श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुरुत्तरशततमः सर्गः
रुद्रेण रामंप्रति तस्यजगत्सृष्ट्यादिकर्तृत्वगुणवर्णनपूर्वकं रामावतारप्रयोजनभूतरावणवध -स्य निर्वृत्तत्वोक्तिपूर्वकस्वावासप्रतिनिवर्तनप्रार्थनारूपचतुर्मुखसंदेशनिवेदने तेनतदभ्युपगमः ॥ १ ॥
शृणु राजन्महासत्व यदर्थमहमागतः ।
पितामहेन देवेन प्रेषितोस्मि महाबल ।। १ ॥
येन संदेशः कृतः स पितामह एवेत्याह – पितामहेनेति ॥ १ ॥
तवाहं पूर्वसद्भावे पुत्रः परपुरंजय ।
मायासंभावितो वीर कालः सर्वसमाहरः ॥ २ ॥
अहं च न तापसः किंतु काल इत्याह – तवाहमित्यादि । पूर्वसद्भावे पूर्वजन्मनि अहं तव पुत्रः । सर्वसमाहरः कालरुद्र इति यावत् । परपुरंजयः त्रिपुरसंहारकः । तवाहं पूर्वके भावे पुत्रः परपुरंजय इति च पाठः । केवलं यमस्य पूर्वभावादुत्थितत्वाभावात् मायासंभावितः मायया उत्पादित: ॥ २ ॥
पितामहश्च भगवानाह लोकपतिः प्रभुः ।
समयस्ते कृतः सौम्य स्वाँल्लोकान्परिरक्षितुम् ॥ ३ ॥
पितामहवाक्यमाह – पितामहश्चेत्यादि । स्वान् ब्रह्मलोकादीन् । परिरक्षितुं ते समयः । स्वलोकं प्राप्तुं समय इत्यर्थः । लोकान्त्संपरिरक्षितुमिति च पाठः ॥ ३ ॥
संक्षिप्य हि पुरा लोकान्मायया स्वयमेव हि ।
महार्णवे शयानोप्नु मां त्वं पूर्वमजीजनः ॥ ४ ॥
भोगवन्तं ततो नागमनन्तमुदकेशयम् ।
मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ ॥ ५ ॥
न केवलं त्वं रक्षकः किंतु संहर्ता स्रष्टा चेत्याह-संक्षिप्येत्यादि । लोकान् चराचरात्मकाः प्रजाः । मायया विचित्रशक्त्या । जनयित्वा । त्वं महाकालाग्निरूपः । सत्त्वौ प्राणिनौ । अजीजन इत्यनुषङ्गः ॥ ४-५ ॥
मधु च कैटभं चैव ययोरस्थिचयैर्वृता ।
इयं पर्वतसंबाधा मेदिनी चाभवन्मही ॥ ६ ॥
कौ तावित्यत आह -मधुं च कैटभं चैवेति ॥ तत्र मधुः जलोत्पन्नमकारादिवत् मेदःप्रधानः । कैटभस्तु कमठशुक्त्यादिवत् अस्थिप्रधानः । तत्सृष्टिप्रयोजनमाह – ययोरित्यादि । ययोरस्थिचयैर्वृता इयं मही पर्वतसंबाधा सती मेदिनी तन्मेदोयुक्ता । पृषोदरादित्वात्सकारलोपः । अस्थिचयैः शिलापर्वतस्थितिहेतुभूता मेदोमयत्वाद्वृक्षलता -द्युत्पत्तिहेतुर्मृदु प्रदेशाच्चाभूदित्यर्थः ॥ ६ ॥
पद्मे दिव्येऽर्कसंकाशे नाभ्यामुत्पाद्य मामपि ।
प्राजापत्यं त्वया कर्म मयि सर्वं निवेशितम् ॥ ७ ॥
मां त्वं पूर्वमजीजन इत्येतद्विवृणोति – पद्म इत्यादि ॥ नाभ्यां वर्तमाने पद्मे नाभिकमले मामुत्पाद्य मयि प्राजापत्यं प्रजापतित्वं निवेशितं । मम प्रजापतित्वं दत्तवानसीत्यर्थः ॥ ७ ॥
सोहं संन्यस्तभारो हि त्वामुपासे जगत्पतिम् ।
रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान् ॥ ८ ॥
त्वयि संन्यस्तभारः अहं त्वामुपासे निरन्तरं चिन्तयामि । भूतेषु मत्सृष्टेषु रक्षां विधत्व ॥ ८ ॥
ततस्त्वमपि दुर्धर्षात्तस्माद्भावात्सनातनात् ।
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ ९ ॥
ततः मत्कृतभारसमर्पणेन दुर्धर्षात् दुर्ज्ञेयात् सनातनान्नित्यात् भावात् परवासुदेवस्वभावात्सर्वभूतानां रक्षार्थं विष्णुत्वमुपजग्मिवान् प्राप्तवान् । रक्षां विधास्यन्भूतानामिति च पाठः । यद्वा सनातनात्तस्मात् वासुदेवविग्रहात् । अदित्यां विष्णुत्वमुपजग्मिवानित्यर्थः । परवासुदेवस्त्वं प्रथमं ब्रह्मरुद्रमध्ये आदिविष्णुतयावतीर्णो -सीत्यर्थः ॥ ९ ॥
