श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनत्रिंशःसर्गः
ससैन्येनेन्द्रेण रावणेसमाक्रान्ते इन्द्रजिताकोपादिन्द्रेणसहयोधनम् ॥ १ ॥ तथा माययेन्द्रस्यबन्धनेन स्वसेनामध्यप्रापणम् ॥ २ ॥ रावणेनेन्द्रजितंप्रति इन्द्रस्यरथारोपणेनलङ्का -प्रापणचोदनपूर्वकं पश्चाल्लकांप्रतिगमनम् ॥ ३ ॥
ततस्तमसि संजाते सर्वे ते देवराक्षसाः ।
अयुध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ॥ १ ॥
ततस्तु देवसैन्येन राक्षसानां बृहद्बलम् ।
दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ॥ २ ॥
तस्मिंस्तु तामसे युद्धे सर्वे ते देवराक्षसाः ।
अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ॥ ३ ॥
इन्द्रश्च रावणश्चैव रावणिश्च महाबलः ।
तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ॥ ४ ॥
स तु दृष्ट्वा बलं सर्वं निहतं रावणः क्षणात् ।
क्रोधमभ्यागमत्तीव्रं महानादं च मुक्तवान् ॥ ५ ॥
क्रोधात्सूतं च दुर्धर्षः सन्दनस्थमुवाच ह ।
परसैन्यस्य मध्येन यावदन्तो नयस्व माम् ॥ ६ ॥
अद्यैतांस्त्रिदशान्सर्वान्विक्रमैः समरे स्वयम् ।
नानाशस्त्रैर्महाघोरैर्नयामि यमसादनम् ॥ ७ ॥
यावदन्त इति । परसैन्यस्यान्तो यावत् तावन्मध्येन मां नयस्व ॥ ६-७ ॥
अहमिन्द्रं वधिष्यामि धनदं वरुणं यमम् ।
त्रिदशान्विनिहत्याथ स्वयं स्थास्याम्यथोपरि ।
विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् ॥ ८ ॥
अथोपरि सर्वेषामुपरिष्टादित्यर्थः ॥ ८ ॥
द्विः खलु त्वां ब्रवीम्यद्य यावदन्तो नयस्व माम् ॥ ९ ॥
देवसेनामध्ये प्रवेशे किं भविष्यतीति विषण्णं सारथिं पुनश्चाह-द्विः खल्वित्यादि ।। यावदन्तो नयस्व मामिति द्विः द्विवारं त्वां ब्रवीमि खलु । तत्कथं न नयसीत्यर्थः ॥ ९ ॥
अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् ।
नय मामद्य तत्र त्वमुदयो यत्र पर्वतः ॥ १० ॥
तस्य तद्वचनं श्रुत्वा तुरङ्गान्त्स मनोजवान् ।
आदिदेशाथ शत्रूणां मध्येनैव च सारथिः ॥ ११ ॥
तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा ।
रथस्थः समरस्थांस्तान्देवान्वाक्यमथाब्रवीत् ॥ १२ ॥
सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते ।
जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ॥ १३ ॥
एष ह्यतिबलः सैन्ये रथेन पवनौजसा ।
गमिष्यति प्रवृद्धोर्मि: समुद्र इव पर्वणि ॥ १४ ॥
न ह्येष हन्तुं शक्योऽद्य वरदानात्सुनिर्भयः ।
तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ॥ १५ ॥
अपरिमितदेवसेनायाः क आदिः कोन्त इत्यत्राह-अयमिति ॥ वयं यत्र वर्तामहे स नन्दनोद्देशः । एष आदिः । एनमारभ्य उदयपर्वतो यत्र तत्र मामद्य नय । सोन्तो देवसेनायाः ॥ १०-१५ ॥
यथा बलौ निरुद्धे च त्रैलोक्यं भुज्यते मया ।
एवमेतस्य पापस्य निरोधो मम रोचते ॥ १६ ॥
बलौ महाबलौ । निरुद्धे अहत्वैव कृतविरोधे सति । एवमेतस्य निरोधोपीत्यब्रवीदिति पूर्वेणान्वयः ॥ १६ ॥
ततोऽन्यं देशमास्थाय शक्रः संत्यज्य रावणम् ।
अयुध्यत महाराज राक्षसांस्त्रासयन्रणे ॥ १७ ॥
ततोन्यमिति रावणावस्थितदेशादित्यर्थः । रावणं संत्यज्येति । वज्रादिना प्रहर्तुमशक्यत्वात् पुरस्थितिर्निष्प्रयोजनेति मत्वेति शेषः ॥ १७ ॥
उत्तरेण दशग्रीवः प्रविवेशानिवर्तकः ।
दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ॥ १८ ॥
ततः स योजनशतं प्रविष्टो राक्षसाधिपः ।
देवतानां बलं सर्वं शरवर्षैरवाकिरत् ।। १९ ।।
उत्तरेणेति देवसेनामिति शेषः ॥ १८-१९ ।।
ततः शक्रो निरीक्ष्याथ प्रनष्टं तु स्वकं बलम् ।
न्यवर्तयदसंभ्रान्त समावृत्य दशाननम् ॥ २० ॥
एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः ।
हा हताः स्म इति ग्रस्तं दृष्ट्वा शक्रेण रावणम् ॥ २१ ॥
न्यवर्तयत् स्वसेनया दशाननं समावृत्य न्यवर्तयत् ।। २०-२१ ॥
ततो रथं समास्थाय रावणिः क्रोधमूर्च्छितः ।
तत्सैन्यमतिसंक्रुद्धः प्रविवेश सुदारुणम् ॥ २२ ॥
तत्सैन्यं देवसैन्यं ॥ २२ ॥
तां प्रविश्य महामायां प्राप्तां गोपतिना पुरा ।
प्रविवेश सुसंरब्धस्तत्सैन्यं समभिद्रवत् ॥ २३ ॥
स सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत ।
महेन्द्रश्च महातेजा नापश्यच्च सुतं रिपोः ॥ २४ ॥
विमुक्तकवचस्तत्र वध्यमानो हि रावणिः ।
त्रिदशैः सुमहावीरैर्न चकार च किंचन ॥ २५ ॥
समातलिं समायान्तं ताडयित्वा शरोत्तमैः ।
महेन्द्रं बाणवर्षेण भूय एवाभ्यवाकिरत् ॥ २६ ॥
ततस्त्यक्त्वा रथं शक्रो विससर्ज च सारथिम् ।
ऐरावतं समारुह्य मृगयामास रावणिम् ॥ २७ ॥
स तत्र मायाबलवानदृश्योथान्तरिक्षगः ।
इन्द्रं मायापरिक्षितं कृत्वा स प्राद्रवच्छरैः ॥ २८ ॥
गोपतिना रुद्रेण ॥ २३-२८ ॥
स तं यदा परिश्रान्तमिदं जज्ञेऽथ रावणिः ।
तदैनं मायया बध्वा स्वसैन्यमभितोनयत् ॥ २९ ॥
तं तु दृष्ट्वा बलात्तेन नीयमानं महारणात् ।
महेन्द्रममरा: सर्वे किंनु सादित्यचिन्तयन् ॥ ३० ॥
स्वसैन्यमभितः स्वसेनायाः पार्श्वं ॥ २९-३० ॥
दृश्यते न स मायावी शक्रजित्समितिंजयः ।
विद्यावानपि येनेन्द्रो मायया नीयते बलात् ।। ३१ ।।
एतस्मिन्नन्तरे क्रुद्धाः सर्वे सुरगणास्तदा ।
रावणं विमुखीकृत्य शरवर्षैरवाकिरन् ॥ ३२ ॥
रावणस्तु समासाद्य आदित्यांश्च वसूंस्तथा ।
न शशाक स संग्रामे योद्धुं शत्रुभिरर्दितः ॥ ३३ ॥
विद्यावानपि असुरमायासंहार्यपि येनानेन रावणिना मायया नीयते । एतत्किंन्विति चुक्रशुः ।। ३१-३३ ॥
स तं दृष्ट्वा परिम्लानं प्रहारैर्जर्जरीकृतम् ।
रावणिः पितरं युद्धेऽदर्शनस्थोऽब्रवीदिदम् ॥ ३४ ॥
युद्धे अदर्शनस्थोब्रवीदिति । सति दर्शने महेन्द्र एव नाशयेदिति भावः ॥ ३४ ॥
आगच्छ तात गच्छामो रणकर्म निवर्तताम् ।
जितं नो विदितं तेऽस्तु स्वस्थो भव गतज्वरः ।। ३५ ।।
अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः ।
स गृहीतो दैवबलाद्भग्नदर्पाः सुराः कृताः ॥ ३६ ॥
यथेष्टं भुङ्क्ष्व लोकांस्त्रीन्निगृह्यारातिमोजसा ।
वृथा किं ते श्रमेणेह युद्धमद्य तु निष्फलम् ॥ ३७ ।।
ततस्ते दैवतगणा निवृत्ता रणकर्मणः ।
तच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेता बभूव ह ॥ ३८ ॥
निवर्ततां निवृत्तमस्तु समाप्तमस्तु । कथं निवृत्तिरित्यत्राह-जितमिति । भावे निष्ठा ।। ३५ ।। दैवबलात् देवसेनायाः ।। ३६-३८ ।।
अथ रणविगतज्वरः प्रभुर्विजयमवाप्य निशाचराधिपः ॥
स्वभवनमभितो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत् ॥ ३९ ॥
अतिबलसदृशैः पराक्रमैस्तैर्मम कुलमानविवर्धनं कृतम् ।
यदयमतुल्यबलस्त्वयाऽद्य वै त्रिदशपतिस्त्रिदशाश्च निर्जिताः ॥ ४० ॥
रणविगतज्वरः विगतरणज्वर इत्यर्थः ॥ ३९-४० ॥
नय रथमधिरोप्य वासवं नगरमितो व्रज सेनया वृतस्त्वम् ।
अहमपि तवै गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः ॥ ४१ ॥
त्वरितमुपनयस्वेति पाठे निर्जिता इति पूर्वेणान्वयः ॥ ४१ ॥
अथ स बलवृतः सवाहनस्त्रिदशपतिं परिगृह्य रावणिः ।
स्वभवनभिगम्य वीर्यवान्कृतसमरान्विससर्ज राक्षसान् ॥ ४२ ॥
[ तान्विसृज्य तदा रक्षो महेन्द्रं पाकशासनम् ।
बबन्ध नगरद्वारि मध्ये क्रीडननिर्वृतः ॥ ४३ ॥
राक्षसान्विससर्जेति स्वं स्वं निवेशं प्रतीति शेषः ॥ ४२-४३ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनत्रिंशःसर्गः ॥ २९ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥ २९ ॥