्रहारेणनिपातनपूर्वकं पातालप्रवेशः ॥ २ ॥ ततःप्रबुध्यसचिववचनात्पातालंप्रविष्टेनरावणेन सर्वाभरणभूषितानां तुल्यरूपाणांमहापुरुषाणांकोटित्रयावलोकनम् ॥ ३ ॥ ब्रह्मवरविभवात्ततः पुरतोनिर्गतेनतेन भुजगशायिनः कपिलरूपिणोहरेरवलोकनम् ॥ ४ ॥ कपिलेन स्वसमीपवर्तिकमलावलोकनेन कामवशतया तज्जिघृक्षोस्तस्य निज निश्वासमारुतेनभुविपातनपूर्वकं तंप्रति ब्रह्मवरमाननाय स्वेनाहननकथनम् ॥ ५ ॥ रावणेनतस्यनारायणत्वनिर्धारणेन तंप्रति तद्धस्तेनस्वस्यवध -प्रार्थनसमकालंतदङ्गे सचराचरसकललोकावलोकनम् ॥ ६ ॥ रामप्रश्नादगस्त्येनतंप्रति द्वीपवासिनो महापुरुषस्य श्रीनारायणावताररूपकपिलत्वनिवेदनम् ॥ ७ ॥
[ दत्वा तु रावणस्यैवं वरं स कमलोद्भवः ।
पुनरेवागमत्क्षिप्रं ब्रह्मलोकं पितामहः ॥
रावणोपि वरं लब्ध्वा पुनरेवागमत्तथा ॥ १ ॥ ]
केनचित्रथ कालेन रावणः प्रययौ गृहात् ।
पश्चिमार्णवमागच्छत्सचिवैः सह राक्षसैः ॥ २ ॥
द्वीपस्थो ददृशे तेन पुरुषः पावकप्रभः ।
महाजाम्बूनदप्रख्य एक एव व्यवस्थितः ॥ ३ ॥
यथा दृश्येत भयदो युगान्तानल उत्थितः ।
देवानामिव देवेशो ग्रहाणामिव भास्करः ॥ ४ ॥
शरभाणां यथा सिंहो हस्तिष्वैरावतो यथा ।
पर्वतानां यथा मेरुः पारिजातश्च शाखिनाम् ॥ ५ ॥
तथा तं पुरुषं दृष्ट्वा कुण्डमध्येऽनलं तथा ।
गर्जन्तं विविधैर्नादर्लम्बहस्तं भयानकम् ॥ ६ ॥
दंष्ट्रालं विकटं चैव कम्बुग्रीवं महौजसम् ।
मण्डूककुक्षि पिंगाक्षं कैलासशिखरोपमम् ॥ ७ ॥
पद्मपादतलं भीमं रक्ताम्बुजनिभाननम् ।
महाकायं महानादं मनोऽनिलसमं जवे ॥ ८ ॥
भीममावद्धतूणीरं संघ बद्धचामरम् ।
ज्वालामालापरिक्षिप्तं किङ्किणीकृतनिस्वनम् ॥ ९ ॥
मालया स्वर्णपद्मानां वक्षोदेशावलम्बया ।
ऋग्वेदमिव शोभन्तं पद्ममालाविभूषितम् ॥ १० ॥
सोञ्जनाचलसंकाशः काञ्चनाचलसन्निभम् ।
अंब्रवीत्तं दशग्रीवो युद्धं मे दीयतामिति ॥ ११ ॥
जगर्ज चोच्चैर्बलवान्सहामात्यो दशाननः ।
धृत्वा स राक्षसपति: शूलशक्त्यृष्टिपट्टिशान् ॥ १२ ॥
स द्वीपिना सिंह इव ऋषभेणेव कुञ्जरः ।
सुमेरुरिव छागेन नदीवेगैरिवार्णवः ॥ १३ ॥
अकम्प्यमानः पुरुषो रावणं वाक्यमब्रवीत् ।
युद्धश्रद्धां हि ते रक्षो नाशयिष्यामि दुर्मते ॥ १४ ॥
रावणस्य च यो वेगः सर्वलोकभयावहः ।
तथा वेगसहस्राणि संश्रितानि तमेव हि ॥ १५ ॥
अभवत्तस्य सा दृष्टिग्रहमालेव चाद्भुता ।
