श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चविंशः सर्गः
दिग्विजयानन्तंरलङ्कामाविशतारावणेन प्रथमंनिकुंभिलाप्रवेशः ॥ १ ॥ तत्रयज्ञदीक्षित -मिन्द्रजितंप्रति यज्ञफलप्रश्नः ॥ २ ॥ याजकेनशुक्रेण तंप्रतितस्यमौनित्वोक्त्त्या यज्ञफलनिवेदनम् ॥ ३ ॥ रावणेनेन्द्रजितंप्रति शत्रुभूतेन्द्राद्याराधनस्यानौचित्योक्त्या तन्निवर्तनपूर्वकं तेनसहस्त्व -भवनमेत्य पुष्पकात्स्त्वापहृतपरतरुणीगणावतारणम् ॥ ४ ॥ तदसहिष्णुनाविभीषणेनतंप्रति निजभगिन्या: कुंभीनस्याः मधुनामकदैत्यकृतापहरणनिवेदनपूर्वकं तस्यपराङ्गनाहरणरूप -दुष्कर्मफलस्वकथनम् ॥ ५ ॥ रावणेनमधुवधपूर्वकसुरलोकजयप्रतिज्ञानेन कुंभकर्णादिभिः सहमधुपुरंप्रतिगमनं ॥ ६ ॥ तथाकुंभीनसीप्रार्थनया मधुवधान्निवृत्य तेनापिसहकैलासगमनम् ॥ ७ ॥
स तु दत्त्वा दशग्रीवो वनं घोरं खरस्य तत् ।
भगिनीं च समाश्वास्य हृष्टः स्वस्थतरोऽभवत् ॥ १ ॥
ततो निम्भिला नाम लङ्कोपवनमुत्तमम् ।
तद्राक्षसेन्द्रो बलवान्प्रविवेश सहानुगः ॥ २ ॥
निकुम्भिला नाम लङ्कायाः पश्चिमद्वारवर्तिं काननं ।। २ ।।
ततो यूपशताकीर्णं सौम्यचैत्योपशोभितम् ।
ददर्श विष्ठितं यज्ञं श्रिया संप्रज्वलन्निव ॥ ३ ॥
चैत्यं देवायतनं । विष्ठितं प्रवृत्तं ।। ३ ।।
ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् ।
ददर्श स्वसुतं तत्र मेघनादं भयावहम् ॥ ४ ॥
तं समासाद्य लङ्केश: परिष्वज्याथ बाहुभिः ।
अब्रवीत्किमिदं वत्स वर्तसे ब्रूहि तत्वतः ॥ ५ ॥
कमण्डलुः शिखा दण्डो ध्वजश्च यस्य स तथा । अनेन ब्रह्मचर्यं सूचितं । न तु ब्रह्मचर्याश्रमः । अग्निष्टोमादियाजित्वं ध्यात्वोपदेशात् ।। ४-५ ।।
उशना त्वब्रवीत्तत्र यज्ञसंपत्समृद्धये ।
रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः ॥ ६ ॥
उशना गुरुः शुक्राचार्यः । प्रवर्तकत्वात् स्वयमब्रवीदिति भावः ॥ ६ ॥
अहमाख्यामि ते राजञ्छ्रूयतां सर्वमेव तत् ।
यज्ञास्ते सप्त पुत्रेण प्राप्ताः सुबहुविस्तराः ॥ ७ ॥
अग्निष्टोमोश्वमेधश्च यज्ञो बहुसुवर्णकः ।
राजसूयस्तथा यज्ञो गोमेधो वैष्णवस्तथा ॥ ८ ॥
माहेश्वरे प्रवृत्ते तु यज्ञे पुंभिः सुदुर्लभे ।
वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह ॥ ९ ॥
कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् ।
मायां च तामसीं नाम यया संपद्यते तमः ॥ १० ॥
एतया किल संग्रामे मायया राक्षसेश्वर ।
प्रयुक्तया गतिः शक्या न हि ज्ञातुं सुरासुरैः ॥ ११ ॥
अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम् ।
अस्त्रं च बलवद्राजञ्शत्रुविध्वंसनं रणे ॥ १२ ॥
एतान्सर्वान्वराँल्लब्ध्वा पुत्रस्तेऽयं दशानन ।
अद्य यज्ञसमाप्तौ च त्वां दिदृक्षुः स्थितो ह्यहम् ।। १३ ।।
ततोऽब्रवीद्दशग्रीवो न शोभनमिदं कृतम् ।
पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः ॥ १४ ॥
एहीदानीं कृतं विद्धि सुकृतं तन्त्र संशयः ।
आगच्छ सौम्य गच्छाम स्वमेव भवनं प्रति ॥ १५ ॥
ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः ।
स्त्रियोवतारयामास सर्वास्ता बाष्पगद्गदाः ॥ १६ ॥
लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम् ।
[ नार्यो भूषणसंपन्ना ज्वलन्त्यः स्वेन तेजसा ॥ १७ ॥
