श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षडुत्तरशततमः सर्गः
सौमित्रिणा रामंप्रति स्वहननेनस्वप्रतिज्ञापालनकरणनिवेदने तेनतंप्रति त्यागस्यवध -प्रतिनिधित्वकथनेन तत्त्यागः ॥ १ ॥ सौमित्रिणा स्वगृहाप्रवेशेनैव सरयूनद्यामवगाहनेन स्वर्गगमनम् ॥ २ ॥
अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवप्लुतम् ।
राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत् ॥ १ ॥
आप्लुतं राहुग्रस्तं । हृष्ट इति । सुमन्त्रवाक्यतः पूर्वमेव रामेण स्वपरित्यागस्यावगतत्वाद -विषाद इत्यर्थः ॥ १ ॥
न संतापं महाबाहो मदर्थं कर्तुमर्हसि ।
पूर्वनिर्माणबद्धा हि कालस्य गतिरीदृशी ॥ २ ॥
जहि मां सौम्य विस्रब्धं प्रतिज्ञां परिपालय ।
हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः ॥ ३ ॥
यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि ।
जहि मां निर्विशङ्कस्त्वं धर्मं वर्धय राघव ॥ ४ ॥
तदेव दर्शयति – पूर्वेत्यादि । पूर्वनिर्माणेन प्राग्भावीयकर्मणा बद्धा कल्पिता प्रथा । ईदृशीति । संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् इत्युपदिष्टन्यायवतीत्यर्थः ॥ २-४ ॥
लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रियः ।
मन्त्रिणः समुपानीय तथैव च पुरोधसम् ॥ ५ ॥
अब्रवीच्च तदा वृत्तं तेषां मध्ये स राघवः ।
दुर्वासोभिगमं चैव प्रतिज्ञां तापसस्य च ॥ ६ ॥
तच्छ्रुत्वा मत्रिणः सर्वे सोपाध्यायाः समासत ।
वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह ॥ ७ ॥
दृष्टमेतन्महाबाहो क्षयं ते रोमहर्षणम् ।
लक्ष्मणेन वियोगश्च तव राम महायशः ॥ ८ ॥
त्यजैनं बलवान्कालो मा प्रतिज्ञां वृथा कृथाः ।
विनष्टायां प्रतिज्ञायां धर्मोपि च लयं व्रजेत् ॥ ९ ॥
ततो धर्मे विनष्टे तु त्रैलोक्यं सचराचरम् ।
सदेवर्षिगणं सर्वं विनश्येत्तु न संशयः ॥ १० ॥
प्रचलितेन्द्रियः त्यक्तावाङ्मुखमौनतया प्रवृत्तवागादीन्द्रियः ॥ ५-१० ॥
स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनात् ।
लक्ष्मणेन विना चाद्य जगत्स्वस्थं कुरुष्व ह ॥ ११ ॥
तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम् ।
श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत् ॥ १२ ।।
विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः ।
त्यागो वधो वा विहितः साधूनां तूभयं समम् ।। १३ ।।
अभिपालनात् । हेतौ पञ्चमी । अभिपालनार्थमित्यर्थः ।। ११-१३ ।।
रामेण भाषिते वाक्ये बाष्पव्याकुलितेन्द्रियः ।
लक्ष्मणस्त्वरितं प्रायात्स्वगृहं न विवेश ह ॥ १४ ॥
रामेण भाषित इत्युक्तरीत्येति शेषः ॥ १४ ॥
स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः ।
निगृह्य सर्वस्रोतांसि निश्वासं न मुमोच ह ॥ १५ ॥
सर्वस्रोतांसि सर्वेन्द्रियाणि ॥ १५ ॥
अनिश्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः ।
देवाः सर्षिगणाः सर्वे पुष्पैरभ्यकिरंस्तदा ॥ १६ ॥
युक्तं योगयुक्तं अभ्यकिरन् ।। १६ ।।
अदृश्यं सर्वमनुजैः सशरीरं महाबलम् ।
प्रगृह्य लक्ष्मणं शक्रस्त्रिदिवं संविवेश ह ॥ १७ ॥
अदृश्यं यथा तथा ॥ १७ ॥
ततो विष्णोचतुर्भागमागतं सुरसत्तमाः ।
दृष्ट्वा प्रमुदिताः सर्वेऽपूजयन्समहर्षयः ॥ १८ ॥
चतुर्थो भागश्चतुर्भाग: । शेषसुपर्णविष्वक्सेनविष्णुरूपेण चतुर्विभागो विष्णुस्तत्र शेषरूपश्चतुर्थांशो लक्ष्मणः । सुपर्णभूतो भरतः । विष्वक्सेनरूपः शत्रुघ्न इति रहस्यार्थः । अतएव पुराणान्तरेषु शेषावतारो लक्ष्मण इति प्रसिद्धिः । अनन्तगरुडविष्वक्सेन विष्णुरूपेणात्मानं चतुर्धा व्यूह्य वर्तते सर्वेश्वर इति ज्ञेयम् ॥ १८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षडुत्तरशततमः सर्गः ।। १०६ ।।
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षडुत्तरशततमः सर्गः ॥ १०६ ॥