दन्तानां दशतः शब्दो यत्रस्येवातिभीकरः ॥ १६ ॥
धर्मस्तस्य तपश्चैव जगतः सिद्धिहेतुके ।
ऊरू संश्रित्य तस्थाते मन्मथः शिवमास्थितः ॥ १७ ॥
विश्वेदेवाः कटीभागे मरुतो यस्य शीर्षगाः ।
मध्येष्टौ वसवस्तस्य समुद्राः कुक्षिसंस्थिताः ॥ १८ ॥
पार्श्वस्थाश्च दिशः सर्वाः सर्वसन्धिषु मारुताः ।
[ वृष्टं च भगवन्न्रुद्रो हृदयं च पितामहः । ]
पितरयाश्रिताः पृष्ठं हृदयं च पितामहाः ॥ १९ ॥
गोदानानि पवित्राणि भूमिदानानि यानि च ।
सुवर्णस्य च दानानि शश्वल्लोमाश्रितानि वै ।। २० ।।
हिमवान्हेमकूटश्च मन्दरो मेरुरेव च ।
नरं तु तं समाश्रित्य ह्यस्थिभूता व्यवस्थिताः ॥ २१ ॥
मही वक्षोभवत्तस्य शरीरे द्यौरवस्थिता ।
उमे सन्ध्ये कायसन्धौ जलवाहाश्च मेहने ।
बाहू धाता विधाता च भगः पूषा उभौ करौ ॥ २२ ॥
ऐरावतो विशालाक्षः शेषो वासुकिरेव च ।
कम्बलाश्चतरौ नागौ कर्कोटकधनंजयौ ॥ २३ ॥
स च धोरविषो नागस्तक्षकश्चोपतक्षकः ।
करजानाश्रितास्तस्य विपवीर्यं मुमुक्षवः ॥ २४ ॥
अग्निरास्यमभूत्तस्य स्कन्धौ रुद्रैरधिष्ठितौ ।
दन्तान्माता दंष्ट्रयोश्च उभयोर्ॠतवः स्थिताः ।
नासे कुहरमावास्या तच्छिद्रेषु च वायवः ॥ २५ ॥
ग्रीवा तस्याभवद्देवी वाणी चापि सरस्वती ।
नासत्यौ श्रवणे चोभौ नेत्रे च शशिभास्करौ ।। २६ ।।
वेदाङ्गानि च यज्ञाश्च नानारूपाणि यानि च ।
सुवृत्तानि च वाक्यानि तेजस्सिद्धिस्तपांसि च ।
एतानि नररूपस्य तस्य देहं श्रितानि वै ॥ २७ ॥
तेन मुष्टिप्रहारेण स्वल्पमात्रेण लीलया ।
पाणिना ताडितं रक्षो निपपात महीतले ॥ २८ ॥
पतितं राक्षसं ज्ञात्वा विद्राव्य च निशाचरान् ।
ऋग्वेदप्रतिमः सोथ पद्ममालाविभूषितः ।
प्रविवेश च पातालं गच्छत्पर्वतसन्निभः ॥ २९ ॥
उत्थाय च दशग्रीव आहूय सचिवान्स्वयम् ।
क्व गतः सहसा ब्रूत प्रहस्तशुकसारणाः ॥ ३० ॥
एवमुक्ता रावणेन राक्षसास्तमथाब्रुवन् ।
प्रविष्टः स नरोत्रैव देवदानवदर्पहा ॥ ३१ ॥
अथासिं गृह्य वेगेन गरुत्मानिव पन्नगम् ।
शीघ्रं स तु बिलद्वारं प्रविवेश च दुर्मतिः ॥ ३२ ॥
प्रविश्य च स तद्वारं रावणो वरनिर्भयः ।
अपश्यच्च नरांस्तत्र नीलाञ्जनचयोपमान् ।। ३३ ।।
केयूरधारिणः शूरान्रक्तमाल्यानुलेपनान् ।
अंङ्गुलीयकहाराद्यैर्भूषणैश्च विभूषितान् ॥ ३४ ॥
दृश्यन्ते तत्र नृत्यन्त्यस्तिस्रः कोट्यो महात्मनाम् ।
