श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्थः सर्गः
अगस्त्यमुखाल्लङ्कायां कुबेरनिवासात्पूर्वमपिराक्षसस्थितिश्रवणविस्मितेनरामेण तंप्रति राक्षसमूलकथनप्रार्थना ॥ १ ॥ अगस्त्येनतंप्रति यक्षराक्षसशब्दप्रवृत्तिनिमित्तकथनपूर्वकं रक्षःकुलमूलभूतहेतिवंशकथनारंभः ॥ २ ॥ हेतिसुताद्विद्युत्केशात्सुकेशोत्पत्तिः ॥ ३ ॥ पार्वती -परमेश्वराभ्यां तस्मैवरदानम् ॥ ४ ॥
श्रुत्वाऽगस्त्येरितं वाक्यं रामो विस्मयमागतः ।
कथमासीत्तु लङ्कायां संभवो रक्षसां पुरा ॥ १ ॥
लङ्कायां धनदाधिष्ठानात्पूर्वमपि रक्षसां संभवः अपःस्थानादिसंभवः इति यदुक्तं तच्छ्रुत्वा विस्मयमागत इत्यन्वयः ॥ १ ॥
ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् ।
तमगस्त्यं मुहुर्दृष्ट्वा स्मयमानोऽभ्यभाषत ॥ २ ॥
ततो मुहुः शिरः कम्पयित्वाविस्मयमागतः सन् अगस्त्यं दृष्ट्वाऽभ्यभाषत ।। २ ।।
भगवन्पूर्वमप्येषा लङ्काऽऽसीत्पिशिताशिनाम् ।
श्रुत्वेदं भगवद्वाक्यं जातो मे विस्मयः परः ॥ ३ ॥
पूर्वरावणकुबेरयोः पूर्वमपि लङ्कापिशिताशिनामासीदावास आसीदितीदानीमुक्तं श्रुत्वा मम विस्मयो जनितः ॥ ३ ॥
पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम् ।
इदानीमन्यतश्चापि संभवः कीर्तितस्त्वया ॥ ४ ॥
रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि ।
रावणस्य च पुत्रेभ्यः किं नु ते वलवत्तराः ॥ ५ ॥
क एषां पूर्वको ब्रह्मन्किंनामा च बलोत्कटः ।
अपराधं च कं प्राप्य विष्णुना द्राविताः कथम् ।। ६ ।।
एतद्विस्तरतः सर्वं कथयस्व ममानघ ।
कौतूहलमिदं मह्यं नुद भानुर्यथा तमः ॥ ७ ॥
कुतो विस्मय इत्याशंक्य विरुद्धश्रवणादित्याह- पुलस्त्येति । नः अस्माभिः । पूजायां बहुवचनं । श्रुतं कर्णाकर्णिकयेति शेषः ।। ४-७ ।।
राघवस्य वचः श्रुत्वा संस्कारालंकृतं शुभम् ।
ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम् ॥ ८ ॥
संस्कारेति पदवाक्यार्थज संस्कारेति यावत् । ईषद्विस्मयमान इति । सर्वज्ञोप्यजानन्निव पृच्छतीति विस्मितं ।। ८ ।।
प्रजापतिः पुरा सृष्ट्वा ह्यपः सलिलसंभवः ।
तासां गोपायने सत्त्वानसृजत्पद्मसंभवः ॥ ९ ॥
सलिलसंभवः पद्मसंभवः । सलिले पद्मसंभव इत्यर्थः । प्रजापतिः ब्रह्मा । अहरन्ते अपः सृष्ट्वा भूमेरधः स्थिताः समुद्ररूपिणी: सृष्ट्वा रात्र्यवसाने तत्रैव सलिले विष्णुनाभिकमले वर्तमानः प्रजापतिः तासामपां गोपायने रक्षणनिमित्तं । सत्त्वान् जन्तूनसृजत् । पुंलिङ्गत्वमार्षं ॥ ९ ॥
ते सच्चा: सत्त्वकर्तारं विनीतवदुपस्थिताः ।
किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः ।। १० ।।
तइति तानि सत्त्वानि किं कुर्मः किं करवामेति भाषन्तः क्षुत्पिपासाभयार्दिताः सन्तः सत्त्वकर्तारं स्वस्रष्टारं विनीतवदुपस्थिताः ॥ १० ॥
प्रजापतिस्तु तान्याह सवानि प्रहसन्निव ।
आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः ॥ ११ ॥
[ इत्युक्तास्ते क्षुधाविष्टा अंभांस्यादातुमुद्यताः ।
अंभांस्येतानि रक्षाम उक्तवन्तस्तथाऽपरे ॥ १२ ॥
ज्ञात्वा प्रजापतिस्तेषामाह धात्वर्थसंयुतम् ।
यक्षेति जक्षणे धातुस्तथा रक्षस्तु पालने ।
यक्षणाद्यक्ष इत्युक्तस्तथा रक्षस्तु पालनात् ॥ १३ ॥ ]
प्रहसन्निव भयार्दित स्वप्रजाविषयद्यावशात् प्रहसन्नित्यर्थ: । मानदःबहुमानदः । भयनिवृत्तिमनुगृह्णन्नित्यर्थः । हे सत्त्वानीति वाचा आभाष्य संबोध्यं । रक्षध्वं यत्नेन रक्षध्वमिमा अप इति ॥ ११-१३ ॥
रक्षामेति च तत्रान्ये जक्षाम इति चापरे ।
भुक्षिताभुक्षितैरुक्तस्ततस्तानाह भूतकृत् ॥ १४ ॥
