श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्विंशः सर्गः
दिग्जयार्थंगतेनरावणेन तन्त्रतत्ररमणीयतरतरुणीगणस्यबलादपहरणेन पुष्पकारोपणे साध्वीभिस्ताभिस्तंप्रति नारीहेतुकवधप्राप्तिकारकशापदानम् ॥ १ ॥ ततस्ताभिः सहैवलङ्कां -प्रविष्टेरावणे शूर्पणखया तंप्रति स्वरमणमारणरूपदोषाविष्करणेन सगर्हणंरोदनम् ॥ २ ॥ रावणेनतांप्रति तन्मारणस्यप्रामादिकत्वोक्त्यापरिसान्त्वनपूर्वकं दानमानादिभिस्तत्परितोषण -प्रतिज्ञानेन तदर्थं चतुर्दशसदस्रसंख्याकराक्षसैर्दूषणेन शूर्पणखयाचसह दण्डकारण्यंप्रति खरस्यप्रेषणम् ॥ ३ ॥
निवर्तमानः संहृष्टो रावणः सुदुरात्मवान् ।
जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ॥ १ ॥
दर्शनीयां हि रक्षः स कन्यां स्त्रीं वाऽथ पश्यति ।
हत्वा बन्धुजनं तस्या विमाने तां रुरोध ह ।। २ ।।
एवं पन्नगकन्याश्च राक्षसासुरमानुषीः ।
यक्षदानवकन्याश्च विमाने सोध्यरोपयत् ॥ ३ ॥
ताश्च सर्वा: समं दुःखान्मुमुचुर्बाष्पजं जलम् ।
तुल्यमभ्यर्चिषां तत्र शोकाग्निभयसंभवम् ॥ ४ ॥
रक्षः स इति संबन्धः । कन्या अनूढा । स्त्री सभर्तृका ॥ २-४ ॥
ताभिः सर्वानवद्याभिर्नदीभिरिव सागरः ।
आपूरितं विमानं तद्भयशोकाशिवाश्रुभिः ॥ ५ ॥
नागगन्धर्वकन्याश्च महर्षितनयाश्च याः ।
दैत्यदानवकन्याश्च विमाने शतशोऽरुदन् ॥ ६ ॥
दीर्घकेश्य: सुचार्वङ्ग्य: पूर्णचन्द्रनिभाननाः ।
पीनस्तन्यस्तथा वज्रवेदिमध्यसमप्रभाः ॥ ७ ॥
रथकूबरसंकाशैः श्रोणिदेशैर्मनोहराः ।
स्त्रियः सुराङ्गनाप्रख्या निष्टप्तकनकप्रभाः ।
शोकदुःखभयत्रस्ता विह्वलाश्च सुमध्यमाः ॥ ८ ॥
भयशोकाभ्यां अशिवमश्रु यासां ताभिः ॥ ५-८ ।।
तासां निश्वासवातेन सर्वतः संप्रदीपितम् ।
अग्निहोत्रमिवाभाति सन्निरुद्धाग्नि पुष्पकम् ॥ ९ ॥
दशग्रीववशं प्राप्तास्तास्तु शोकाकुलाः स्त्रियः ।
दीनवक्त्रेक्षणाः श्यामा मृग्यः सिंहवशा इव ।। १० ।।
काचिच्चिन्तयती तंत्र किं नु मां भक्षयिष्यति ।
काचिद्दध्यौ सुदुःखार्ता अपि मां मारयेदयम् ॥ ११ ॥
इति मातृपितृस्मृत्वा भर्तृन्भ्रातृंस्तथैव च ।
दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः ॥ १२ ॥
कथं नु खलु मे पुत्रो भविष्यति मया विना ।
कथं माता कथं भ्राता निमग्नाः शोकसागरे ॥ १३ ॥
हा कथं नु करिष्यामि भर्तुस्तस्मादहं विना ।
मृत्यो प्रसादयामि त्वां नय मां दुःखभागिनीम् ।। १४ ।।
किंतु तद्दुष्कृतं कर्म पुरा देहान्तरे कृतम् ।
एवं स्म दुःखिताः सर्वाः पतिताः शोकसागरे ॥ १५ ॥
न खल्विदानीं पश्यामो दुःखस्यास्यान्तमात्मनः ।
अहो धिङ्मानुषं लोकं नास्ति खल्वधमः परः ।। १६ ।।
यद्दुर्बला बलवता भर्तारो रावणेन नः ।
सूर्येणोदयता काले नक्षत्राणीव नाशिताः ॥ १७ ॥
अहो सुबलवद्रक्षो वधोपायेषु युज्यते ।
अहो दुर्वृत्तमास्थाय नात्मानं वै जुगुप्सते ॥ १८ ॥
सर्वथा सदृशस्तावद्विक्रमोस्य दुरात्मनः ।
इदं त्वसदृशं कर्म परदाराभिमर्शनम् ॥ १९ ॥
सन्निरुद्धा अग्नयो यस्मिंस्तादृशं अग्निहोत्रं अग्निकुण्डमिव पुष्पकं भाति ॥ ९-१९ ॥
यस्मादेष परक्यासु रमते राक्षसाधमः ।
तस्माद्वै स्त्रीकृतेनैव प्राप्स्यते दुर्मतिर्वधम् ॥ २० ॥
सतीभिर्वरनारीभिरेवं वाक्येऽभ्युदीरिते ।
दुर्दुन्दुभयः खस्थाः पुष्पवृष्टिः पपात च ॥ २१ ॥
शप्तः स्त्रीभिः स तु समं हतौजा इव निष्प्रभः ।
