श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे दशमः सर्गः
रावणादितपस्तुष्टेनब्रह्मणारावणायतत्प्रार्थनानुसारेण मानुपान्यसर्वावध्यत्ववरदानपूर्वकं पुनः परितोषाच्छेदेछेदेपुनर्नवनवशिरः प्ररोहादिविषयकवरान्तरदानम् ॥ १॥ विभीषणाय तत्प्रार्थनानुरेधेनधार्मिकत्वादिवरदानपूर्वकं स्वयंचिरजीवित्ववरदानम् ॥ २ ॥ कुंभकर्णाय -वरदानप्रवृत्तेनब्रह्मणा देवगणप्रार्थनयासरस्वतींप्रति तजिह्वासंनिधानेन विपरीतवरवरणकरण -प्रेरणा ।। ३ ।। ब्रह्मणा सरस्वतीविमोहितमनस्कतयाकुंभकर्णेनचिरस्वापयाचने तस्मैतद्दानपूर्वकं -स्वलोकगमनम् ॥ ४ ॥
अथाब्रवीन्मुनिं रामः कथं ते भ्रातरो वने ।
कीदृशं तु तदा ब्रह्मंस्तपस्तेपुर्महाबलाः ॥ १ ॥
अगस्त्यस्त्वब्रवीन्तत्र रामं सुप्रीतमानसम् ।
तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् ॥ २ ॥
कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः ।
तताप ग्रीष्मकाले तु पञ्चाग्नीन्परितः स्थितः ॥ ३ ॥
मेघाम्बुसिक्तो वर्षासु वीरासनमसेवत ।
नित्यं च शिशिरे काले जलमध्यप्रतिश्रयः ॥ ४ ॥
एवं वर्षसहस्राणि दश तस्यातिचक्रमुः ।
धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च ॥ ५ ॥
विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः ।
पञ्च वर्षसहस्राणि पादेनैकेन तस्थिवान् ॥ ६ ॥
समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः ।
पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः ॥ ७ ॥
वीरासनं नाम वामोरूपरि दक्षिणजङ्घां प्रतिष्ठाप्य स्थितिः ॥ ४-७ ॥
पञ्च वर्षसहस्राणि सूर्यं चैवान्ववर्तत ।
तस्थौ चोर्ध्वशिरोबाहुः स्वाध्यायधृतमानसः ॥ ८ ॥
सूर्यं चैवेति चकारेण पूर्ववदेकपादस्थितिः समुच्चीयते ।। ८ ।।
एवं विभीषणस्यापि स्वर्गस्थस्येव नन्दने ।
दश वर्षसहस्राणि गतानि नियतात्मनः ॥ ९ ॥
दश वर्षसहस्राणि निराहारो दशाननः ।
पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः ॥ १० ॥
एवं वर्षसहस्राणि नव तस्यातिचक्रमुः ।
शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् ॥ ११ ॥
अथ वर्षसहस्त्रे तु दशमे दशमं शिरः ।
छेत्तुकामे दशग्रीवे प्राप्तस्तत्र पितामहः ॥ १२ ॥
[ देवगन्धर्वसिद्धैश्च ऋषिभिः किंनरैः सह ॥ ]
पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः ।
तव तावद्दशग्रीव प्रीतोस्मीत्यभ्यभाषत ॥ १३ ॥
शीघ्रं वरय धर्मज्ञ वरो यस्तेऽभिकाङ्क्षितः ।
तं ते कांम करोम्यद्य न वृथा ते परिश्रमः ॥ १४ ॥
अथाब्रवीद्दशग्रीवः प्रहृष्टेनान्तरात्मना ।
प्रणम्य शिरसा देवं हर्षगद्गदया गिरा ॥ १५ ॥
भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम् ।
नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे ॥ १६ ॥
एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह ।
नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे ॥ १७ ॥
एवमुक्ते तदा राम ब्रह्मणा लोककर्तृणा ।
दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः ॥ १८ ॥
सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् ।
अवध्योहं प्रजाध्यक्ष देवतानां च शाश्वत ॥ १९ ॥
न हि चिन्ता ममान्येषु प्राणिष्वमरपूजित ।
तृणभूता हि ते मन्ये प्राणिनो मानुषादयः ॥ २० ॥
एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा ।
उवाच वचनं देवः सह देवैः पितामहः ।
भविष्यत्येवमेतत्ते वचो राक्षसपुङ्गव ॥ २१ ॥
एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ।
शृणु चापि वरो भूयः प्रीतस्येह शुभो मम ॥ २२ ॥
हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयाऽनघ ।
पुनस्तानि भविष्यन्ति तथैव तव राक्षस ॥ २३ ॥
वितरामीह ते सौम्य वरं चान्यं दुरासदम् ॥ २४ ॥
छन्दतस्तव रूपं च मनसा यद्यथेप्सितम् ।
भविष्यति न संदेहो मद्वरात्तव राक्षस ॥ २५ ॥
एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः ।