विभीषणस्तु ता नारीर्दृष्ट्वा शोकपरायणाः ।]
तस्य तासु मतिं ज्ञात्वा धर्मात्मा वाक्यमब्रवीत् ।। १८ ।।
यज्ञाः प्रसिद्धाः ॥ ७-१८ ।।
ईदृशैस्त्वं समाचारैर्यशोर्यकुलनाशनैः ।
धर्षणं ज्ञातिनां ज्ञात्वा स्वमतेन विचेष्टसे ।। १९ ।।
स्वमतेन स्वेच्छया । उल्लङ्घितशास्त्रमर्यादयेत्यर्थः ॥ १९ ॥
ज्ञातींस्तान्धर्षयित्वेमास्त्वयाऽऽनीता वराङ्गनाः ।
त्वामतिक्रम्य मधुना राजकुम्भीनसी हुता ॥ २० ॥
रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किंन्विदम् ।
कोयं यस्तु त्वयाख्यातो मधुरित्येव नामतः ॥ २१ ॥
विभीषणस्तु संक्रुद्धो भ्रातरं वाक्यमब्रवीत् ।
श्रूयतामस्य पापस्य कर्मणः फलमागतम् ॥ २२ ॥
मातामहस्य यो भ्राता ज्येष्ठो भ्राता सुमालिनः ।
माल्यवानिति विख्यातो वृद्धः प्राज्ञो निशाचरः ।। २३ ।।
ज्ञातीन् आनीतस्त्रीबन्धून् । अस्य कर्मणः परदारापहरणरूपपापस्य । फलमागतं स्वीयस्वसुर्बलान्मधुना हरणं ।। २०-२३ ॥
पिता ज्येष्ठो जनन्या नो ह्यस्माकं चार्यकोऽभवत् ।
तस्य कुम्भीनसी नाम दुहितुर्दुहिताऽभवत् ।। २४ ।।
मातृष्वसुरथास्माकं सा च कन्याऽनलोद्भवा ।
भवत्यस्माकमेवैषा भ्रातॄणां धर्मतः स्वसा ॥ २५ ॥
अस्माकं जनन्याः सुमालिसुताया: कैकस्या: ज्येष्ठा भगिनी काचिदस्ति । सा तु नाम्ना पुष्पोत्कचा । अपरा कुम्भीनसीति पूर्वमुक्ता । अस्माकं त्वार्यको माल्यवान् अस्माकं ज्येष्ठमातामहः । अस्माकं जनन्याश्च ज्येष्ठ: पिता । तस्य माल्यवतः कुम्भीनसी नाम दुहितास्ति । अनलोद्भवा अनला माल्यवतः सुता तस्याः कन्या कुम्भीनसीत्यर्थ: । अस्मन्मातामहस्य सुमालिन: द्वे पुत्र्यौ प्रसिद्धे । पुष्पोत्कचा कैकसी चेति । तयोर्ज्येष्ठः पिता माल्यवान् । तस्य पुत्री अनला । तस्याः कन्या कुम्भीनसी । सा अस्माकं स्वसा । ज्येष्ठमातामहपुत्र्याः पुत्रीत्वात् । अतएव धर्मतः स्वसेत्युक्ता ।। २४-२५ ॥
सा हृता मधुना राजन्राक्षसेन बलीयसा ।
यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते ॥ २६ ॥
यज्ञप्रमत्तः यज्ञेन प्रमत्तः । विस्मृतस्वगृहकृत्य इत्यर्थः । अन्तर्जलोषित इति तपोर्थमिति शेषः ॥ २६ ॥
कुम्भकर्णे महाराज निद्रामनुभवत्यथ ।
निहत्य राक्षसश्रेष्ठानमात्यानिह संमतान् ॥ २७ ॥
इह गृहे । वर्तमानानिति शेष: । संमतान् सिद्धान् ।। २७ ॥
धर्षयित्वा हृता सा तु सुप्ताऽप्यन्तः पुरे तव ।
श्रुत्वाऽपि तन्महाराज क्षान्तमेव हतो न सः ॥ २८ ॥
श्रुत्वा चैवं मधुना स्वसृहरणं मत्वा अस्माकं क्षान्तमेव न तु मधुर्हतः ॥ २८ ॥
यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातुभिः ।
तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मते ।
अस्मिन्नेवाभिसंप्राप्तं लोके विदितमस्तु ते ॥ २९ ॥
विभीषणवचः श्रुत्वा राक्षसेन्द्रः स रावणः ।
दौरात्म्येनात्मनोद्धूतस्तप्ताम्भा इव सागरः ॥ ३० ॥
ततोऽब्रवीद्दशग्रीवः क्रुद्धः संरक्तलोचनः ।
कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु नः ।। ३१ ।।
भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः ।
वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः ।। ३२ ।।
