श्रीमद्रामायणे चाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चमः सर्गः
सुकेशान्माल्यवान्सुमालीमालीचेति त्रयाणांरक्षसामुत्पत्तिः ॥ १ ॥ स्वतपस्तुष्टपरमेष्ठिवर -दृप्तैस्तैः सुरासुरादिप्रबोधनपूर्वकं लङ्कायांविश्वकर्मवचनान्निवासः ॥ २ ॥ तैर्निजकलत्रेषु बहुरूक्षरक्षोपत्यसमुत्पादनम् ॥ ३ ॥
सुकेशं धार्मिक दृष्ट्वा वरलब्धं च राक्षसम् ।
ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः ॥ १ ॥
तस्य देववती नाम द्वितीया श्रीरिवात्मजा ।
त्रिषु लोकेषु विख्याता रूपयौवनशालिनी ।
तां सुकेशाय धर्मेण ददौ रक्षः श्रियं यथा ॥ २ ॥
वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् ।
आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः ॥ ३ ॥
सुकेशमित्यादि सार्धंद्वयं । वरलब्धं लब्धवरं । गन्धर्व आसीत् स तं सुकेशं दृष्ट्वा तस्मै सुकेशाय ददावित्यन्वयः । रक्षः श्रियं राक्षसश्रियं ॥ १-३ ॥
स तया सह संयुक्तो रराज रजनीचरः ।
अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ॥ ४ ॥
देववत्यां सुकेशस्तु जनयामास राघव ॥ ५ ॥
त्रीपुत्राञ्जनयामास त्रेताग्निसमविग्रहान् ।
माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् ।
त्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः ।। ६ ।।
अञ्जनादञ्जनाख्यगजात् अभिनिष्क्रान्तः उत्पन्न: महागज: करेण्वेव रराज ॥ ४-६ ॥
त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः ।
त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः ॥ ७ ॥
त्रयः सुकेशस्य सुतास्त्रेताग्निंसमतेजसः ।
विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ॥ ८ ॥
वरप्राप्तिं पितुस्ते तु ज्ञात्वेश्वरतपोबलात् ।
तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः ॥ ९ ॥
प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम ।
विचेरुस्ते तपो घोरं सर्वभूतभयावहम् ॥ १० ॥
सत्यार्जवशमोपेतैस्तपोभिरतिदुष्करैः ।
सन्तापयन्तस्त्रीँल्लोकान्सदेवासुरमानुषान् ॥ ११ ॥
ततो विभुश्चतुर्वक्रो विमानवरमास्थितः ।
सुकेश पुत्रानामन्त्र्य वरदोस्मीत्यभाषत ॥ १२ ॥
ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम् ।
ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः ॥ १३ ॥
त्रयो लोका इत्यादि श्लोकद्वयं । त्रयो मन्त्राः उत्साहप्रभुमन्त्रशक्तयः । त्रयो वेदा वा । त्रय आमया: वातपित्तश्लेष्मरूपाः । त्रेताग्निसमवर्चस इति तेजोतिशय उक्तः । पूर्वसाहत्यप्रधानात् (१) । व्याधयोपेक्षिता इति संधिरार्षः ॥ ७-१३ ॥
तपसाऽऽराधितो देव यदि नो दिशसे वरम् ।
अजेया: शत्रुहन्तारस्तथैव चिरजीविनः ।
प्रभविष्ण्वो भवामेति परस्परमनुव्रताः ॥ १४ ॥
प्रभविष्ण्वः यणार्षः । अनुव्रताः । अनुरक्ताश्च भवामेत्यनुकर्षः ॥ १४ ॥
एवं भविष्यतीत्युक्त्वा सुकेशतनयान्विभुः ।
स ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ॥ १५ ॥
वरं लब्ध्वा तु ते सर्वे राम रात्रिंचरास्तदा ।
सुरासुरान्प्रबाधन्ते वरदानसुनिर्भयाः ॥ १६ ॥
तैर्वध्यमानास्त्रिदशा: सर्षिसङ्घाः सचारणाः ।
त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ।। १७ ।।
अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् ।
ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ॥ १८ ॥
ओजस्तेजोबलवतां महतामात्मतेजसा ।
गृहकर्ता भवानेव देवानां हृदयेप्सितम् ॥ १९ ॥
अस्माकमपि तावत्त्वं गृहं कुरु महामते ।
हिमवन्तमपाश्रित्य मेरुं मन्दरमेव वा ।
महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ॥ २० ॥
विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः ।
निवासं कथयामास शक्रस्येवामरावतीम् ॥ २१ ॥
