श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्त्रिंशः सर्गः
ब्रह्मणा वायुसान्त्वनपूर्वकंनिजकरपरामर्शनेनहनुमदुज्जीवने तुष्टेनवायुना यथापुरंसर्व प्राणिसंचरणम् ॥ १ ॥ ब्रह्मणा रुद्रेन्द्रादिभिर्हनुमतेवरदापनपूर्वकं स्वयमपितस्मैवरदानेन स्वलोकगमनम् ॥ २ ॥ वरदृप्तेनहनुमतापीडितैर्महर्षिभिस्तंप्रति केनापिनिजबलस्मारणावधि दीर्घकालं स्वबलापरिज्ञानप्रकारकशापडानम् ॥ ३ ॥ एवमगस्त्येन रामंप्रति हनुमतऋषिशापमूलकस्वबलाज्ञानस्य वाल्यमारणकारणस्वोक्तिपूर्वकं श्रीरामाभ्यनुज्ञानेन -मुनिगणैःसह स्वाश्रमगमनम् ॥ ४ ॥
ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दित: ।
शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः ॥ १ ॥
चलत्कुण्डलमौलिस्रक्तपनीयविभूषणः ।
पादयोर्न्यपतद्वायुस्तिस्रोपस्थाय बेधसे ॥ २ ॥
[ त्रिगुणाय त्रिवेदाय त्रियुगाय त्रिशक्तये ।
त्रिकालाय त्रिधाम्ने ते त्रिलोकपतये नमः ॥ ३ ॥
इति नत्वा ततो वायुर्ब्रह्मणेऽनन्तशक्तये ।
शिशुकं तं समादाय उपतस्थे पितामहम् ॥ ४ ॥ ]
तिस्रोपस्थाय त्रिरुपस्थाय । लुगप्यार्षः। त्रिरुपस्थायेति च पाठः । न्यपतदिति । उपस्थानपूर्वकं त्रिः साष्टाङ्गमनमदित्यर्थः ॥ २-४ ।।
तं तु वेदविदा तेन लम्बाभरणशोभिना ।
वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् ॥ ५ ॥
स्पृष्टमात्रस्ततः सोथ सलीलं पद्मयोनिना ।
जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् ।। ६ ।।
हनुमज्जीवनार्थ अङ्गुल्यग्रविन्यस्तवेदपदेन वेदविदा विदितनिखिलवेदवेदान्तेन ब्रह्मणा लम्बाभरणशोभिना हस्तेन तं शिशुं च परिमृष्टवान् ॥ ५-६ ॥
प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा ।
चचार सर्वभूतेषु सन्निरुद्धं यथा पुरा ॥ ७ ॥
सर्वभूतेषु सन्निरुद्धं अन्त: प्रतिष्ठितं यथा भवति तथा प्राणः प्राणभूतश्चचार ।। ७ ।।
मरुद्रोधादिनिर्मुक्तास्ताः प्रजा मुदिता भवन् ।
शीतवातविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः ॥ ८ ॥
शीतदाहो हिमेन दाहः । शीतवात – विनिर्मुक्ता इति च पाठः ॥ ८ ॥
ततस्त्रियुग्मः स्त्रिककुत्त्रिधामा त्रिदशार्चितः ।
उवाच देवता ब्रह्मा मारुतप्रियकाम्यया ॥ ९ ॥
त्रीणि युग्मानि यस्यासौ त्रियुग्मः । तानि तु ऐश्वर्यं वीर्यं यशः श्रीः ज्ञानं वैराग्यं । त्रिककुत् त्रिमूर्तिप्रधानः । त्रिधामा त्रिलोकगृहः । त्रिदशार्चितः देवाचितः ।। ९ ।।