नित्योत्सवाः शान्तभया विमलाः पावकप्रभाः ।। ३५ ।।
क्रीडतः प्रेक्षते तान्वै राक्षसो भीमविक्रमः ।
द्वारस्थो रावणस्तेषां तासु कोटीषु निर्भयः ॥ ३६ ॥
यथा दृष्टः स तु नरस्तुल्यांस्तांस्तस्य सर्वशः ।
एकवर्णांस्त्वेकबलानेकरूपान्महौजसः ॥ ३७ ॥
चतुर्भुजान्महोत्साहांस्तत्रापश्यत्स रावणः ।
तान्दृष्ट्वाऽथ दशग्रीव ऊर्ध्वरोमा बभूव ह ॥ ३८ ॥
स्वयंभुवा दत्तवरस्ततः शीघ्रं विनिर्ययौ ॥ ३९ ॥
अथापश्यत्परं तत्र भुजङ्गशयने स्थितम् ।
पाण्डुरेण महार्हेण कौस्तुभेन विराजितम् ॥ ४० ॥
शेते स पुरुषस्तत्र पावकेनावकुण्ठितः ।
दिव्यस्रगनुलेपी च दिव्याभरणभूषितः ॥ ४१ ॥
दिव्याम्बरधरा साध्वी त्रैलोक्यस्य विभूषणम् ।
बालव्यजनहस्ता च देवी तत्र व्यवस्थिता ।
लक्ष्मीर्बहिः सपद्मा वै भ्राजन्ती लोकसुन्दरी ॥ ४२ ॥
प्रहृष्टः स तु लङ्गेशो दृष्ट्वा तां चारुहासिनीम् ।
जिघृक्षुः स तदा साध्वीं सिंहासनमुपाश्रिताम् ।। ४३ ।।
विना तु सचिवैस्तत्र रावणो दुर्मतिस्तदा ।
हस्तैर्ग्रहीतुं तामैच्छन्मन्मथेन वशीकृतः ।
सुतमाशीविषं यद्वद्रावणः कालचोदितः ॥ ४४ ॥
अथ सुप्तो महाबाहुः पावकेनावकुण्ठितः ।
ग्रहीतुकामं तं ज्ञात्वा व्यपविध्य पटं तदा ।
जहासोचैर्भृशं देवस्तं दृष्ट्वा राक्षसाधिपम् ॥ ४५ ॥
तेजसा तस्य संदीप्तो रावणो लोकरावणः ।
घ्राणवातेन दीर्घेण तसिन्राम रसातले ।
कृत्तमूलो यथा शाखी निपपात महीतले ॥ ४६ ॥
पतितं राक्षसं ज्ञात्वा वचनं चेदमब्रवीत् ।
उत्तिष्ठ राक्षसश्रेष्ठ मृत्युस्ते नाद्य विद्यते ॥ ४७ ॥
प्रजापतिवरो रक्ष्यो येन जीवसि रावण ।
गच्छ रावण विस्रब्धं नात्र वै मरणं तव ॥ ४८ ॥
लब्धसंज्ञो मुहूर्तेन राक्षसो भीमविक्रमः ।
तं तु दृष्ट्वा महात्मानं रावणो भयमाप सः ॥ ४९ ॥
एवमुक्तस्तदोत्थाय रावणो देवकण्टकः ।
रोमहर्षणमापन्नो ह्यब्रवीत्तं महामुनिम् ॥ ५० ॥
को भवाञ्छौर्यसंपन्नो युगान्तानलसन्निभः ।
ब्रूहि त्वं देवदेवो वा सर्वदेहेषु सुस्थितः ॥ ५१ ॥
एवमुक्तः स तेनाथ रावणेन दुरात्मना ।
प्रत्युवाच हसन्देवो मेघगम्भीरया गिरा ।
किं त्वं मया दशग्रीव वध्योसि नचिरादिह ॥ ५२ ॥
एवमुक्तो दशग्रीवः प्राञ्जलिर्वाक्यमब्रवीत् ।
प्रजापतेस्तु वचनान्नाहं मृत्युवशं गतः ॥ ५३ ॥
स न जातो जनिष्यो वा मत्तुल्यो वा सुरेष्वपि ।
प्रजापतिवरं यो हि लङ्घयेद्वीर्यमाश्रितः ॥ ५४ ॥