तानि सत्त्वान्याह – रक्षामेति । तत्र तेषु सत्त्वेषु मध्ये । अन्यैः कैश्चित्सत्वैः । रक्षामेत्युक्तः । तथापरैर्जक्षामेत्युक्तः प्रजापतिः । उभयमपि लोडुत्तमबहुवचनं । जक्ष, भक्ष-हसनयो: । कैश्चिन्न वयं रक्षाम किन्तु जक्षामेत्युक्तः । कै: रक्षामेत्युक्तं कैर्वा जक्षामेत्युक्तं तत्राह-भुक्षितासुक्षितैरिति अभ्यासलोपश्छान्दसः । अबुभुक्षितैः रक्षामेत्युक्तं बुभुक्षितैस्तु जक्षामेत्युक्तमितिक्रमः ॥ १४ ॥
रक्षामेति च यैरुक्तं राक्षसास्ते भवन्तु वः ।
जक्षाम इति यैरुक्तं यक्षा एव भवन्तु वः ॥ १५ ॥
तत्र हेति: प्रहेतिश्च भ्रातरौ राक्षसाधिपौ ।
मधुकैटभसंकाशौ बभूवतुररिन्दमौ ॥ १६ ॥
वः युष्माकं मध्ये । यै: रक्षामेत्युक्तं ते राक्षसा भवन्तु । यैर्जक्षामेत्युक्तं ते यक्षा भवन्तु । वर्णव्यत्यय आर्षः ।। १५-१६ ।।
प्रहेतिर्धार्मिकस्तत्र तपोवनगतस्तदा ।
हेतिर्दारक्रियार्थे तु परं यत्नमथाकरोत् ॥ १७ ॥
तत्र राक्षसेषु । तपोवनगत इति । विरक्तो भूत्वेतिशेषः ॥ १७ ॥
स कालभगिनीं कन्यां भयां नाम भयावहाम् ।
उदावहदमेयात्मा स्वयमेव महामतिः ॥ १८ ॥
स तस्यां जनयामास हेती राक्षसपुङ्गवः ।
पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् ॥ १९ ॥
कालो यमः । स्वयमेवेति । प्रार्थनां गत्वेत्यर्थः । अस्यैव विवरणं दारक्रियार्थ इत्यादि ॥ १८-१९ ॥
विद्युत्केशो हेतिपुत्रः स दीप्तार्कसमप्रभः ।
व्यवर्धत महातेजास्तोयमध्य इवाम्बुदः ॥ २० ॥
तोयं मध्ये यस्य स तोयमध्यः ।। २० ।।
स यदा यौवनं भद्रमनुप्राप्तो निशाचरः ।
ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता ॥ २१ ॥
सन्ध्यायास्तनयां सोथ सन्ध्यातुल्यां प्रभावतः ।
वरयामास पुत्रार्थं हेती राक्षसपुङ्गवः ॥ २२ ॥
अवश्यमेव दातव्या परस्मै सेति सन्ध्यया ।
चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव ॥ २३ ॥
संध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः ।
रमते स तया सार्धं पौलोम्या मघवानिव ॥ २४ ॥
केनचित्त्वथ कालेन राम सालकटङ्कटा ।
विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात् ॥ २५ ॥
पिता हेतिः ॥ २१-२५ ॥
ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् ।
प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम् ॥ २६ ॥
तमुत्सृज्य तु सा गर्भं विद्युत्केशरतार्थिनी ।
रेमे तु सार्धं पतिना विस्मृत्य सुतमात्मजम् ॥ २७ ॥
उत्सृष्टस्तु तदा गर्भो घनशब्दसमस्वनः ।
तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः ।
निधायास्ये स्वयं मुष्टिं रुरोद शनकैस्तदा ॥ २८ ॥
ततो वृषभमास्थाय पार्वत्या सहितः शिवः ।
वायुमार्गेण गच्छन्वै शुश्राव रुदितस्वनम् ॥ २९ ॥
प्रसूता प्रसूतवती । अग्निजं गर्भमिति । अग्निना विसृष्टं माहेश्वरं गर्भमित्यर्थ: । घनगर्भोऽशनिः ॥ २६-२९ ॥
अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम् ।
कारुण्यभावात्पार्वत्या भवस्त्रिपुरसूदनः ॥ ३० ॥
कारुण्येन सहितः भावश्चित्तं कारुण्यभावः । तस्मात् ॥ ३० ॥
तं राक्षसात्मजं चक्रे मातुरेव वयःसमम् ।
अमरं चैव तं कृत्वा महादेवोक्षरोव्ययः ॥ ३१ ॥
पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया ।
उमयाऽपि वरो दत्तो राक्षसानां नृपात्मज ॥ ३२ ॥
अक्षरोव्यय इति षड्भावरहित्योपलक्षणं । पार्वत्या प्रेरित इति शेषः । इदमेव दर्शयति — वक्ष्यमाणप्रियकाम्ययेति ॥ ३१-३२ ॥
सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च ।
सद्य एव वयःप्राप्तिर्मातुरेव वयःसमम् ॥ ३३ ॥
सद्योपलब्धिरित्यार्ष: संधिः । मातुरेव वयःसमं वयः प्राप्तिरिति योजना ।। ३३ ।।
ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः ।
चचार सर्वत्र महान्महामतिः खगं पुरं प्राप्य पुरंदरो यथा ॥ ३४ ॥
सुकेश इत्यनुवादादेव तन्नामकरणं सिद्धं । खगं आकाशगं ॥ ३४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्थः सर्गः ॥ ४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुर्थः सर्गः ॥ ४ ॥