श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वाविंशः सर्गः
रावणकृत निजसेनासंक्षयक्षुभितेनयमेन मृत्युप्रभृतिभिःसह साटोपंरावणेनसहमहारण -प्रवर्तनम् ॥ १ ॥ मृत्युना प्रबलीभवतोरावणस्यमारणाय स्वनियोजनमर्थितेनयमेन तत्प्रतिषेधपूर्वकंरावणसंजिहीर्षया निजचण्डदण्डोद्यमने सत्वरमाविर्भूतेनब्रह्मणा तंप्रति दण्डरावणयोरुभयोरपिस्वदत्तवरतयाऽन्यतरपराभवे स्वस्यानृतवचनत्वोक्त्तया रावणेदण्डपातन -प्रतिषेधनम् ॥ २ ॥ यमे तद्वचनगौरवेणरथादिभिः सहान्तर्धानंगते रावणेन जयघोषणपूर्वकंपुष्पकारोहणेननिर्गमनम् ॥ ३ ॥
स तस्य तु महानादं श्रुत्वा वैवस्वतः प्रभुः ।
शत्रुं विजयिनं मेने स्वबलस्य च संक्षयम् ॥ १ ॥
स हि योधान्हतान्मत्वा क्रोधसंरक्तलोचनः ।
अब्रवीत्वरितं सूतं रथोऽयमुपनीयताम् ॥ २ ॥
तस्य सूतस्तदा दिव्यमुपस्थाप्य महारथम् ।
स्थितः स च महातेजा ह्यध्यारोहत तं रथम् ।
पाशमुद्गरहस्तश्च मृत्युस्तस्याग्रतः स्थितः ॥ ३ ॥
उपनीयतामित्यब्रवीदित्यन्वयः ॥ २-३ ॥
येन संक्षिप्यते सर्वं त्रैलोक्यमिदमव्ययम् ।
कालदण्डस्तु पार्श्वस्थो मूर्तिमानस्य चाभवत् ।
यमप्रहरणं दिव्यं तेजसा ज्वलदग्निमत् ॥ ४ ॥
येन मृत्युना । युगान्ते सर्वं सकृदेव संह्रियत इत्यर्थः । अव्ययं प्रवाहनित्यं ॥ ४ ॥
तस्य पार्श्वेषु निश्छिद्राः कालपाशा: प्रतिष्ठिताः ।
पावकस्पर्शसंकाशः स्थितो मूर्तश्च मुद्गरः ।। ५ ।।
ततो लोकत्रयं क्षुब्धमकम्पन्त दिवौकसः ।
कालं दृष्ट्वा तथा क्रुद्धं सर्वलोकभयावहम् ॥ ६ ॥
निश्छिद्राः निरन्तराः ॥ ५-६ ।।
ततः प्रचोदयन्सूतस्तानश्वान्रुधिरप्रभान् ।
प्रययौ भीमसन्नादो यत्र रक्षःपतिः स्थितः ॥ ७ ॥
ततः प्रचोदयन्सूतस्तान्हयान्रुधिरप्रभानित्यत्र चो इति गायत्री ॥ ७ ॥
मुहूर्तेन यमं ते तु हया हरिहयोपमाः ।
प्रापयन्मनसस्तुल्या यत्र तत्प्रस्तुतं रणम् ॥ ८ ॥
मनस्तुल्या: मनस्तुल्यवेगा इत्यर्थः ॥ ८ ॥
दृष्ट्वा तथैव विकृतं रथं मृत्युसमन्वितम् ।
सचिवा राक्षसेन्द्रस्य सहसा विप्रदुद्रुवुः ॥ ९ ॥
विकृतं घोरसन्नाहरूपविकारवन्तं ॥ ९ ॥
[ अभ्यधावन्त संक्रुद्धा बलिनोतिभयंकराः । ]
लघुसन्वतया ते हि नष्टसंज्ञा भयार्दिताः ।
नेह योद्धुं समर्थाः स्म इत्युक्त्वा प्रययुर्दिशः ॥ १० ॥
स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम् ।
नाक्षुभ्यत दशग्रीवो न चापि भयमाविशत् ॥ ११ ॥
स तु रावणमासाद्य व्यसृजच्छक्तितोमरान् ।
यमो मर्माणि संक्रुद्धो रावणस्योपकृन्तत ॥ १२ ॥
[ मर्मसु च्छिद्यमानेषु रावणो राक्षसेश्वरः ।
सहंस्तस्थौ रुजं घोरां भिद्यमान इवाचलः ॥ १३ ॥]
रावणस्तु ततः स्वस्थः शरवर्षं मुमोच ह ।
तस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः ॥ १४ ॥
[ शरास्ते वज्रसंकाशाश्छादयन्ति रणे यमम् ।
यथाऽचलं महाघोरा नानावर्णा वलाहकाः ।। १५ ।।
तान्निहत्य शरांस्तूर्णं रावणस्य यमः स्वयम् ।