भो महेन्द्रेशवरुणप्रजेश्वरधनेश्वराः ।
जानतामपि वः सर्वं वक्ष्यामि श्रूयतां हितम् ॥ १० ॥
अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति ।
तद्वदध्वं वरान्त्सर्वे मारुतस्यान्य तुष्टये ॥ ११ ॥
ईश इत्यनेन रुद्र इत्युच्यते । प्रजेश्वरः यमः । वक्ष्यामि श्रूयतामिति । गुरुवैषम्यमार्षं ॥ १०-११ ॥
ततः सहस्रनयनः प्रीतियुक्तः शुभाननः ।
कुशेशयमयीं मालामुत्क्षिप्येदं वचोऽब्रवीत् ॥ १२ ॥
[ अद्यैव च परित्यक्तं वायुना जगदायुपा ] ।
मत्करोत्सृष्टवज्रेण हनुरस्य यथा हतः ।
नाम्ना वै कपिशार्दूलो भविता हनुमानिति ॥ १३ ॥
अहमस्य प्रदास्यामि परमं वरमद्भुतम् ।
इतः प्रभृति वज्रस्य ममावथ्यो भविष्यति ॥ १४ ॥
कुशेशयमयीं काञ्चनपद्ममयीमित्यर्थः ॥ १२-१४ ॥
मार्तण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः ।
तेजसोस्य मदीयस्य ददामि शतिकां कलाम् ॥ १५ ॥
शतिकां शतैकांशभूतां ॥ १५ ॥
यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति ।
तदास्य शास्त्रं दास्यामि येन वाग्मी भविष्यति ।
न चास्य भविता कश्चित्सदृशः शास्त्रदर्शने ॥ १६ ॥
शास्त्रं शास्त्रार्थज्ञानं ऐन्द्रव्याकरणमित्यर्थः । शास्त्रदर्शने शास्त्रज्ञाने ॥ १६ ॥
वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति ।
वर्षायुतशतेनापि मत्पाशादुदकादपि ।
यमो दण्डादवध्यत्वमरोगित्वं च नित्यशः ॥ १७ ॥
वरं ददामि संतुष्ट अविषादं च संयुगे ।
गदेयं मामिका चैनं संयुगे न वधिष्यति ।
इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः ॥ १८ ॥
मत्तो मदायुधानां च न बध्योऽयं भविष्यति ॥
[ मच्छूलेनाप्यवध्यत्वं मम चैव भविष्यति ॥ १९ ॥
वरुणोक्तवरस्तु स्वयुद्धनिमित्तमरणाभावमात्रं ॥ १७-१९ ।।
मच्छक्तिमचलां चैव हन्तैव हि विशेषतः । ]
इत्येवं शंकरेणापि दत्तोस्य परमो वरः ॥ २० ॥
परमो वरः शूलपाशुपतास्त्राद्यवध्यत्वमित्यर्थः ॥ २० ॥
सर्वेषां ब्रह्मदण्डानामवध्योऽयं भविष्यति ।
दीर्घायुश्च महात्मा च इति ब्रह्माऽब्रवीद्वचः ॥ २१ ॥
सर्वेषां ब्रह्मास्त्रान्तानामित्यर्थः । ब्रह्मदण्डानां ब्रह्मशापानां ब्रह्मायुधानां वा । दीर्घायुश्चेति ।। २१ ।।
विश्वकर्मा च दृष्ट्वैनं बालसूर्योपमं शिशुम् ।
शिल्पिनां प्रवरः प्रादाद्वरमस्य महामतिः ॥ २२ ॥
मत्कृतानि च शस्त्राणि यानि दिव्यानि संयुगे ।
तैरवध्यत्वमापन्नश्चिरजीवी भविष्यति ॥ २३ ॥
[ विनिर्मितानि देवानामायुधानि तु यानि च ।
