श्रीमद्रामायणे चाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टादशः सर्गः
कदाचिदिन्द्रादिदेवगणमण्डितंमरुत्तराजयज्ञवाटंप्रविष्टेरावणे तद्भयादिन्द्रादिदेवैर्मयूर -वायसादिरूपपरिग्रहः ॥ १ ॥ रावणेनयुद्धायसमाहूतेमरुत्ते युद्धसंनद्धे संवर्तनाम्नापुरोधसा दीक्षितस्ययुद्धानौचित्योक्त्त्या तत्प्रतिनिवर्तनम् ॥ २ ॥ निवृत्तेतस्मिन्रावणेन जयघोषणपूर्वकं निर्गमनम् ॥ ३ ॥ ततोनिजनिजरूपधारिभिरिन्द्रादिभिः परितोषान्मयूरादीनां नानावरप्रदानम् ॥ ४ ॥
प्रविष्टायां हुताशं तु वेदवत्यां स रावणः ।
पुष्पकं तु समारुह्य परिचक्राम मेदिनीम् ॥ १ ॥
ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः ।
उशीरबीजमासाद्य ददर्श स तु रावणः ॥ २ ॥
संवर्तो नाम ब्रह्मर्षि: साक्षाद्भ्राता बृहस्पतेः ।
याजयामास धर्मज्ञः सर्वैर्देवगणैर्वृतः ॥ ३ ॥
दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् ।
तिर्यग्योनिं समाविष्टास्तस्य दर्शनभीरवः ॥ ४ ॥
इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः ।
कृकलासो धनाध्यक्षो हंसश्च वरुणोऽभवत् ॥ ५ ॥
अन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन ।
रावणः प्राविशद्यज्ञं सारमेय इवाशुचिः ॥ ६ ॥
तं च राजा समासाद्य रावणो राक्षसाधिपः ।
प्राह युद्धं प्रयच्छेति निर्जितोस्मीति वा वद ॥ ७ ॥
ततो मरुत्तो नृपतिः को भवानित्युवाच तम् ।
अपहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् ॥ ८ ॥
उशीरबीजमिति देशनाम ।। २-८ ।।
अकुतूहलभावेन प्रीतोस्मि तव पार्थिव ।
धनदस्यानुजं यो मां नावगच्छसि रावणम् ॥ ९ ॥
त्रिषु लोकेषु कोऽन्योस्ति यो न जानाति मे बलम् ।
भ्रातरं येन निर्जित्य विमानमिदमाहृतम् ।
ततो मरुत्तः स नृपस्तं रावणमथाब्रवीत् ॥ १० ॥
धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः ।
न त्वया सदृशः श्लाघ्यस्त्रिषु लोकेषु विद्यते ॥ ११ ॥
नाधर्मसहितं श्लाघ्यं तल्लोकं प्रतिसंहितम् ।
कर्म दौरात्म्यकं कृत्वा श्लाघ्यसे भ्रातृनिर्जयात् ।। १२ ।।
अकुतूहुलभावेनमां दृष्ट्वाऽप्यविस्मय- निर्भयानादरभावेनेत्यर्थः । यो नावगच्छसि तस्य तवेत्यन्वयः ॥ ९-१२ ॥
कं त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम् ।
श्रुतपूर्वं हि न मया भाषसे यादृशं स्वयम् ॥ १३ ॥
तिष्ठेदानीं न मे जीवन्प्रतियास्यसि दुर्मते ।
अद्य त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ॥ १४ ॥
प्राक् पूर्वं । त्वं केवलं धर्मं दोषहीनं धर्मं चरित्वा किमपि वरं लब्धवानिति श्रुतपूर्वं । इदानीं यादृशं भ्रातृविजयरूपमधर्मं भाषसे तन्न श्रुतपूर्वमित्यर्थः ॥ १३-१४ ।।
ततः शरासनं गृह्य सायकांश्च नराधिपः ।
रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् ।। १५ ।।
मार्गमावृणोत् । निर्यातस्येति शेषः ॥ १५ ॥
सोब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः ।
श्रोतव्यं यदि मद्वाक्यं संप्रहारो न ते क्षमः ॥ १६ ॥
माहेश्वरमिदं सत्रमलमाप्तं कुलं दहेत् ॥ १७ ॥
दीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः ।
संशयश्च जये नित्यं राक्षसश्च सुदुर्जयः ॥ १८ ॥
स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः ।
विसृज्य सशरं चापं स्वस्थो मखमुखोऽभवत् ।। १९ ।।