भ्रातृभिः अस्माभिरित्यर्थः । तदिति । आहूय कल्याणपूर्वकं कन्यादानं विना बलात् कन्याग्रहणं अस्य पापस्य कर्मण: फलं । अस्मिन्नेव दृष्टान्ते अभिसंप्राप्तं अतः परमन्यत्रापि लोके विदितमस्तु ।। २९-३२ ।।
अद्य तं समरे हत्वा मधु रावणनिर्भयम् ।
सुरलोकं गमिष्यामि युद्धाकाङ्क्षी सुहृद्वृतः ॥ ३३ ॥
[ ततो विजित्य त्रिदिवं वशे स्थाप्य पुरंदरम् ।
निर्भयो विचरिष्यामि त्रैलोक्यैश्वर्यशोभितः ॥ ३४ ॥]
अक्षौहिणीसहस्राणि चत्वार्यग्र्याणि रक्षसाम् ।
नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् ॥ ३५ ॥
इन्द्रजित्त्वग्रजित्सैन्यात्सैनिकान्परिगृह्य च ।
जगाम रावणो मध्ये कुम्भकर्णश्च पृष्ठतः ॥ ३६ ॥
विभीषणश्च धर्मात्मा लङ्कायां धर्ममाचरत् ।
शेषाः सर्वे महाभागा ययुर्मधुपुरं प्रति ॥ ३७ ॥
खरैरुष्टैर्हयैर्दीप्तै: शिंशुमारैर्महोरगैः ।
राक्षसाः प्रययुः सर्वे कृत्वाऽऽकाशं निरन्तरम् ॥ ३८ ॥
दैत्याश्च शतशस्तत्र कृतवैराश्च दैवतैः ।
रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्हि पृष्ठतः ॥ ३९ ॥
स तु गत्वा मधुपुरं प्रविश्य च दशाननः ।
न ददर्श मधु तत्र भगिनीं तत्र दृष्टवान् ॥ ४० ॥
सा च प्रह्वाञ्जलिर्भूत्वा शिरसा चरणौ गता ।
तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी तदा ॥ ४१ ॥
रावणान्निर्भयो रावणनिर्भयः ।। ३३-४१ ।।
तां समुत्थापयामास न भेतव्यमिति ब्रुवन् ।
रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते ॥ ४२ ॥
साऽब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाभुज ।
भर्तारं न ममेहाद्य हन्तुमर्हसि मानद ॥ ४३ ॥
अन्यदपि तव प्रियमित्यर्थः ।। ४२-४३ ।।
न हीदृशं भयं किंचित्कुलस्त्रीणामिहोच्यते ।
भयानामपि सर्वेषां वैधव्यं व्यसनं महत् ॥ ४४ ॥
ईदृशं भयं भर्तृवधसंभवं भयमित्यर्थः ।। ४४ ।।
सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् ।
त्वयाऽप्युक्तं महाराज न भेतव्यमिति स्वयम् ॥ ४५ ॥
रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् ।
क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् ।। ४६ ।।
सह तेन गमिष्यामि सुरलोकं जयावहे ।
तव कारुण्यसौहार्दान्निवृत्तोस्मि मधोर्वधात् ॥ ४७ ॥
इत्युक्ता सा समुत्थाप्य प्रसुप्तं तं निशाचरम् ।
अब्रवीत्संग्रहृष्टेव राक्षसी सा पतिं वचः ॥ ४८ ॥
एष प्राप्तो दशग्रीवो मम भ्राता महाबलः ।
सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च ॥ ४९ ॥
तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस ।
स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितम् ॥ ५० ॥
तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ॥ ५१ ॥
सत्यवाग् भवेति । न भेतव्यमिति वचनं सत्यं कुर्वित्यर्थः ॥ ४५-५१ ॥
ददर्श राक्षसश्रेष्ठं यथान्याय्यमुपेत्य सः ।
पूजयामास धर्मेण रावणं राक्षसाधिपम् ॥ ५२ ॥
प्राप्य पूजां दशग्रीवो मधुवेश्मनि वीर्यवान् ।
तत्र चैकां निशामुष्य गमनायोपचक्रमे ॥ ५३ ॥
ततः कैलासमासाद्य शैलं वैश्रवणालयम् ।
राक्षसेन्द्रो महेन्द्राभ: सेनामुपनिवेशयत् ॥ ५४ ।।
यथान्याय्यमिति अर्घ्याद्युपचारमित्यर्थः ।। ५२-५४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चविंशः सर्गः ॥ २५ ॥