तेषां संग्रामकालेषु अवध्योऽयं भविष्यति ॥ २४ ॥ ]
ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमलंकृतम् ।
चतुर्मुखस्तुष्टमना वायुमाह जगद्गुरुः ॥ २५ ॥
अमित्राणां भयकरो मित्राणामभयंकरः ।
अजेयो भविता पुत्रस्तव मारुत मारुतिः ॥ २६ ॥
कामरूप: कामचारी कामगः प्लवतां वरः ।
भवत्यव्याहतगतिः कीर्तिमांश्च भविष्यति ॥ २७ ॥
रावणोत्सादनार्थानि रामप्रियकराणि च ।
रोमहर्षकराण्येष कर्ता कर्माणि संयुगे ॥ २८ ॥
एवमुक्त्वा तमामन्त्र्य मारुतं त्वमरैः सह ।
यथागतं ययुः सर्वे पितामहपुरोगमाः ॥ २९ ॥
यज्ञाद्यायुधानामपि विश्वकर्मनिर्मितत्वेपि तदतिरिक्तायुधपरमिदं ॥ २२-२९ ॥
सोपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत् ।
अञ्जनायास्तमाचख्यौ वरदत्तं विनिर्गतः ॥ ३० ॥
प्राप्य राम वरानेष वरदानसमन्वितः ।
बलेनात्मनि संस्थेन सोपूर्यत यथाऽर्णवः ॥ ३१ ॥
तरसा पूर्यमाणोपि तदा वानरपुङ्गवः ।
आश्रमेषु महर्षीणामपराध्यति निर्भयः ॥ ३२ ॥
वरदत्तं दत्तवरं ॥ ३०-३२ ॥
स्रुग्भाण्डायग्निहोत्रं च वल्कलाजिनसंचयान् ।
भग्नविच्छिन्नविध्वस्तान्त्संशान्तानां करोत्ययम् ।। ३३ ।।
स्रुग्भाण्डानि यज्ञोपकरणानि । संशान्तानां शान्तिप्रधानानां ॥ ३३ ॥
एवंविधानि कर्माणि प्रावर्तत महाबलः ।
सर्वेषां ब्रह्मदण्डानामवध्यः शंभुना कृतः ॥ ३४ ॥
शंभुना ब्रह्मणा । शम्भू ब्रह्मत्रिलोचनौ इत्यमरः ।। ३४ ।।
जानन्त ऋपयस्तं वै क्षमन्ते तस्य शक्तितः ॥ ३५ ॥
यथा केसरिणा त्वेष वायुना सोञ्जनासुतः ।
प्रतिषिद्धोपि मर्यादां लङ्घयत्येव वानरः ॥ ३६ ॥
तस्य शक्तितः ब्रह्मणो वरशक्तितः ॥ ३५-३६ ॥
ततो महर्षयः क्रुद्धा भृग्वशिरसवंशजाः ।
शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः ॥ ३७ ॥
नातिक्रुद्धातिमन्यवः । क्रोधो जिघांसा मन्युरमर्षः । अतिक्रुद्धा अतिमन्यवश्च न भवन्तीति तथा ॥ ३७ ॥
बाधसे यत्समाश्रित्य बलमस्मान्प्लवङगम ।
तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः ।
यदा ते स्मार्यते कीर्तिस्तदा ते वर्धते बलम् ॥ ३८ ॥
तत् बलं ॥ ३८ ॥
ततः स हृततेजौजा महर्षिवचनौजसा ।
एषोश्रमाणि तान्येव मृदुभावं गतोचरत् ॥ ३९ ॥
हृततेजौजा: अपहृतस्ववीर्यबलज्ञान इत्यर्थः । एषोश्रमाणीति आर्षः संधिः ॥ ३९ ॥
अथर्क्षरजसो नाम वालिसुग्रीवयोः पिता ।
सर्ववानरराजासीत्तेजसा भास्करप्रभः ॥ ४० ॥
स च राज्यं चिरं कृत्वा वानराणां हरीधरः ।
स च ऋक्षरजा नाम कालधर्मेण संगतः ॥ ४१ ॥
