श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकादशः सर्गः
रावणादीनांवरलाभहृष्टेनसुमालिना प्रहस्तादिभिःसह रावणसमीपमेत्यतंप्रति लङ्कायाः पुरानिजालयत्वकथनपूर्वकं कुबेरस्य ततःप्रव्राजनचोदना ॥ १ ॥ रावणेन भ्रातृगौरवात्तद्वचनानादरणे तंप्रतिप्रहस्तेन पुनस्समयान्तरे निपुणंदुर्बोधनम् ॥ २ ॥ तदनुरोधिनारावणेन कुबेरंप्रति लङ्कात्यागे दूत्येनप्रहस्तप्रेषणम् ॥ ३ ॥ कुबेरेण पितरिविश्रवसि रावणवचननिवेदनपूर्वकं तन्नियोगेन लङ्कातः पौरैः सह कैलासगमनम् ॥ ४ ॥ ततोलङ्कांप्रविष्टैःसुमालिप्रभृतिभी रावणस्य लङ्काराज्येऽभिषेचनम् ॥ ५ ॥
सुमाली वरलब्धांस्तु ज्ञात्वा चैतान्निशाचरान् ।
उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसावलात् ॥ १ ॥
मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः ।
उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः ॥ २ ॥
सुमाली सचिवैः सार्धं वृतो राक्षसपुङ्गवैः ।
अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् ॥ ३ ॥
दिष्ट्या ते वत्स संप्राप्तश्चिन्तितोऽयं मनोरथः ।
यस्त्वं त्रिभुवन श्रेष्ठाल्लब्धवान्वरमुत्तमम् ॥ ४ ॥
यत्कृते च वयं लङ्कां त्यक्त्वा याता रसातलम् ।
तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् ॥ ५ ॥
असकृतद्भयाद्भीताः परित्यज्य स्वमालयम् ।
विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ॥ ६ ॥
अस्मदीया च लङ्केयं नगरी राक्षसोचिता ।
निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता ॥ ७ ॥
महद्विष्णुकृतं यद्भयं तन्निरस्तमित्यर्थः ॥ ५-७ ॥
यदि नामात्र शक्यं स्यात्साम्ना दानेन वाऽनघ ।
तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् ॥ ८ ॥
त्वं तु लङ्केश्वरस्तात भविष्यसि न संशयः ।
त्वया राक्षसवंशोयं निमग्नोपि समुद्धृतः ।
सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल ॥ ९ ॥
अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम् ।
वित्तेशो गुरुरस्माकं नार्हसे वक्तुमीदृशम् ॥ १० ॥
साम्नाऽपि राक्षसेन्द्रेण प्रत्याख्यातो गरीयसा ।
किंचिन्नाह तदा रक्षो ज्ञात्वा तस्य चिकीर्षितम् ११
कस्यचित्त्वथ कालस्य वसन्तं रावणं ततः ।
उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः ।
प्रहस्तः प्रश्रितं वाक्यमिदमाह सकारणम् ॥ १२ ॥
दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम् ।
सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम ।। १३ ।।
सामादिना लङ्का प्रचालयितुं यदि नाम शक्यं स्यात्तदा नः कार्यं भवेदित्यर्थः ॥ ८-१३ ॥
अदितिश्च दितिश्चैव भगिन्यौ सहिते हिते ।
भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः ॥ १४ ॥
अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् ।
दितिस्त्वजनयत्पुत्रान्कश्यपस्यात्मसंभवान् ॥ १५ ॥
दैत्यानां किल धर्मज्ञ पुरीयं सवनार्णवा ।
सपर्वता मही वीर तेऽभवन्प्रभविष्णवः ॥ १६ ॥
निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना ।
देवानां वशमानीतं त्रैलोक्यमिदमव्ययम् ॥ १७ ॥
सहिते हिते अन्योन्यानुरक्ते ।। १४-१७ ।।
नैतदेको भवानेव करिष्यति विपर्ययम् ।
सुरासुरैराचरितं तत्कुरुष्व चचो मम ॥ १८ ॥
एवमुक्तो दशग्रीवः प्रहृष्टेनान्तरात्मना ।
चिन्तयित्वा मुहूर्तं वै वाढमित्येव सोब्रवीत् ॥ १९ ॥
विपर्ययं भ्रातृद्रोहरूपं । सुरासुरैराचरितं मार्गं ॥ १८-१९ ॥
स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान् ।
वनं गतो दशग्रीवः सह तैः क्षणदाचरैः ॥ २० ॥
तस्मिन्नहनि प्रहस्तोपदेशाहनि । वनं श्लेष्मातकवनं ।। २० ।।
त्रिकूटस्थ: स तु तदा दशग्रीवो निशाचरः ।
प्रेषयामास दूत्येन प्रहस्तं वाक्यकोविदम् ॥ २१ ॥
त्रिकूटस्थो भूत्वा प्रहस्तं दूत्येन प्रेषयामास ॥ २१ ॥
प्रहस्त शीघ्रं गच्छ त्वं ब्रूहि नैर्ऋतपुङ्गवम् ।
वचसा मम वित्तेशं सामपूर्वमिदं वचः ॥ २२ ॥
