श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्र्युत्तरशततमः सर्गः
कदाचनतापसरूपिणारुद्रेण राममेत्य रहस्यवृत्तान्तकथनायस्वागमनस्यनिवेदने रामेण तच्चोदनयामन्त्रणसमये तच्छ्रोतुस्तयोर्निरीक्षमाणस्य च स्वेनहननप्रतिज्ञाकरणेन सौमित्रेर्द्वार -रक्षकत्वेनस्थापनपूर्वक तंप्रतिरहस्यकथनचोदना ॥ १ ॥
कस्य चित्त्वथ कालस्य रामे धर्मपथे स्थिते ।
कालस्तापसरूपेण राजद्वारमुपागमत् ॥ १ ॥
सोब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशस्विनम् ।
मां निवेदय रामाय संप्राप्तं कार्यगौरवात् ॥ २ ॥
कालस्य कस्यचित् गमनानन्तरमिति शेषः ।। १-२ ।।
दूतोस्म्यतिबलस्याहं महर्षेरमितौजसः ।
रामं दिदृक्षुरायातः कार्येण हि महाबल ॥ ३ ॥
तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरयान्वितः ।
न्यवेदयत रामाय तापसं तं समागतम् ॥ ४ ॥
जयस्व राम धर्मेण उभौ लोकौ महाद्युते ।
दूतस्त्वां द्रष्टुमायातस्तपसा भास्करप्रभः ॥ ५ ॥
महर्षेरिति । ब्रह्मण इत्यर्थः ॥ ३-५ ।।
तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह ।
प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृत् ॥ ६ ॥
सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् ।
ज्वलन्तमिव तेजोभिः प्रदहन्तमिवांशुभिः ॥ ७ ॥
सोभिगम्य रघुश्रेष्ठं दीप्यमानं स्वतेजसा ।
ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम् ॥ ८ ॥
तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम् ।
ददौ कुशलमव्यग्रं प्रष्टुमेवोपचक्रमे ॥ ९ ॥
पृष्टश्च कुशलं तेन रामेण वदतां वरः ।
आसने काञ्चने दिव्ये निषसाद महायशाः ॥ १० ॥
तस्य वाक्यस्य धृदिति रामवाक्यधारीति सौमित्रिविशेषणं ॥ ६-१० ॥
तमुवाच ततो रामः स्वागतं ते महामुने ।
प्रापयस्व च वाक्यानि यतो दूतस्त्वमागतः ॥ ११ ॥
वाक्यानि संदेशवाक्यानि । प्रापयस्व निवेदद्य । तत्र हेतुः-यतो दूत इत्यादि ॥ ११ ॥
चोदितो राजसिंहेन मुनिर्वाक्यमभाषत ।
द्वन्द्वमेतत्प्रवक्तव्यं हितं वै यद्यपेक्षसे ।। १२ ।।
मुनिवाक्यं प्रागुक्तमहर्षिसंदिष्टवाक्यं । द्वन्द्वमेतदिति । द्वन्द्वं रहस्य इत्यादि द्वन्द्वशब्दस्य रहस्यार्थे द्विवचननिपातः । रहस्यमेतत्प्रवक्तव्यमित्यर्थः । द्वन्द्वे हि तत्प्रवक्तव्यमिति च पाठः । तदेव विशिनष्टि-न चैषामित्यादि । एषां त्वत्समीपवर्तिलोकानामित्यर्थः ॥ १२ ॥
यः शृणोति निरीक्षेद्वा स वध्यो भविता तव ।
भवेद्वै मुनिमुख्यस्य वचनं यद्यपेक्षसे ॥ १३ ॥
अस्मद्वचनं निरीक्षेत् मन्त्रयितारौ स तव वध्यः । कथमेवमतिक्रूरसंकेत इत्यत्राह — भवेदिति । तस्य मुनिमुख्यस्य वचनमित्थं संकेतपूर्वकं वदेति चोदितवानित्यर्थः ॥ यद्यपेक्षस इति । तथा संकेतपरिपालनमिति शेषः ॥ १३ ॥
स तथेति प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् ।
द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय ॥ १४ ॥
प्रतिहारं विसर्जय अन्यतोपसारय ॥ १४ ॥
स मे वध्यः खलु भवेत्कथाद्वन्द्वं समीरितम् ।
ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः ॥ १५ ॥
किमर्थमित्यत आह–स म इत्यादि ॥ हे सौमित्रे ऋषेर्मम च कथाद्वन्द्वं कथारहस्यं । वाचं द्वन्द्वमिति च पाठः । यः शृणुयात् ।। १५ ।।
ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि संग्रहम् ।
तमुवाच मुने वाक्यं कथयस्वेति राघवः ।। १६ ।।
संग्रहं रक्षितारं ।। १६ ।।
यत्ते मनीषितं वाक्यं येन वाऽसि समाहितः ।
कथयस्वाविशङ्कस्त्वं ममापि हृदि वर्तते ॥ १७ ॥
समाहितः । ममापि हृदि वर्तत इति । एवंविधं रहस्यं तन्मयापि श्रोतव्यमित्यर्थः । अहमपि जानामीत्यर्थः ॥ १७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्र्युत्तरशततमः सर्गः ॥ १०३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्र्युत्तरशततमः सर्गः ॥ १०३ ॥