ऋक्षरजस इत्यकारान्तोप्यस्ति ।। ४०-४१ ।।
तस्मिन्नस्तमिते चाथ मन्त्रिभिर्मन्त्रिकोविदैः ।
पित्र्ये पदे कृतो वाली सुग्रीवो वालिनः पदे ।। ४२ ।।
वालिनः पदे यौवराज्ये ॥ ४२ ॥
सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् ।
आबाल्यं सख्यमभवदनिलस्याग्निना यथा ॥ ४३ ॥
एष शापवशादेव न वेद बलमात्मनः ।
वालिसुग्रीवयोर्वैरं यदा राम समुत्थितम् ॥ ४४ ॥
न ह्येष राम सुग्रीवो भ्राम्यमाणोपि वालिना ।
देव जानाति न ह्येष बलमात्मनि मारुतिः ॥ ४५ ॥
अस्य हनूमतः सुग्रीवेण सह आबाल्यं बाल्यमारभ्य ।। ४३-४५ ।।
ऋषिशापाहृतबलस्तदैव कपिसत्तमः ।
सिंहः कुञ्जररुद्धो वा आस्थितः सहितो रणे ।। ४६ ॥
रणे युद्धादौ स्वबलमास्थितो भूत् ॥ ४६ ॥
पराक्रमोत्साहमतिप्रतापसौशील्यमाधुर्यनयानयैश्च ।
गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः कोऽभ्यधिकोस्ति लोके ॥ ४७ ॥
पराक्रमेति । सौशील्यं सुस्वभावत्वं । माधुर्यं वाचः । नयानयौ प्रवृत्तिनिवृत्ती । गाम्भीर्यं चित्तस्य । धैर्यं आपद्यक्षोभः ॥ ४७ ॥
असौ पुनर्व्याकरणं ग्रहीष्यन्त्सूर्योन्मुखः प्रष्टुमना: कपीन्द्रः ।
उद्यद्भिरेरस्तगिरिं जगाम ग्रन्थं महद्धारयनप्रमेयः ॥ ४८ ॥
उद्यगिरेः उदयगिरेरित्यर्थः । महद्ग्रन्थं व्याकरणग्रन्थं । धारयन् अर्थतः पाठतश्च गृहन्नित्यर्थः । धारयदिति पाठे नुडभाव आर्ष: । धारयते इति पाठान्तरं ॥ ४८ ॥
ससूत्रवृत्यर्थपदं महार्थं ससंग्रहं साध्यति वै कपीन्द्रः ।
न ह्यस्य कश्चित्सदृशोस्ति शास्त्रे वैशारदे च्छन्दगतौ तथैव ॥ ४९ ॥
सर्वासु विद्यासु तपोविधाने प्रस्पर्धते यो हि गुरुं सुराणाम् ।
सोयं नवव्याकरणार्थवेत्ता ब्रह्मा भविष्यत्यपि ते प्रसादात् ॥ ५० ॥
ससूत्रेति । सूत्रमष्टाध्यायी । लक्षणं वृत्तिः सूत्रार्थमात्रप्रतिपादकग्रन्थः । अर्थपदं वार्तिकं उक्तानुक्तदुरुक्तिचिन्तानुरूपं । महार्थं भाष्यं विस्तरविवरणरूपं । संग्रहं प्रकरणादि । साध्यति साधयति धारयतीत्यर्थः । शास्त्रान्तरेष्वपि वैशारदे वैदुष्ये । छन्दगतौ छन्द:-शास्त्रे ।। ४९-५० ।।
प्रवीविविक्षोरिव सागरस्य लोकान्दिधक्षोरिव पावकस्य ।
युगक्षये ह्येव यथाऽन्तकस्य हनुमतः स्थास्यति कः पुरस्तात् ॥ ५१ ॥
प्रवीविवक्षोर्युगान्ते भूमिमाप्लावयितुं प्रकर्षेण विशेषेण वेगमिच्छोः । युगक्षये काले युगान्तकाल इत्यर्थः ॥ ५१ ॥
एषेव चान्ये च महाकपीन्द्राः सुग्रीवमैन्दद्विविदाः सनीलाः ।
