श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायामुत्तरकाण्डे एकादशोचरशततमः सर्गः
वाल्मीकिना श्रीरामायणस्यवेदसमत्वोक्तिपूर्वकं तत्पठनादेः फलनिरूपणम् ॥ १ ॥
एतावदेतदाख्यानं सोत्तरं ब्रह्मपूजितम् ।
रामायणमिति ख्यातं मुख्यं वाल्मीकिना कृतम् ॥ १ ॥
अस्य काव्यस्य अपवर्गान्तसाधकतया कथाशेषानुवादपूर्वकं पठनश्रवणादिषु फलमुपदिश्यते – एतावदित्यादि । सोत्तरंउत्तरकाण्डसहितं । मुख्यं सर्वाख्यानेभ्यः प्रशस्तमेतदाख्यानं । एतावदेव समर्यादं एतावच्छ्लोकसर्गकाण्डसंख्याकमेव । न न्यूनं नाधिकं ॥ १ ॥
ततः प्रतिष्ठितो विष्णुः स्वर्गलोके यथापुरम् ।
येन व्याप्तमिदं सर्व त्रैलोक्यं सचराचरम् ॥ २ ॥
ततः स्वभक्तजनस्य स्वर्लोकप्रापणानन्तरं विष्णुः स्वर्गलोके परमस्वर्गे वैकुण्ठे यथापुरं यथापूर्वं प्रतिष्ठितः । स्वर्गशब्दस्य लोकपरत्वभ्रमव्यावृत्त्यर्थं विष्णुं विशिनष्टि-येनेति ॥ २ ॥
ततो देवाः सगन्धर्वा: सिद्धाश्च परमर्षयः ।
नित्यं शृण्वन्ति संतुष्टा दिव्यं रामायणं दिवि ॥ ३ ॥
इदं च रामायणं न केवलं मनुष्याणां भोग्यं किंतु देवतानामपि भोग्यमेवेस्याह – तत इति ॥ ततः ब्रह्मस्थानपूजितत्वादेः ।। ३ ।।
इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम् ।
रामायणं वेदसमं श्राद्धेषु श्रावयेद्बुधः ।
[ गायत्र्याश्च स्वरूपं तद्रामायणमनुत्तमम् ॥ ४ ॥ ]
अपुत्रो लभते पुत्रमधनो लभते धनम् ।
सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ॥ ५ ॥
पापान्यपि च यः कुर्यादहन्यहनि मानवः ।
पठत्येकमपि श्लोकं पापात्स परिमुच्यते ॥ ६ ॥
वाचकाय च दातव्यं वस्त्रं धेनुं हिरण्यकम् ।
वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ॥ ७ ॥
इदमाख्यानं रामायणरूपं आयुष्यं आयुर्वर्धनं सौभाग्यं सौभाग्यवर्धनं श्राद्धे च श्रावयेत् । अक्षय्यपितृतृप्त्यर्थमिति शेषः ॥ ४-७ ॥
एतदाख्यानमायुष्यं पठन्रामायणं नरः ।
सपुत्रपौत्रो लोकेस्मिन्प्रेत्य चेह महीयते ॥ ८ ।।
लोकेस्मिन् महीयत इत्यनुकर्षः ॥ ८ ॥
[ रामायणं गोविसर्गे मध्याह्ने वा समाहितः ।
सायाह्ने वाऽपराह्ने च वाचयन्नावसीदति ॥ ९ ॥ ]
निवासं सुजनाश्रयत्वं ॥ ९ ॥
अयोध्याऽपि पुरी रम्या शून्या वर्षगणान्बहून् ।
ऋषभं प्राप्य राजानं निवासमुपयास्यति ॥ १० ॥
एतदाख्यानमायुष्यं सभविष्यं सहोत्तरम् ।
कृतवान्प्रचेतसः पुत्रस्तद्ब्रह्माप्यन्वमन्यत ॥ ११ ॥
अश्वमेधसहस्रस्य वाजपेयायुतस्य च ।
लभते श्रवणादेव सर्गस्यैकस्य मानवः ॥ १२ ॥
प्रयागादीनि तीर्थानि गङ्गाद्याः सरितस्तथा ।
नैमिशादीन्यरण्यानि कुरुक्षेत्रादिकान्यपि ।
गतानि तेन लोकेस्मिन्येन रामायणं श्रुतम् ॥ १३ ॥
हेमभारं कुरुक्षेत्रे ग्रस्ते भानौ प्रयच्छति ।
यश्च रामायणं लोके शृणोति सदृशावुभौ ॥ १४ ॥
सम्यक्छ्रद्धासमायुक्तः शृणुते राघवीं कथाम् ।
सर्वपापात्प्रमुच्येत विष्णुलोकं स गच्छति ॥ १५ ॥
आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् ।
यः शृणोति सदा भक्त्या स गच्छेद्वैष्णवीं तनुम् ॥ १६ ॥
पुत्रदाराश्च वर्धन्ते संपदः सन्ततिस्तथा ।
सत्यमेतद्विदित्वा तु श्रोतव्यं नियतात्मभिः ।
गायत्र्याश्च स्वरूपं तद्रामायणमनुत्तमम् ॥ १७ ॥
अपुत्रो लभते पुत्रमधनो लभते धनम् ।
सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ॥ १८ ॥
यः पठेच्छृणुयान्नित्यं चरितं राघवस्य ह ।
भक्त्या निष्कल्मषो भूत्वा दीर्घमायुरवाप्नुयात् ॥ १९ ॥
चिन्तयेद्राघवं नित्यं श्रेयः प्राप्तुं य इच्छति ।
श्रावयेदिदमाख्यानं ब्राह्मणेभ्यो दिने दिने ।। २० ।।
यस्त्विदं रघुनाथस्य चरितं सकलं पठेत् ।
सोसुक्षये विष्णुलोकं गच्छत्येव न संशयः ॥ २१ ॥
पिता पितामहस्तस्य तथैव प्रपितामहः ।
तत्पिता तत्पिता चैव विष्णुं यान्ति न संशयः ॥ २२ ॥
चतुर्वर्गप्रदं नित्यं चरितं राघवस्य तु ।
तस्माद्यत्नवता नित्यं श्रोतव्यं परमं सदा ॥ २३ ॥
शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा ।
स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥ २४ ॥
एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः ।
प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ।। २५ ।।
सहोत्तरमिति । अभिषेकानन्तरवृत्तान्तः । सीताभूप्रवेशानन्तरभाविवृत्तान्तस्तु सभविष्यमित्युच्यते । कृतवान् प्रचेतस इति । तद्रामायणं ब्रह्माप्यन्वमन्यत । अपिः प्राधान्ये । अन्वमन्यत अङ्गीकृतवान् । सदा पठतिस्मेत्यर्थः । अत्र यकारो गायत्र्यक्षरं तेन गायत्री विवरणं रामायणमिति सूचितम् ॥ १०-२५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायामुत्तरकाण्डे एकादशोचरशततमः सर्गः ॥ १११ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकादशोत्तरशततमः सर्गः ॥ १११ ॥
इति उत्तरकाण्ड: समाप्तः ॥ ७ ॥