ब्रह्मलोकाय ब्रह्मलोकं गन्तुं । तुमर्थ-इत्यादिना चतुर्थी ॥ १५-२१ ॥
दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ।
सुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः ॥ २२ ॥
शिखरे तस्य शैलस्य मध्यमेऽम्बुदसन्निभे ।
शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि ॥ २३ ॥
त्रिंशद्योजनविस्तीर्णा शतयोजनमायता ।
स्वर्णप्राकारसंवीता हेमतोरणसंवृता ।
मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता ॥ २४ ॥
तस्यां वसत दुर्घर्षा यूयं राक्षस पुङ्गवाः ॥ २५ ॥
दक्षिणस्येत्यादि सार्धत्रयं ॥ अम्बुदसन्निभे मेघसमानरूपे मध्यमे शिखरे । शकुनैरपि दुष्प्राप इत्यत्र हेतुः टङ्कच्छिन्नचतुर्दिशीति ॥ २२-२५ ॥
अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः ।
लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः ।
भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ॥ २६ ॥
अमरावतीं समासाद्येति पदवशाक्षराधिक्यं ॥ २६ ॥
विश्वकर्मवचः श्रुत्वा ततस्ते राक्षसोत्तमाः ।
सहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम् ॥ २७ ॥
दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् ।
लङ्कामवाप्य ते हृष्टा व्यवसन्रजनीचराः ॥ २८ ॥
एतस्मिन्नेव काले तु यथाकामं च राघव ।
नर्मदा नाम गन्धर्वी बभूव रघुनन्दन ॥ २९ ॥
सहस्रमनेके अनुचरा येषां ते सहस्रानुचराः ॥ २७-२९ ॥
तस्याः कन्यात्रयं ह्यासीद्धीश्री कीर्तिसमद्युति ।
ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ॥ ३० ॥
कन्यास्ता: प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः ।
त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ॥ ३१ ॥
अराक्षसी राक्षसजातिव्यतिरिक्ता ॥ ३०-३१ ॥
दत्ता मात्रा महाभागा नक्षत्रे भगदैवते ।
कृतदारास्तु ते राम सुकेशतनयास्तदा ।
चिक्रीडु: सह भार्याभिरप्सरोभिरिवामराः ॥ ३२ ॥
ततो माल्यवतो भार्या सुन्दरी नाम सुन्दरी ।
स तस्यां जनयामास यदपत्यं निबोध तत् ॥ ३३ ॥
वज्रमुष्टिर्विरूपाक्षो दुर्मुखश्चैव राक्षसः ।
सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च ।
अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी ॥ ३४ ॥
सुमालिनोपि भार्याऽऽसीत्पूर्णचन्द्रनिभानना ।
नाम्ना केतुमती नाम प्राणेभ्योपि गरीयसी ।। ३५ ।।
सुमाली जनयामास यदपत्यं निशाचरः ।
केतुमत्यां महाराज तन्निबोधानुपूर्वशः ।। ३६ ॥
प्रहस्तोऽकम्पनश्चैव विकटः कलकार्मुकः ।
धूम्राक्षश्चैव दण्डथ सुपार्श्वश्च महाबलः ।। ३७ ॥
संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः ।
राको पुष्पोत्कटा चैव कैकसी च शुचिस्मिता ।
कुम्भीनसी च इत्येते मुमाले: प्रसवाः स्मृताः ॥ ३८ ॥
मालेस्तु वसुधा नाम गन्धर्वी रूपशालिनी ।
भार्याऽऽसीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा ।। ३९ ।।
सुमालेरनुजस्तस्यां जनयामास यत्प्रभो ।
अपत्यं कथ्यमानं तु मया त्वं शृणु राघव ॥ ४० ॥
भगदैवतनक्षत्रमुत्तरफल्गुनी ।। ३२-४० ।।
अनिलश्चानलश्चैव हरः सम्पातिरेव च ।
एते विभीषणामात्या मालेयास्तु निशाचराः ॥ ४१ ॥
ततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः ।
सुरान्सहेन्द्रानृषिनाग यक्षान्बबाधिरे तान्बहुवीर्यदर्पिताः ॥ ४२ ॥
मालेया इति । इतश्च इति ढक् ॥ ४१-४२ ।।
जगद्भमन्तोऽनिलवद्दुरासदा रणेषु मृत्युप्रतिमानतेजसः ।
वरप्रदानादतिगर्विता भृशं ऋतुक्रियाणां प्रशमंकरा: सदा ॥ ४३ ॥
प्रशमंकराइत्यार्ष: खचू ।। ४३ ॥
इत्यार्षे श्रीमद्रामायणे चाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चमः सर्गः ॥ ५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चमः सर्गः ॥ ५ ॥