इयं लङ्कापुरी राजन्राक्षसानां महात्मनाम् ।
त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ ॥ २३ ॥
तद्भवान्यदि नो ह्यद्य दद्यादतुलविक्रम ।
कृता भवेन्मम प्रीतिर्धर्मश्चैवानुपालितः ॥ २४ ॥
स तु गत्वा पुरीं लङ्कां धनदेन सुरक्षिताम् ।
अब्रवीत्परमोदारं वित्तपालमिदं वचः ॥ २५ ॥
प्रेषितोऽहं तव भ्रात्रा दशग्रीवेण सुव्रत ।
त्वत्समीपं महाबाहो सर्वशस्त्रभृतां वर ॥ २६ ॥
तच्छ्रूयतां महाप्राज्ञ सर्वशास्त्रविशारद ।
वचनं मम वित्तेश यद्ब्रवीति दशाननः ॥ २७ ॥
इयं किल पुरी रम्या सुमालिप्रमुखैः पुरा ।
भुक्तपूर्वा विशालाक्ष राक्षसैर्भीमविक्रमैः ॥ २८ ॥
तेन विज्ञाप्यते सोयं सांप्रतं विश्रवात्मज ।
तदेषा दीयतां तात याचतस्तस्य सामतः ॥ २९ ॥
प्रहस्तादभिसंश्रुत्य देवो वैश्रवणो वचः ।
प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः ॥ ३० ॥
दत्ता ममेयं पित्रा तु लङ्का शून्या निशाचरैः ।
निवासिते च मे यक्षैर्दानमानादिभिर्गुणैः ॥ ३१ ॥
ब्रूहि गच्छ दशग्रीवं पुरं राज्यं च यन्मम ।
तवाप्येतन्महाबाहो भुङ्क्ष्व राज्यमकण्टकम् ।
अविभक्तं त्वया सार्धं राज्यं यच्चापि मे वसु ॥ ३२ ॥
एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम् ।
अभिवाद्य गुरु ग्राह रावणस्य यदीप्सितम् ॥ ३३ ॥
एष तात दशग्रीवो दूतं प्रेषितवान्मम ।
दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता ।
मयाऽत्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत ॥ ३४ ॥
ब्रह्मर्षिस्त्वेवमुक्तोसौ विश्रवा मुनिपुङ्गवः ।
प्राञ्जलिं धनदं ग्राह शृणु पुत्र वचो मम ॥ ३५ ॥
नैर्ऋतपुङ्गवं कुबेरं । लङ्कायां पूर्वस्थितनैर्ऋताधिपत्यात् ॥ २२-३५ ॥
दशग्रीवो महाबाहुरुक्तवान्मम सन्निधौ ।
मया निर्भर्त्सितश्चासीद्बहुशोक्तः सुदुर्मतिः ॥ ३६ ॥
बहुशोक्त इति संधिः छान्दसः ॥ ३६ ॥
स क्रोधेन मया चोक्तो ध्वंसते च पुनः पुनः ।
श्रेयोभियुक्तं धर्म्यं च शृणु पुत्र वचो मम ।। ३७ ।।
ध्वंसते ध्वस्तधर्मन्यायमर्यादो जायते ।। ३७ ।।
वरप्रदानात्संमूढो मान्यामान्यान्स दुर्मतिः ।
न वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः ॥ ३८ ॥
मम शापात् । तन्मातृदर्शनकालकृतादिति शेषः ।। ३८ ।।
तस्माद्गच्छ महाबाहो कैलासं धरणीधरम् ।
निवेशय निवासार्थं त्यक्त्वा लङ्कां सहानुगः ॥ ३९ ॥
तत्र मन्दाकिनी रम्या नदीनामुत्तमा नदी ।
काञ्चनैः सूर्यसंकाशैः पङ्कजैः संवृतोदका ।
कुमुदैरुत्पलैश्चैव तथाऽन्यैश्च सुगन्धिभिः ॥ ४० ॥
तत्र देवा: सगन्धर्वाः साप्सरोरगकिन्नराः ।
विहारशीलाः सततं रमन्ते सर्वदाश्रिताः ॥ ४१ ॥
न हि क्षमं तवानेन वैरं धनद रक्षसा ।
जानीषे हि यथाऽनेन लब्धः परमको वरः ॥ ४२ ॥
एवमुक्तो गृहीत्वाऽऽशु तद्वचः पितृगौरवात् ।
सदारपुत्रः सामात्यः सवाहनधनो गतः ॥ ४३ ॥
[ शून्या सा नगरी लङ्का त्रिंशद्योजनमायता ।
क्षिप्रमेवाभवद्राम निर्जना चापि निर्भया ] ॥ ४४ ॥
प्रहस्तोथ दशग्रीवं गत्वा वचनमब्रवीत् ।
प्रहृष्टात्मा महात्मानं सहामात्यं सहानुजम् ॥ ४५ ।।
शून्या सा नगरी लङ्का त्यक्त्वैनां धनदो गतः ।
प्रविश्य तां सहास्माभिः स्वधर्मं प्रतिपालय ।। ४६ ।।
एवमुक्तो दशग्रीवः प्रहस्तेन महाबलः ।
विवेश नगरीं लङ्कां भ्रातृभिः सबलानुगैः ॥ ४७ ॥
धनदेन परित्यक्तां सुविभक्तमहापथाम् ।
आरुरोह स देवारिः स्वर्गं देवाधिपो यथा ॥ ४८ ॥
स चाभिषिक: क्षणदाचरैस्तदा निवेशयामास पुरीं दशाननः ।
निकामपूर्णा च बभूव सा पुरी निशाचरैर्नीलबलाहकोपमैः ॥ ४९ ॥
निवासार्थं निवेशय निवेशनं पुरं कुरु ॥ ३९-४९ ॥
धनेश्वरस्त्वथ पितृवाक्यगौरवान्न्यवेशयच्छशिविमले गिरौ पुरीम् ।
स्वलंकृतैर्भवनवरैर्विभूषितां पुरन्दरस्येव तदाऽमरावतीम् ॥ ५० ॥
शशिविमले गिरौ कैलासे । पुरीं अलकां । अत्र छन्दोभङ्ग आर्षो ज्ञेयः ॥ ५० ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकादशः सर्गः ॥ ११ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकादशः सर्गः ॥ ११ ॥