श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टाविंशः सर्गः
इन्द्रजिद्बाणाभिघातनिर्विण्णेजयन्ते तन्मातामहेनपुलोम्ना तस्यरणाङ्गणादपवाहन -पूर्वकं तेनसहसागरप्रवेशः ॥ १ पुत्रादर्शनरुष्टेनेन्द्रेण रणायेन्द्रजितंप्रत्यभियाने रावणेनेन्द्रजित्प्रति -निवर्तनेन स्वयमेवेन्द्रप्रत्यभियानम् ॥ २ ॥
सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् ।
स्वसैन्यं विद्रुतं चापि लक्षयित्वाऽर्दितं सुरैः ॥ १ ॥
ततः स बलवान्क्रुद्ध रावणस्य सुतस्तदा ।
निवर्त्य राक्षसान्सर्वान्मेघनादो व्यवस्थितः ॥ २ ॥
सुरथेनाग्निवर्णेन कामगेन महारथः ।
अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ॥ ३ ॥
ततः प्रविशतस्तस्य विविधायुधधारिणः ।
विदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः ॥ ४ ॥
तां सेनां देवसेनां ॥ ३-४ ॥
न बभूव तदा कश्चिद्युयुत्सोरस्य संमुखे ।
सर्वानाविध्य वित्रस्तांस्ततः शक्रोऽब्रवीत्सुरान् ॥ ५ ॥
न भेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः ।
एष गच्छति पुत्रो मे युद्धार्थमपराजितः ॥ ६ ॥
ततः शक्रसुतो देवो जयन्त इति विश्रुतः ।
रथेनाद्भुतकल्पेन संग्रामे सोभ्यवर्तत ॥ ७ ॥
ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् ।
रावणस्य सुतं युद्धे समासाद्य प्रजघ्निरे ॥ ८ ॥
आविध्य आवेधं प्राप्य वित्रस्तान् ॥ ५-८ ॥
तेषां युद्धं समभवत्सदृशं देवरक्षसाम् ।
महेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ॥ ९ ॥
तेषां सदृशं बलवीर्यानुरूपमित्यर्थः ॥ ९ ॥
ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः ।
सारथौ पातयामास शरान्कनकभूषणान् ॥ १० ॥
शचीसुतश्चापि तथा जयन्तस्तस्य सारथिम् ।
तं चापि रावणिः क्रुद्धः समन्तास्प्रत्यविध्यत ॥ ११ ॥
स हि क्रोधसमाविष्टो बली विस्फारितेक्षणः ।
रावणिः शक्रतनयं शरवर्षैरवाकिरत् ॥ १२ ॥
ततो नानाप्रहरणांश्छितधारान्त्सहस्रशः ।
पातयामास संक्रुद्धः सुरसैन्येषु रावणिः ॥ १३ ॥
शतघ्नीमुसलप्रासगदाखड्गपरश्वधान् ।
महान्ति गिरिशृङ्गाणि पातयामास रावणिः ॥ १४ ॥
गोमुख इति मातलिसुतनाम ।। १०-१४
ततः प्रव्यथिता लोकाः संजज्ञे च तमो महत् ।
तस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः ॥ १५ ॥
ततस्तद्दैवतबलं समन्तात्तं शचीसुतम् ।
बहुप्रकारमस्वस्थमभवच्छरपीडितम् ॥ १६ ॥
तमः संजज्ञे रावणपुत्रस्य माययेति । शेषः ।। १५-१६ ।।
नाभ्यजानन्त चान्योन्यं रक्षो वा देवताऽथवा ।
तत्र तत्र विपर्यस्तं समन्तात्परिधावति ॥ १७ ॥
देवा देवान्निजघ्नुस्ते राक्षसा राक्षसांस्तथा ।
संमूढास्तमसाच्छन्ना व्यद्रवन्नपरे तदा ॥ १८ ॥
विपर्यस्तं विशीर्णं ॥ १७-१८ ॥
एतस्मिन्नन्तरे वीर: पुलोमा नाम वीर्यवान् ।
दैत्येन्द्रस्तेन संगृह्य शचीपुत्रोपवाहितः ॥ १९ ॥
पुलोमा नामास्तीति शेषः । तेन पुलोम्ना ॥ १९ ॥
संगृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा ।
आर्यकः स हि तस्यासीत्पुलोमा येन सा शची ।। २० ।।
येन सा शचीउत्पादितेति शेषः । तस्मात् शची पौलोमीति नामवती जातेत्यर्थः ।। २० ।।
ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः ।
अप्रहृष्टास्ततः सर्वा व्यथिताः संप्रदुद्रुवुः ॥ २१ ॥
रावणिस्त्वथ संक्रुद्धो बलैः परिवृतः स्वकैः ।
अभ्यधावत देवांस्तान्मुमोच च महास्वनम् ॥ २२ ॥
दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम् ।
मातलिं चाह देवेशो रथः समुपनीयताम् ॥ २३ ॥
स तु दिव्यो महाभीमः सज्ज एव महारथः ।
उपस्थितो मातलिना वाह्यमानो महाजवः ॥ २४ ॥
प्रणाशं अदर्शनं । व्यथिताः अतएवाप्रहृष्टाः ॥ २१-२४ ॥
ततो मेघा रथे तस्मिंस्तडिद्वन्तो महाबलाः ।
अग्रतो वायुचपला नेदुः परमनिस्वनाः ॥ २५ ।।
नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः ।
ननृतुश्वाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ॥ २६ ॥
रुद्रैर्वसुभिरादित्यैः साध्यैश्च समरुद्गणैः ।
वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ॥ २७ ॥
निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ ।
भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे ॥ २८ ॥
एतस्मिन्नन्तरे वीरो दशग्रीवः प्रतापवान् ।
आरुरोह रथं दिव्यं निर्मित विश्वकर्मणा ॥ २९ ॥
पन्नगैस्तु महाभोगैर्वेष्टितं रोमहर्षणैः ।
तेषां निश्वासवातेन प्रदीप्तमिव संयुगे ॥ ३० ॥
दैत्यैर्निशाचरैश्चैव सरथः परिवारितः ।
समराभिमुखो दैत्यो महेन्द्रं सोभ्यवर्तत ॥ ३१ ॥
पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः ।
सोपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् ॥ ३२ ॥
ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह ।
शस्त्राणि वर्षतां घोरं मेघानामिव संयुगे ॥ ३३ ॥
वायुचपलाः वायुचलिताः ॥ २५-३३ ।।
कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः ।
नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत ॥ ३४ ॥
नानाप्रहरणोद्यतः उद्यतनानाप्रहरणः । नाज्ञायत अयं मया योद्धव्य इत्येको लक्ष्यत्वेन न ज्ञायते । अपि तु केनापि अयुध्यत । येन केनापि प्राप्तेन सर्वेणाप्ययुध्यतेत्यर्थः ॥ ३४ ॥
दन्तैर्भुजाभ्यां पद्भ्यां च शक्तितोमरसायकैः ।
येन केनैव संरब्धस्ताडयामास वै सुरान् ॥ ३५ ॥
ततो रुद्रैर्महाघोरै: संगम्याथ निशाचरः ।
प्रयुद्धस्तैश्च संग्रामे क्षतः शस्खैर्निरन्तरम् ॥ ३६ ॥
बभौ शस्त्राचिततनुः कुम्भकर्णः क्षरन्नसृक् ।
विद्युत्स्तनितनिर्घोषो धारावानिव तोयदः ॥ ३७ ॥
ततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः ।
रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः ॥ ३८ ॥
केचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले ।
वाहनेष्ववसक्ताशश्च स्थिता एवापरे रणे ॥ ३९ ॥
प्रयुद्धः प्रकृष्टयुद्धः ॥ ३६-३९ ।।
रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरमान्रणे ।
शिंशुमारान्वराहांश्च पिशाचवदनांस्तथा ॥ ४० ॥
तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रिताः ।
देवैस्तु शस्त्रसंभिन्ना मम्रिरे च निशाचरा: ।। ४१ ।।
रथानित्यादिश्लोकद्वयमेकं वाक्यं ॥ विष्टब्धाः अवलम्ब्य स्थिताः । केचिदुच्छ्रिताश्च केवलं स्थिताश्च ।। ४०-४१ ॥
चित्रकर्म इवाभाति स तेषां रणसंप्लवः ।
निहतानां प्रमत्तानां राक्षसानां महीतले ॥ ४२ ॥
शोणितोदकनिष्पन्द कङ्कगृध्रसमाकुला ।
प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ॥ ४३ ॥
एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् ।
निरीक्ष्य तद्बलं कृत्स्नं दैवतैर्विनिपातितम् ॥ ४४ ॥
स तं प्रतिविगाह्याशु प्रवृद्धं सैन्यसागरम् ।
त्रिदशान्समरे निघ्नञ्शक्रमेवाभ्यवर्तत ॥ ४५ ॥
आगाच्छक्रो महच्चापं विस्फार्य सुमहास्वनम् ।
यस्य विस्फारघोषेण स्वनन्ति स दिशो दश ॥ ४६ ॥
तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि ।
निपातयामास शरान्पावकादित्यवर्चसः ॥ ४७ ॥
तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः ।
शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ॥ ४८ ॥
चित्रकर्म इवेति वाक्ये सन्धिरनित्यः । रणसंघर्षः रणसंमर्दः । चित्रकर्मेवाश्चर्यकर आभातीत्यर्थः ॥ ४२-४८ ।।
प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः ।
न ज्ञायते तदा किंचित्सर्वं हि तमसा वृतम् ॥ ४९ ॥
तमसावृतं उभयशरवर्षसर्वदिक्छादनकृतेनेति शेषः ॥ ४९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टाविंशः सर्गः ॥ २८ ॥