अदित्यां वीर्यवान्पुत्रो भ्रातॄणां वीर्यवर्धनः ।
समुत्पन्नेषु कृत्येषु तेषां साह्याय कल्पसे ॥ १० ॥
अथ तस्मादुपेन्द्रावतारमाह-अदित्यामिति ॥ भ्रातॄणां इन्द्रादीनां । वीर्यवर्धनः सन् लोकस्य कृत्येषु रक्षणकार्येषूत्पन्नेषु साह्याय तत्संपादनयोग्यत्वाय । कल्पसे ततोलोकसंरक्षणार्थमुपेन्द्रोऽभूरित्यर्थः ॥ १० ॥
स त्वं वित्रास्यमानासु प्रजासु जगतां वर ।
रावणस्य वधाकाङ्क्षी मानुषेषु मनोदधाः ॥ ११ ॥
दश वर्षसहस्राणि दश वर्षशतानि च ।
कृत्वा वासस्य नियतिं स्वयमेवात्मना पुरा ॥ १२ ॥
एवं महाविष्णुरूपादुपेन्द्रावतारमुक्त्वा पुरस्ताद्रामावतारमाह- स त्वमिति ॥ हे जगतां वर प्रजासु वित्रास्यमानासु सतीषु रावणस्य वधाकाङ्क्षी सन् । स त्वमुज्जास्यमानासु प्रजासु जगतो वरेति च पाठः । आत्मना स्वातंत्र्येण स्वयमेव । पुरा दश वर्षसहस्राणि दश वर्षशतानि च वासस्य नियतिं वासस्य नियमं । कृत्वा । वासस्य नियममिति च पाठः । मानुषेषु मनोधा इति श्लोकद्वयमेकान्वयं ॥ ११-१२ ॥
स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह ।
कालोऽयं ते नरश्रेष्ठ समीपमुपवर्तितुम् ॥ १३ ॥
स त्वमुपेन्द्रो भूत्वा यतमानस्त्वं मनोमयः पुत्रः इच्छाकृतदशरथपुत्रभावः । स त्वं पूर्णायुरसि संकल्पितकालस्य निवृत्तत्वादिति भावः । अतो मत्समीपमुपवर्तितुं प्राप्तुमयं कालः समयः॥ १३ ॥
यदि भूयो महाराज प्रजा इच्छस्युपासितुम् ।
वस वा वीर भद्रं त एवमाह पितामहः ॥ १४ ॥
उपासितुं रक्षितुं । तव स्वतन्त्रत्वादिति भावः ॥ १४ ॥
अथवा विजिगीषा ते सुरलोकाय राघव ।
सनाथा विष्णुना देवा भवन्तु विगतज्वराः ॥ १५ ॥
भूलोकं विहाय स्वर्गलोकाय विजिगीषा चेत्तदा विष्णुना पुनर्विष्णुत्वं प्राप्तेन त्वया देवाः सनाथाः सन्तो विगतज्वराः भवन्तु । भवदागमनमेव समस्तदेवसुखकरं स्यादिति भावः ।। १५ ।।
श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् ।
राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत् ॥ १६ ॥
प्रहसन्निति । स्वयमेवोद्युक्तस्य पितामहोक्त्या प्रहासः । सर्वसंहारं रुद्रं ॥ १६ ॥
श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम् ।
प्रीतिर्हि महती जाता तवागमनसंभवा ।। १७ ।।
तवागमनसंभवा प्रीतिर्महती जायत इति योज्यं ।। १७ ॥
त्रयाणामपि लोकानां कार्यार्थं मम संभवः ।
भद्रं तेऽस्तु गमिष्यामि यत एवाहमागतः ॥ १८ ॥
एवं पितामहसन्देशं श्रुत्वा प्रतिसन्देशमाह-त्रयाणामित्यादि ॥ यत एवाहमागतः तदेव स्थानं गमिष्यामि ॥ १८ ॥
हृद्गतो ह्यसि संप्राप्तो न मे तत्र विचारणा ।
मया हि सर्वकृत्येषु देवानां वशवर्तिना ।
स्थातव्यं सर्वसंहार यथा ह्याह पितामहः ॥ १९ ॥
हृद्गतो मम संप्राप्तः । मम हृदि यद्वर्तते तदेव पितामहेन प्रेषितमित्यर्थः । अत्र गमने विषये मे विचारणा नास्ति । ब्रह्मयाच्ञयैव ममात्रावतरणमित्याह-मया हीति । देवानां वशवर्तिना भक्तपरतन्त्रेण मया पितामहो देवेष्वन्यतमः यथाह तथा मया सर्वकृत्येषु स्थितिगमनादिषु स्थातव्यं । तन्नातिक्रमणीयमित्यर्थः । अनेन ब्रह्मणः सृज्यत्वकथनात्परतत्त्वशङ्का निवृत्ता ॥ १९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुरुत्तरशततमः सर्गः ॥ १०४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामयणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुरुत्तरशततमः सर्गः ॥ १०४ ।।