अग्नौ हुतानि शीर्षाणि पुनस्तान्युदितानि वै ॥ २६ ॥
एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ।
विभीषणमथोवाच वाक्यं लोकपितामहः ॥ २७ ॥
विभीषण त्वया वत्स धर्मसंहितबुद्धिना ।
परितुष्टोस्मि धर्मात्मन्वरं वरय सुव्रत ॥ २८ ॥
विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः ।
वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा ॥ २९ ॥
भगवन्कृतकृत्योहं यन्मे लोकगुरुः स्वयम् ।
प्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत ॥ ३० ॥
स्वर्गस्थस्य देवस्य नन्दन इवेत्यनेन तपःप्रवृत्तिसंतोष उक्तः ॥ ९-३० ।।
परमापद्गतस्यापि धर्मे मम मतिर्भवेत् ।
अशिक्षितं च ब्रह्मास्त्रं भगवन्मतिभातु मे ॥ ३१ ॥
या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च ।
सा सा भवतु धर्मिष्ठा तं तु धर्मं च पालये ॥ ३२ ॥
एष मे परमोदार वरः परमको मतः ।
न हि धर्माभिरक्तानां लोके किंचन दुर्लभम् ॥ ३३ ॥
पुनः प्रजापतिः प्रीतो विभीषणमुवाच ह ।
धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ॥ ३४ ॥
यस्माद्राक्षसयोनौ ते जातस्यामित्रनाशन ।
नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ॥ ३५ ॥
इत्युक्त्वा कुम्भकर्णाय वरं दातुमुपस्थितम् ।
प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयोऽब्रुवन् ।। ३६ ।।
न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया ।
जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः ॥ ३७ ॥
नन्दनेऽप्सरसः सप्त महेन्द्रानुचरा दश ।
अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा ॥ ३८ ॥
परमेति श्लोकद्वयमेकं वाक्यं ॥ ब्रह्मास्त्रं ब्रह्मास्त्रमन्त्रं । पालये पालयेयं ।। ३१-३८ ।।
अलब्धवरपूर्वेण यत्कृतं राक्षसेन तु ।
तदेष वरलब्धः स्याद्भक्षयेद्भुवनत्रयम् ॥ ३९ ॥
अलब्धवरपूर्वेण पूर्वमलब्धवरेण कुम्भकर्णेन । यत् भक्षणात्मकं कर्म कृतं तत् तस्मात् कारणात् । वरलब्धः लब्धवर: स्यात् स्याद्यदि भुवनत्रयमपि भक्षयेदित्यर्थः ।। ३९ ।।
वरव्याजेन मोहोस्मै दीयतामभितप्रभ ।
लोकानां स्वस्ति चैवं स्याद्भवेदस्य च संमतिः ॥ ४० ॥
मोहः अज्ञानं । एवं मोहस्यैव प्रदाने अस्य च सन्नतिः शिक्षा भवेत् ॥ ४० ॥
एवमुक्तः सुरैर्ब्रह्माऽचिन्तयत्पद्मसंभवः ।
चिन्तिता चोपतस्थेऽस्य पार्श्वं देवी सरस्वती ॥ ४१ ॥
प्राञ्जलिः सा तु पार्श्वस्था प्राह वाक्यं सरस्वती ।
इयमस्म्यागता देव किं कार्य करवाण्यहम् ।। ४२ ।।
अचिन्तयत् । देवीमिति शेषः ॥ ४१-४२ ।।
प्रजापतिस्तु तां प्राप्तां प्राह वाक्यं सरस्वतीम् ।
वाणि त्वं राक्षसेन्द्रास्ये भव या देवतेप्सिता ।। ४३ ।।
भव या देवतेप्सिता । यादृग्रूपा देवतैः काङ्क्षिता तादृशी भवेत्यर्थः ।। ४३ ।।
तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् ।
कुम्भकर्ण महाबाहो वरं वरय यो मतः ॥ ४४ ॥
कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् ।
स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ॥ ४५ ॥
एवमस्त्विति तं चोक्त्वा प्रायाब्रह्मा सुरैः समम् ।
देवी सरस्वती चैव राक्षसं तं जहौ पुनः ॥ ४६ ॥
ब्रह्मणा सह देवेषु गतेषु च नभःस्थलम् ।
विमुक्तोसौ सरस्वत्या स्वां संज्ञां च ततो गतः ॥ ४७ ॥
कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः ।
ईदृशं किमिदं वाक्यं ममाद्य वदनाच्च्युतम् ॥ ४८ ॥
प्रविष्टा सा देवतोक्तरूपा प्रविष्टेत्यर्थः ।। ४४-४८ ।।
अहं व्यामोहितो देवैरिति मन्ये तदागतैः ।
एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः ।
श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम् ॥ ४९ ॥
श्लेष्मातकवनं तत्प्रचुरं पितुस्तपोवनमित्यर्थः ॥ ४९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे दशमः सर्गः ॥ १० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने दशमः सर्गः ॥ १० ॥