सतारवारेयनलाः सरम्भास्त्वत्कारणाद्राम मुरैर्हि सृष्टाः ।। ५२ ।।
[ गजो गवाक्षो गवयः सुदंष्ट्रो मैन्दः प्रभोज्योतिमुखो नलश्च ।
एते च ऋक्षाः सह वानरेन्द्रस्त्वत्कारणाद्राम सुरैर्हि सृष्टाः ॥ ५३ ॥
महीं गता देवगणाः समस्ता महाबला रावणनाशहेतोः ।
एतत्तु मत्तो विदितं तवास्तु प्लवङ्गमानां धरणीनिवासः ॥ ५४ ॥ ]
तदेतत्कथितं सर्वं यन्मां त्वं परिपृच्छसि ।
हनूमतो बालभावे कर्मैतत्कथितं मया ॥ ५५ ॥
श्रुत्वाऽगस्त्यस्य कथितं रामः सौमित्रिरेव च ।
विस्मयं परमं जग्मुर्वानरा राक्षसैः सह ।। ५६ ।।
अगस्त्यस्त्वब्रवीद्रामं सर्वमेतच्छुतं त्वया ।
दृष्टः संभाषितश्चासि राम गच्छामहे वयम् ॥ ५७ ।।
श्रुत्वैतद्राघवो वाक्यमगस्त्यस्योग्रतेजसः ।
प्राञ्जलिः प्रणतश्चापि महर्षिमिदमब्रवीत् ॥ ५८ ॥
अद्य मे देवता हृष्टाः पितरः प्रपितामहाः ।
युष्माकं दर्शनादेव नित्यं तुष्टाः सबान्धवाः ॥ ५९ ।।
एषेवेति संधिरार्षः । तारेयोङ्गदः ॥ ५२-५९ ।।
विज्ञाप्यं तु ममैतद्धि तद्वदाम्यागतस्पृहः ।
तद्भवद्भिर्मम कृते कर्तव्यमनुकम्पया ।। ६० ।।
मम एतद्वक्ष्यमाणं विज्ञाप्यमस्ति । आगतस्पृहोहं यद्वदामि तद्भवद्भिः मत्कृते मन्निमित्तं अनुकम्पया कर्तव्यं ।। ६० ॥
पौरजानपदान्स्थाप्य स्वकार्येष्वहमागतः ।
क्रतूनेव करिष्यामि प्रभावाद्भवतां सताम् ॥ ६१ ।।
आगतः वनादागतः अहं ।। ६१ ॥
सदस्या मम यज्ञेषु भवन्तो नित्यमेव तत् ।
भविष्यथ महावीर्या ममानुग्रहकाङ्क्षिणः ॥ ६२ ॥
सदस्याः विधिदर्शिनः । महावीर्याः महातपोवीर्याः ।। ६२ ।।
अहं युष्मान्त्समाश्रित्य तपोनिर्धूतकल्मषान् ।
अनुग्रहीतः पितृभिर्भविष्यामि सुनिर्वृतः ।
तदागन्तव्यमनिशं भवद्भिरिह सङ्गतैः ॥ ६३ ॥
अगस्त्याद्यास्तु तच्छ्रुत्वा ऋषयः संशितव्रताः ।
एवमस्त्विति तं चोक्त्वा प्रयातुमुपचक्रमुः ।। ६४ ॥
अनुग्रहीतइति । अनुगृहीत इत्यर्थः । अनिशं सुनिर्वृत इत्यन्वयः ॥ ६३-६४ ॥
एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम् ।
[ अभिवाद्य महात्मानो राघवेण विसर्जिताः । ]
राघवश्व तमेवार्थं चिन्तयामास विस्मितः ।। ६५ ॥
ततोस्तं भास्करे याते विसृज्य नृपवानरान् ।
संध्यामुपास्य विधिवत्तदा नरवरोत्तमः ।
प्रवृत्तायां रजन्यां तु सोन्तः पुरचरोऽभवत् ।। ६६ ॥
तमेवार्थं यागरूपप्रयोजनं ॥ ६५-६६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्त्रिंशः सर्गः ।। ३६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षट्त्रिंशः सर्गः ॥ ३६ ।।