श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टोत्तरशततमः सर्गः
दूतमुखापरलोकगमनोद्यमादिरामवृत्तान्तमवगतवताशत्रुघ्नेन पुत्रद्वयस्वराज्यद्वयेऽ -भिषेचनपूर्वकमयोध्यामेत्यरामंप्रति सप्रणामंस्वस्यानुगमनाभ्यनुज्ञानप्रार्थने रामेणतदनुज्ञानम् ॥ १ ॥ सुग्रीवेणाङ्गदस्य राज्येऽभिषेचनपूर्वकमृक्षवानरादिभिः सहाभिवादन पूर्वक रामंप्रतिसानुचरस्यस्वस्यतदनुगमनाङ्गीकरणप्रार्थनेतेनतदङ्गीकरणम् ॥ २ ॥ रामेण हनुमद्विभीषणौप्रति धरण्यामाचन्द्रार्कावस्थानचोदनपूर्वकं मैन्दद्विविदजाम्बवतां मे दिन्यांचिरावस्थानचोदना ।। ३ ।।
ते दूता रामवाक्येन चोदिता लघुविक्रमाः ।
प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं च नाध्वनि ॥ १ ॥
ते तुं त्रिभिरहोरात्रैः संप्राप्य मधुरामथ ।
शत्रुघ्नाय यथातत्वमाचख्युः सर्वमेव तत् ॥ २ ॥
लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च ।
पुत्रयोरभिषेकं च पौरानुगमनं तथा ॥ ३ ॥
राघवस्य प्रतिज्ञामिति । कालपुरुषं प्रति ब्रह्मलोकागमनप्रतिज्ञामित्यर्थः । पौरानुगमनं पौरानुगमनानुमतिं ॥ ३ ॥
कुशस्य नगरी रम्या विन्ध्य पर्वतरोधसि ।
कुशावतीति नाम्ना सा कृता रामेण धीमता ।
श्रावस्तीति पुरी रम्या श्राविता च लवस्य च ॥ ४ ॥
अयोध्यां विजनां कृत्वा राघवो भरतस्तथा ।
स्वर्गस्य गमनोद्योगं कृतवन्तौ महारथौ ॥ ५ ॥
कुशस्य कुशावती पुरी लवस्य श्रावस्तीति श्रावितेत्यन्वयः ॥ ४-५ ॥
एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने ।
विरेमुस्ते ततो दूतास्त्वर राजेति चाब्रुवन् ॥ ६ ॥
त्वर गमनाय त्वरितो भव । राजेति । राजन्नित्यर्थः ॥ ६ ॥
तच्छ्रुत्वा घोरसंकाशं कुलक्षयमुपस्थितम् ।
प्रकृतीस्तु समानीय काञ्चनं च पुरोधसम् ॥ ७ ॥
काञ्चनं काञ्चनाख्यं ।। ७ ।।
तेषां सर्वं यथावृत्तमब्रवीद्रघुनन्दनः ।
आत्मनश्च विपर्यास भविष्यं भ्रातृभिः सह ॥ ८ ॥
ततः पुत्रद्वयं वीरः सोभ्यषिञ्चन्नराधिपः ।
सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् ॥ ९ ॥
विपर्यासं देहवियोगं ॥ ८-९ ॥
द्विधा कृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः ।
धनं च युक्तं कृत्वा वै स्थापयामास पार्थिवः ॥ १० ॥
सुबाहु मधुरायां च वैदिशे शत्रुधातिनम् ।
ययौ स्थाप्य तदाऽयोध्यां रथेनैकेन राघवः ॥ ११ ॥
स ददर्श महात्मानं ज्वलन्तमिव पावकम् ।
सूक्ष्मक्षौमाम्बरधरं मुनिभिः सार्धमक्षयैः ॥ १२ ॥
सोभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः ।
उवाच वाक्यं धर्मज्ञं धर्ममेवानुचिन्तयन् ॥ १३ ॥
कृत्वाऽभिषेकं सुतयोर्युक्तं राघवनन्दन ।
तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ॥ १४ ॥
धनं युक्तं च कृत्वेति । यथोचितं यथाशास्त्रं विभागं कृत्वेत्यर्थः ।। १०-१४ ॥
न चान्यदपि वक्तव्यमतो वीर न शासनम् ।
[ त्यक्तुं नार्हसि मां वीर भक्तिमन्तं विशेषतः । ]
विलोक्यमानमिच्छामि त्वद्विधेन विशेषतः ॥ १५ ॥
तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः ।
बाढमित्येव शत्रुघ्नं रामो वाक्यमुवाच ह ॥ १६ ॥
तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः ।
ऋक्षराक्षसङ्घाश्च समापेतुरनेकशः ॥ १७ ॥
सुग्रीवं ते पुरस्कृत्य सर्व एव समागताः ।
ते रामं द्रष्टुमनसः स्वर्गायाभिमुखं स्थितम् ।। १८ ।।
देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा ।
रामक्षयं विदित्वा ते सर्व एव समागताः ॥ १९ ॥
ते राममभिवाद्योचुः सर्वे वानरराक्षसाः ।
तवानुगमने राजन्सप्राप्ताः कृतनिश्चयाः ॥ २० ॥