ततस्तं निर्जितं मत्वा घोषयामास वै शुकः ।
रावणो जयतीत्युच्चेर्हर्षान्नादं विमुक्तवान् ।। २० ।।
तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् ।
वितृप्तो रुधिरैस्तेषां पुनः संप्रययौ महीम् ॥ २१ ॥
महानृषिः । तत्पुरोहित इत्यर्थः ।। १६-२१ ॥
रावणे तु गते देवा: सेन्द्राश्चैव दिवौकसः ।
ततः स्वां योनिमासाद्य तानि सत्त्वानि चाब्रुवन् ।। २२ ।।
हर्षात्तदाऽब्रवीदिन्द्रो मयूरं नीलबर्हिणम् ।
प्रीतोस्मि तव धर्मज्ञ भुजङ्गाद्धि न ते भयम् ॥ २३ ॥
स्वां योनिं स्वस्वप्रकृतिमासाद्य । तानि सत्त्वानि । प्राक्कार्यवशगृहीतमूर्तिसजातीय -प्राणिनइत्यर्थः ।। २२-२३ ।।
इदं नेत्रसहस्रं तु यत्वद्बर्हे भविष्यति ।
वर्षमाणे मयि मुदं प्राप्स्य से प्रीतिलक्षणाम् ।
एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः ॥ २४ ॥
प्रीतिलक्षणां मत्प्रीतिचिह्नभूतां ॥ २४ ॥
नीलाः किल पुरा बर्हा मयूराणां नराधिप ।
सुराधिपाद्वरं प्राप्य गताः सर्वेऽपि बर्हिणः ॥ २५ ॥
नीलाः किलेति । नेत्ररहिता इत्यर्थः ।। २५ ।।
धर्मराजोऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् ।
पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य वचनं शृणु ॥ २६ ॥
प्राग्वंशे यज्ञशालादारुणि ॥ २६ ॥
यथाऽन्यैर्विविधै रोगैः पीड्यन्ते प्राणिनो मया ।
ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ।। २७ ।।
ते तव । ते रोगाः । न प्रभविष्यन्ति । प्रीते इति च्छेदः ॥ २७ ॥
मृत्युतस्ते भयं नास्ति वरान्मम विहंगम ।
यावत्वां न वधिष्यन्ति नरास्तावद्भविष्यसि ।। २८ ।।
जातस्य हि ध्रुवो मृत्युः इत्यशक्यपरिहारत्वादाह-यावत्त्वामित्यादि ॥ २८ ॥
एते मद्विषयस्था वै मानवाः क्षुद्भयार्दिताः ।
त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः ।। २९ ।।
वरुणस्त्वब्रवीद्धंसं गङ्गातोयविहारिणम् ।
श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर ॥ ३० ॥
वर्णो मनोहरः सौम्य चन्द्रमण्डलसन्निभः ।
भविष्यति तवोदग्रः शुद्धफेनसमप्रभः ॥ ३१ ॥
मद्विषयस्था: यमलोकस्थाः ॥ २९-३१ ॥
मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि ।
प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् ।। ३२ ।।
मच्छरीरं जलमूर्ति ॥ ३२ ॥
हंसानां हि पुरा राम नीलवर्ण: सपाण्डुरः ।
पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ॥ ३३ ॥
अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम् ।
हैरण्यं संप्रयच्छामि वर्णं प्रीतस्तवाप्यहम् ॥ ३४ ॥
क्रोड: भुजान्तरं । शष्पाग्रनिर्मलाः बालतृणाग्रवन्निर्मला: । कोमलश्यामवर्णा इत्यर्थः ॥ ३३-३४ ॥
सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् ।
एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति ।। ३५ ।।
सद्रव्यमिति ॥ एतदेवाह – एष काञ्चनक इति ॥ ३५ ॥
एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः ।
निवृत्ता: सह राज्ञा ते पुनः स्वभवनं गताः ।। ३६ ।।
स्वभवनमिति । मरुत्तेन सह स्वर्गमित्यर्थः ॥ ३६ ॥
इत्यार्षे श्रीमद्रामायणे चाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टादशः सर्गः ॥ १८ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टादशः सर्गः ॥ १८ ॥