ततः प्रहरणं घोरं मुमोचारिनिषूदनः ॥ १६ ॥ ]
ततो महाशक्तिशरैः पात्यमानो महोरसि ।
नाशक्नोत्प्रतिकर्तुं स राक्षसः शल्यपीडितः ॥ १७ ॥
एवं नानाप्रहरणैर्यमेनामित्रकर्शिना ।
सप्तरात्रं कृतः सङ्ख्ये विसंज्ञो विमुखो रिपुः ॥ १८ ॥
तदासीत्तुमुलं युद्धं यमराक्षसयोर्द्वयोः ।
जयमाकाङ्क्षतोर्वीर समरेष्वनिवर्तिनोः ॥ १९ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
प्रजापतिं पुरस्कृत्य समेतास्तद्रणाजिरम् ॥ २० ॥
संवर्त इव लोकानां क्रुध्यतोरभवत्तदा ।
राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ॥ २१ ॥
राक्षसेन्द्रोपि विस्फार्य चापमिन्द्राशनिप्रभम् ।
निरन्तरमिवाकाशं कुर्वन्बाणांस्ततोसृजत् ॥ २२ ॥
मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरर्दयत् ।
यमं शतसहस्रेण शीघ्रं मर्मस्वताडयत् ॥ २३ ॥
ततः क्रुद्धस्य वदनाद्यमस्य समजायत ।
ज्वालामाली सनिश्वासः सधूमः कोपपावकः ॥ २४ ॥
तदाश्चर्यमथो दृष्ट्वा देवदानवसन्निधौ ।
प्रहर्षितौ सुसंरब्धौ मृत्युकालौ बभूवतुः ॥ २५ ॥
ततो मृत्युः क्रुद्धतरो वैवस्वतमभाषत ।
मुञ्च मां समरे यावद्धन्मीमं पापराक्षसम् ।
नैषा रक्षोभवेदद्य मर्यादा हि निसर्गतः ॥ २६ ॥
लघुसत्त्वतया अल्पवीर्यतया ॥ १०-२६ ।।
हिरण्यकशिपुः श्रीमान्नमुचिः शम्बरस्तथा ।
विसंधिर्धूमकेतुश्च बलिर्वैरोचनोपि च ।
दम्भुर्दैत्यमहाराजो वृत्रो बाणस्तथैव च ॥ २७ ॥
राजर्षयः शास्त्रविदो गन्धर्वाः समहोरगाः ।
ऋषयः पन्नगा दैत्या पक्षाश्चाप्यप्सरोगणाः ॥ २८ ॥
युगान्तपरिवर्ते च पृथिवी समहार्णवा ।
क्षयं नीता महाराज सपर्वतसरिद्द्रुमा ॥ २९ ॥
दम्भुर्नाम कश्चिदसुरः ।। २७-२९ ।।
एते चान्ये च बहवो बलवन्तो दुरासदाः ।
विनिपन्ना मया दृष्टाः किमुताय निशाचरः ॥ ३० ॥
विनिपन्नाः विनाशं प्राप्ताः । दृष्टाः दृष्टमात्राः ।। ३० ।।
मुञ्च मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् ।
न हि कश्चिन्मया दृष्टो बलवानपि जीवति ॥ ३१ ॥
यावन्निहन्मि निहनिध्यामीत्यर्थः । यावद्योगे भविष्यदर्थे लट् ॥ ३१ ॥
बलं मम न खल्वेतन्मर्यादैषा निसर्गतः ।
स दृष्टो न मया कालं मुहूर्तमपि जीवति ॥ ३२ ॥
मयां दृष्टो मुहूर्तमपि न जीवतीत्येतत् मद्वचनं बलं न खलु बलप्रकाशनं न भवति । किंतु निसर्गतः स्वभावतः सिद्धा मर्यादा एषा । अनादिसृष्टिरेवंविधेत्यर्थः । उक्तमर्थमुपसंहरति स दृष्ट इति ॥ ३२ ॥
तस्यैवं वचनं श्रुत्वा धर्मराजः प्रतापवान् ।
अब्रवीत्तत्र तं मृत्युं त्वं तिष्ठैनं निहन्म्यहम् ॥ ३३ ॥
ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः ।
कालदण्डममोघं तु तोलयामास पाणिना ॥ ३४ ॥
यस्य पार्श्वेषु निखिला: कालपाशाः प्रतिष्ठिताः ।
पावकाशनिसंकाशो मुद्गरो मूर्तिमान्स्थितः ।। ३५ ।।
दर्शनादेव यः प्राणान्प्राणिनामकर्षति ।
