श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टमः सर्गः
श्रीनारायणेन युद्धे माल्यवत्सुमालिनोः पराजयः ॥ १ ॥ ततस्ताभ्यां विष्णुभयाल्लङ्का -त्यागेन सकलस्वजनैः सह पाताले वासः ॥ २ ॥ ततोरक्षोजनशून्यायांलङ्कायां कुबेरेणवासः ॥ ३ ॥
हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः ।
माल्यवान्त्सन्निवृत्तोथ वेलामेत्य इवार्णवः ॥ १ ॥
संरक्तनयनः कोपाच्चलन्मौलिर्निशाचर: ।
पद्मनाभमिदं प्राह वचनं पुरुषोत्तमम् ॥ २ ॥
पृष्ठतः अनुद्रुत्येति शेषः ॥ १-२ ॥
नारायण न जानीषे क्षात्रधर्मं पुरातनम् ।
अयुद्धमनसो भीतानस्मान्हंसि यथेतरः ॥ ३ ॥
पराङ्मुखवधं पापं यः करोत्यसुरेतरः ।
स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ॥ ४ ॥
युद्धश्रद्धाऽथवा तेऽस्ति शङ्खचक्रगदाधर ।
अहं स्थितोस्मि पश्यामि बलं दर्शय यत्तव ॥ ५ ॥
यथेतरः क्षुद्रजन इव ॥ ३-५ ॥
माल्यवन्तं स्थितं दृष्ट्वा माल्यवन्तमिवाचलम् ।
उवाच राक्षसेन्द्रं तं देवराजानुजो बली ॥ ६ ॥
युष्मत्तो भयभीतानां देवानां वै मयाऽभयम् ।
राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ॥ ७ ॥
प्राणैरपि प्रियं कार्यं देवानां हि सदा मया ।
सोहं वो निहनिष्यामि रसातलगतानपि ॥ ८ ॥
देवदेवं ब्रुवाणं तं रक्ताम्बुरुहलोचनम् ।
शक्त्या बिभेद संक्रुद्धो राक्षसेन्द्रो भुजान्तरे ॥ ९ ॥
माल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना ।
हरेरुरसि बभ्राज मेघस्थेव शतह्रदा ॥ १० ॥
पराङ्मुखवधोक्तदोषः स्वप्रतिज्ञापालनपरस्य नास्तीत्याह – माल्यवन्तमिति ॥ ६-१० ।।
ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः ।
माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ॥ ११ ॥
स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्द करनिःसृता ।
काङ्क्षन्ती राक्षसं प्रायान्माहेन्द्रीवाञ्जनाचलम् ।। १२ ।।
तामेव स्ववक्षोलग्नामेव । शक्तिधरप्रियः सुब्रह्मण्यप्रियः । माहेश्वरार्चनं चिन्त्यं ॥ ११-१२ ॥
सा तस्योरसि विस्तीर्णे हारभासावभासिते ।
अपतद्राक्षसेन्द्रस गिरिकूट इवाशनिः ॥ १३ ॥
हारभासा मुक्ताहारकान्त्या । कूटं शृङ्गं ॥ १३ ॥
तया भिन्नतनुत्राणः प्राविशद्विपुलं तमः ।
माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ॥ १४ ॥
ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिर्वृतम् ।
प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ॥ १५ ॥
तमः मोहः ।। १४-१५ ॥
तथैव रणरक्तस्तु मुष्टिना वासवानुजम् ।
ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ॥ १६ ॥
ततोऽम्बरे महान्शब्दः साधु साध्विति चोदितः ।
आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् ॥ १७ ॥
रणेरक्तः रणप्रियः । मुष्टिना च ताडयित्वा अपक्रान्तः । पृष्ठत इति शेषः ।। १६-१७ ।।
वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसम् ।
व्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा ॥ १८ ॥
वायुः शुष्कपर्णं यथा व्यपोहति तथा पक्षपातेन राक्षसं व्यपौहत् ॥ १८ ॥
द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् ।
सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ ॥ १९ ॥
पक्षवातबलोद्धूतो माल्यवानपि राक्षसः ।
स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः ॥ २० ॥
एवं ते राक्षसास्तेन हरिणा कमलेक्षण ।
बहुश: संयुगे भग्ना हतप्रवरनायकाः ॥ २१ ॥
दृश्य दृष्ट्वा ॥ १९-२१ ॥
अशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः ।
त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः ।। २२ ।।
सहपत्नयः सस्त्रीका इत्यर्थः ॥ २२ ॥
सुमालिनं समासाद्य राक्षसं रघुसत्तम ।
स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ॥ २३ ॥
सालकटङ्कटे सालकटङ्कटा माल्यवदादीनां पितामही विद्युत्केशपत्नी तस्याः संबन्धी सालकटङ्कटः तस्मिन्वंशे प्रख्यातवीर्याः । वृद्धाच्छाभाव आर्षः ।। २३ ।।
ये त्वया निहतास्ते तु पौलस्त्या नाम राक्षसाः ।
सुमाली माल्यवान्माली ये च तेषां पुरस्सराः ।
सर्वे तेभ्यो महाभाग रावणाद्बलवत्तराः ॥ २४ ॥
ये पौलस्त्या रावणादयो निहतास्तेभ्यः रावणाच्च माल्यवदादयो बलवत्तराः ॥ २४ ॥
न चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान् ।
ऋते नारायणं देवं शङ्खचक्रगदाधरम् ॥ २५ ॥
भवान्नारायणो देवश्चतुर्बाहुः सनातनः ।
राक्षसान्हन्तुमुत्पन्नो ह्यजेयः प्रभुरव्ययः ॥ २६ ॥
नष्टधर्मव्यवस्थाता काले काले प्रजाकरः ।
उत्पद्यते दस्युवधे शरणागतवत्सलः ॥ २७ ॥
एषा मया तव नराधिप राक्षसानामुत्पत्तिरद्य कथिता सकला यथावत् ।
भूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम् ॥ २८ ॥
चिरात्सुमाली व्यचरद्रसातलं सराक्षसो विष्णुभयार्दितस्तदा ।
पुत्रैश्च पौत्रैश्च समन्वितो वली ततस्तु लङ्कामवसद्धनेश्वरः ॥ २९ ॥
तार्हि किं मे प्राशस्त्यं भवद्भिरुच्यत इति शङ्कायां तत्प्राशस्त्यमपि तवैवेत्याह-न चान्य इति ॥ राक्षसान्हन्तेति । स त्वं ॥ २५-२९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टमः सर्गः ॥ ८॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टमः सर्गः ॥ ८ ॥