पतिव्रताभिः साध्वीभिर्बभूव विमना इव ॥ २२ ॥
एवं विलपितं तासां शृण्वन्राक्षसपुङ्गवः ।
प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ २३ ॥
एतस्मिन्नन्तरे घोरा राक्षसी कामरूपिणी ।
सहसा पतिता भूमौ भगिनी रावणस्वसा ॥ २४ ॥
तां स्वसारं समुत्थाप्य रावणः परिसान्त्वयन् ।
अब्रवीत्किमिदं भद्रे वक्तुकामाऽसि मे द्रुतम् ॥ २५॥
सा बाष्पपरिरुद्धाक्षी रक्ताक्षी वाक्यमब्रवीत् ।
कृतास्मि विधवा राजंस्त्वया बलवता बलात् ।। २६ ।।
एते राजंस्त्वया वीरा दैत्या विनिहता रणे ।
कालकेया इति ख्याताः सहस्राणि चतुर्दश ॥ २७ ॥
प्राणेभ्योपि गरीयान्मे तत्र भर्ता महाबलः ।
सोपि त्वया हतस्तात रिपुणा भ्रातृगृध्नुना ॥ २८ ॥
परक्यासु परकीयासु ॥ २०-२८ ॥
त्वयाऽस्मि निहता राजन्स्वयमेव हि बन्धुना ।
राजन्वैधव्यशब्दं च भोक्ष्यामि त्वत्कृते ह्यहम् ॥ २९ ॥
यतो मे भर्ता हतः अतएव साहं स्वयं स्वबन्धुनैव त्वया निहतास्मि ॥ २९ ॥
ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि ।
स त्वया निहतो युद्धे स्वयमेव न लज्जसे ॥ ३० ॥
एवमुक्तो दशग्रीवो भगिन्या क्रोशमानया ।
अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः ॥ ३१ ॥
अलं वत्से रुदित्वा ते न भेतव्यं च सर्वशः ।
दानमानग्रसादैस्त्वां तोषयिष्यामि यत्नतः ॥ ३२ ॥
युद्धप्रमत्तो व्याक्षिप्तो जयकाङ्क्षी क्षिपञ्छरान् ।
नावगच्छामि युद्धेषु स्वान्परान्वायहं शुभे ।। ३३ ।।
जामातरं न जाने स्म प्रहरन्युद्धदुर्मदः ।
तेनासौ निहतः संख्ये मया भर्ता तव स्वसः ॥ ३४ ॥
नन्विति पृथक् पदं । जामाता नाम समरेष्वपि रक्ष्यो ननु नेति काकु: । रक्ष्य एव किलेत्यर्थः ।। ३०-३४ ।।
अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् ।
भ्रातुरैश्वर्ययुक्तस्य खरस्य वस पार्श्वतः ॥ ३५ ॥
अस्मिन्काले तु यत्प्राप्तं मत्कर्तव्यत्वेनेति शेष: । मातृष्वसेयस्य खरस्य भ्रातृत्वात् भ्रातुरित्युच्यते । पार्श्वतो वनसमीपे वसेत्यर्थः । मम तु राज्यपरवशस्य न त्वत्संमानने अवकाश इति भावः ।। ३५ ।।
चतुर्दशानां भ्राता ते सहस्राणां भविष्यति ।
प्रभुः प्रयाणे दाने च राक्षसानां महाबलः ।। ३६ ।।
तत्र मातृष्वसेयस्ते भ्राताऽयं वै खरः प्रभुः ।
भविष्यति तवादेशं सदा कुर्वन्निशाचरः ॥ ३७ ॥
शीघ्रं गच्छत्वयं वीरो दण्डकान्परिरक्षितुम् ।
दूषणोस्य बलाध्यक्षो भविष्यति महाबलः ॥ ३८ ॥
[ स हि शप्तो वनोद्देशः क्रुद्धेनोशनसा पुरा ।
राक्षसानामधीवासो भविष्यति महात्मनाम् ] ॥ ३९ ॥
तत्र ते वचनं शूरः करिष्यति सदा खरः ।
रक्षसां कामरूपाणां प्रभुरेष भविष्यति ॥ ४० ॥
एवमुक्त्वा दशग्रीवः सैन्यमस्यादिदेश ह ।
चतुर्दश सहस्राणि रक्षसां वीर्यशालिनाम् ॥ ४१ ॥
स तैः परिवृतः सर्वै राक्षसैर्घोरदर्शनैः ।
अगच्छत खरः शीघ्रं दण्डकानकुतोभयः ॥ ४२ ॥
स तत्र कारयामास राज्यं निहतकण्टकम् ।
सा च सूर्पणखा तत्र न्यवसद्दण्डकावने ॥ ४३ ॥
चतुर्दशानां सहस्राणां प्रयाणे प्रेषणे दाने । अन्नपानवस्त्रादिदाने प्रभुस्ते भ्रातेत्यन्वयः । भविष्यतीति । तवादेशं त्वद्वचः सदा कुर्वन्भविष्यति ॥ ३६-४३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्विंशः सर्गः ॥ २४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुर्विंशः सर्गः ॥ २४ ॥