अन्यन्न वक्तव्यमिति । मास्त्विसि न वक्तव्यमित्यर्थः। विलोक्यमानमित्यादि । त्वद्विधेन परमानुग्रहसमर्थेन । विलोक्यमानं अनुगृह्यमाणमेव संपादयितुमात्मानमिच्छामि ॥ १५-२० ॥
यदि राम विनाऽस्माभिर्गच्छेस्त्वं पुरुषोत्तम ।
यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः ॥ २१ ॥
तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत्स्मयन् ॥ २२ ॥
एतस्मिन्नन्तरे रामं सुग्रीवोपि महाबलः ।
प्रणम्य विधिवद्वीरं विज्ञापयितुमुद्यतः ।। २३ ।।
अभिषिच्याङ्गदं वीरमागतोस्मि नरेश्वर ।
तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ॥ २४ ॥
तस्य तद्वचनं श्रुत्वा रामो रमयतांवरः ।
वानरेन्द्रमथोवाच मैत्रं तस्यानुचिन्तयन् ॥ २५ ॥
सखे शृणुष्व सुग्रीव न त्वयाहं विनाकृतः ।
गच्छेयं देवलोकं वा परमं वा पदं महत् ॥ २६ ॥
यमदण्डमुद्यम्येव त्वया विनिपातिताः स्म । हताः स्मेत्यर्थः ॥ २१-२६ ।।
विभीषणमथोवाच राक्षसेन्द्रं महायशाः ।
यावत्प्रजा धरिष्यन्ति तावत्वं वै विभीषण ।
राक्षसेन्द्र महावीर्य लङ्कास्थस्त्वं धरिष्यसि ॥ २७ ॥
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।
यावच्च मत्कथा लोके तावद्राज्यं तवास्त्विह ॥ २८ ॥
शासितस्त्वं सखित्वेन कार्यं ते मम शासनम् ।
प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि ॥ २९ ॥
किंचान्यद्वक्तुमिच्छामि राक्षसेन्द्र महामते ॥ ३० ॥
आराधय जगन्नाथमिक्ष्वाकुक्कुलदैवतम् ।
आराधनीयमनिशं सर्वैर्देवैः सवासवैः ॥ ३१ ॥
तथेति प्रतिजग्राह रामवाक्यं विभीषणः ।
राजा राक्षसमुख्यानां राघवाज्ञामनुस्मरन् ॥ ३२ ॥
एवं तेषामनुगमनार्थवचनं श्रुत्वा व्यवस्थामाह – विभीषणमित्यादि ॥ विभीषणस्य ब्रह्मणा अमरत्वप्रदानप्रदर्शनात् स्नेहेनैवावस्थानं शास्ति-यावत्प्रजा इति । धरिष्यसीति । देहमिति शेषः ।। २७-३२ ।।
तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् ।
जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय ॥ ३३ ॥
अथ हनुमतोपि अमरत्वं प्रति ब्रह्मदत्तवरत्वात् यावद्रामकथाप्रचारः भूलोके तावत् तच्छ्रवणस्य प्रार्थितत्वात् तथा रामेणानुज्ञातत्वाच्च तस्य च स्थापनं । जीवित इत्यादि । जीविते जीवितावस्थाने कृतबुद्धिः कृतनिश्चयः सन् प्रतिज्ञां त्वत्कृतां मा विलोपय । मा प्रतिज्ञां वृथा कृथा इति च पाठः ॥ ३३ ॥
मत्कथा: प्रचरिष्यन्ति यावल्लोके हरीश्वर ।
तावद्रमस्व सुप्रीतो मद्वाक्यमनुपालयन् ॥ ३४ ॥
एवमुक्तस्तु हनुमान्राघवेण महात्मना ।
वाक्यं विज्ञापयामास परं हर्षमैवाप्य च ॥ ३५ ॥
यावत्तव कथा लोके विचरिष्यति पावनी ।
तावत्स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन् ॥ ३६ ॥
उक्त एवार्थः स्पष्टीक्रियते – मत्कथा इति ॥ ३४-३६ ॥
जाम्बवन्तं तथोक्त्वा तु वृद्धं ब्रह्मसुतं तथा ।
मैन्दं च द्विविदं चैव पञ्च जाम्बवता सह ।
यावत्कलिश्च संप्राप्तस्तावज्जीवत सर्वदा ॥ ३७ ।।
जाम्बवन्तमिति ॥ जाम्बवतोपि ब्रह्मपुत्रत्वात् ब्रह्मणैव दत्तवरत्वाच्च स्थापनं । मैन्दद्विविदयोरपि पित्रोरश्विनोरनुग्रहादमृतप्राशित्वाच्च स्थापनं । विभीषणादयोमराः पञ्च ते यूयं यावत्कलिः यावत्प्रलयः । तावज्जीवत । कलौ प्रलये संप्राप्ते सति देहं त्यजतेति शेषंः ।। ३७ ॥
तानेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् ।
उवाच बाढं गच्छध्वं मया सार्धं यथेप्सितम् ॥ ३८ ॥
सर्वांस्तानिति । पश्चामरव्यतिरिक्तानित्यर्थः ॥ ३८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टोत्तरशततमः सर्गः ॥ १०८ ॥
इति श्रीगोविन्दराजविरचित श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टोत्तरशततमः सर्गः ॥ १०८ ॥