किं पुनः स्पृश्यमानस्य पात्यमानस्य वा पुनः ॥ ३६ ॥
स ज्वालापरिवारस्तु निर्दहन्निव राक्षसम् ।
तेन स्पृष्टो बलवता महाप्रहरणोऽस्फुरत् ॥ ३७ ॥
ततो विदुद्रुवुः सर्वे तस्मात्रस्ता रणाजिरे ।
सुराश्च क्षुभिताः सर्वे दृष्ट्वा दण्डोद्यतं यमम् ॥ ३८ ॥
तस्मिन्प्रहर्तुकामे तु यमे दण्डेन रावणम् ।
यमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत् ॥ ३९ ॥
वैवस्वत महाबाहो न खल्वमितविक्रम ।
न हन्तव्यस्त्वया तेन दण्डेनैव निशाचरः ॥ ४० ॥
वरः खलु मयैतस्मै दत्तस्त्रिदशपुङ्गव ।
स त्वया नानृतः कार्यो यन्मया व्याहृतं वचः ॥ ४१ ॥
अयमेनं निहन्म्यहं अहमेनमयं निहन्मि । अविलम्बेन हन्मीत्यर्थः ॥ ३३-४१ ॥
यो हि मामनृतं कुर्याद्देवो वा मानुषोपि वा ।
त्रैलोक्यमनृतं तेन कृतं स्यान्नात्र संशयः ॥ ४२ ॥
क्रुद्धेन विप्रमुक्तोयं निर्विशेषं प्रियाप्रिये ।
प्रजाः संहरते रौद्रो लोकत्रयभयावहः ॥ ४३ ॥
अमोघो ह्येष सर्वेषां प्राणिनाममितप्रभः ।
कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः ॥ ४४ ॥
तन्न खल्वेष ते सौम्य पात्यो रावणमूर्धनि ।
न ह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति ॥ ४५ ॥
अनृतं असत्यवादिनं कुर्यात् । मृत्युपुरस्कृतः मृत्युना पुरस्कृतः। बहुव्रीहिश्च ॥ ४२-४५ ॥
यदि ह्यस्मिन्निपतिते न म्रियेतैष राक्षसः ।
म्रियते वा दशग्रीवस्तदा ह्युभयतोनृतम् ॥ ४६ ॥
तन्निवर्तय लङ्केशं दण्डमेतं समुद्यतम् ।
सत्यं च मां कुरुष्वाद्य लोकांस्त्वं यद्यवेक्षसे ॥ ४७ ॥
उभयतोनृतं मया कालदण्डस्य मोघत्वसंपादने दण्डस्यानृतत्वं रक्षोमरणोपेक्षणे वरवचनस्यानृतत्वमिति ॥ ४६-४७ ॥
एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा ।
एष व्यावर्तितो दण्डः प्रभविष्णुर्हि नो भवान् ॥ ४८ ॥
प्रभविष्णुः स्वामी ॥ ४८ ॥
किं न्विदानीं मया शक्यं कर्तुं रणगतेन हि ।
न मया यद्ययं शक्यो हन्तुं वरपुरस्कृतः ॥ ४९ ॥
यद्यस्मान्मया न हन्तव्यस्तस्मादिदानीं मया किंतु शक्यं कर्तुमिति । संचिन्त्येति शेषः ॥ ४९ ॥
एष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः ।
इत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत ॥ ५० ॥
दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः ।
आरुह्य पुष्पकं भूयो निष्क्रान्तो यमसदनात् ॥ ५१ ॥
अस्य रक्षसो दर्शनात् दर्शनपथात् । एष इति । प्रणश्यामि णश अदर्शने अन्तर्हितो भविष्यामीत्यर्थः । इत्युक्त्वेति । ब्रह्माणमिति शेषः ॥ ५०-५१ ॥
स तु वैवस्वतो देवैः सह ब्रह्मपुरोगमैः ।
जगाम त्रिदिवं हृष्टो नारदश्च महामुनिः ॥ ५२ ॥
वैवस्वतः ब्रह्मपुरोगमैर्देवैः हृष्टः अभूदिति शेषः ॥ ५२ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वाविंशः सर्गः ॥ २२ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्वाविंशः सर्गः ॥ २२ ॥