न तत्र परिहारोस्ति प्रयत्नश्चापि दुर्लभः ।
त्रैलोक्ये तं न पश्यामि यस्तत्कुर्याद्वरं वृथा ॥ ५५ ॥
अमरो वा सुरश्रेष्ठ तेन मां नाविशद्भयम् ।
अथापि च भवेन्मृत्युंस्त्वत्तो मे नान्यतः प्रभो ॥ ५६ ॥
यशस्यं श्लाघनीयं च त्वत्तो मे मरणं त्विदम् ॥ ५७ ॥
अथापश्यत्तस्य गात्रे रावणो भीमविक्रमः ।
देवदेवस्य सकलं त्रैलोक्यं सचराचरम् ॥ ५८ ॥
आदित्या वसवो रुद्रा मरुतोथाश्विनावपि ।
सिद्धाश्च पितरश्चैव यमो वैश्रवणस्तथा ।
समुद्रा गिरयो नद्यो विद्या वेदास्त्रयोऽग्नयः ॥ ५९ ॥
प्रहास्तारागणा व्योम साध्या गन्धर्वचारणाः ।
महर्षयो वेदविदो गरुडोथ भुजङ्गमाः ॥ ६० ॥
ये चान्ये संस्थिता देवा दैत्यदानवराक्षसाः ।
गात्रेषु शयनस्थस्य दृश्यन्ते सूक्ष्ममूर्तयः ॥ ६१ ॥
आह रामोथ धर्मात्मा ह्यगस्त्यं मुनिसत्तमम् ।
द्वीपस्थः पुरुषः कोसौ तिस्रः कोट्यैश्च ताश्च काः ।। ६२ ।।
शयानः पुरुषः कश्चिद्दैत्यदानवदर्पहा ।
रामस्य वचनं श्रुत्वा ह्यगस्त्यो वाक्यमब्रवीत् ॥ ६३ ॥
श्रूयतामभिधास्यामि देवदेवः सनातनः ।
भगवान्कपिलो राम द्वीपस्थो नर उच्यते ॥ ६४ ॥
स वै नारायणो देवः शङ्खचक्रगदाधरः ।
विधाता चैव भूतानां संहर्ता च तथैव च ।
अनादिरच्युतो विष्णुः प्रभवः शाश्वतोऽव्ययः ।। ६५ ॥
ये तु नृत्यन्ति वै तत्र सुरास्ते तस्य धीमतः ।
तुल्यतेजःप्रतापास्ते कपिलस्य नरस्य वै ॥ ६६ ॥
नातिक्रुद्धेन दृष्टस्तु राक्षसः पापनिश्चयः ।
न बभूव ततो राम भस्मसाद्रावणः प्रभो ॥ ६७ ॥
भिन्नगात्रो नगप्रख्यो रावणः पतितो भुवि ।
वाक्छरैस्तं बिभेदाशु रहस्यं पिशुनो यथा ॥ ६८ ॥
अथ दीर्घेण कालेन लब्धसंज्ञः स राक्षसः ।
आजगाम हतौजास्तु यत्र ते सचिवाः स्थिताः ।
तैरेव सहितो लङ्कां जगामाशु दशाननः ॥ ६९ ॥
श्रुत्वैतद्वचनं सर्वमाश्चर्यमिति राघवः ।
पूज्यमानाः स्थितास्तत्र ये रामस्य समीपतः ।
आश्चर्यमिति तत्प्राहुर्वानरा राक्षसैः सह ॥ ७० ॥
विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् ।
आश्चर्यं स्मारितोस्म्यद्य यत्तद्वृत्तं पुरातनम् ॥ ७१ ॥
अथागस्त्योऽब्रवीत्सर्वमेतद्राम श्रुतं त्वया ।
हृष्टाः सभाजिताश्चापि राम यास्यामहे वयम् ॥ ७२ ॥
तस्य तद्वचनं श्रुत्वा रामो रमयतां वरः ॥ ७३
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे पञ्चमः सर्गः ॥ ५ ॥