श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकचत्वारिंशः सर्गः
रामेण कुबेरंप्रतिप्रेषितेनपुष्पकविमानेन पुनरयोध्यामेत्यान्तरिक्षावस्थानेनाशरीरवाण्या स्वस्यतत्सेवनायकुबेरचोदनानिवेदनपूर्वकं स्वपरिग्रहप्रार्थना ॥ १ ॥ रामेण पुष्पकस्य सबहुमानं -कार्यकालेसंविधानविधानेनेष्टदेशंप्रतिप्रेषणम् ॥ २ ॥
विसृज्य च महाबाहुर्ऋक्षवानरराक्षसान् ।
भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी ॥ १ ॥
प्रमुमोद सुखं सुखी । स्वतः सुखी रामः आश्रितदुः स्वनिवृत्त्या सुखं प्रमुमोद । अविच्छिन्नप्रमोदमगमदित्यर्थः । अत्र प्रमुमोदेति दकारो गायत्र्यक्षरं ॥ १ ॥
अथापराह्नसमये भ्रातृभिः सह राघवः ।
शुश्राव मधुरां वाणीमन्तरिक्षात्प्रभाषिताम् ॥ २ ॥
सौम्य राम निरीक्षस्व सौम्येन वदनेन माम् ।
कुबेरभवनात्प्राप्तं विद्धि मां पुष्पकं प्रभो ॥ ३ ॥
तव शासनमाज्ञाय गतोस्मि भवनं प्रति ।
उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत ॥ ४ ॥
निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना ।
निहत्य युधि दुर्धर्षं रावणं राक्षसेश्वरम् ॥ ५ ॥
ममापि परमा प्रीतिर्हते तस्मिन्दुरात्मनि ।
रावणे सगणे चैव सपुत्रे सहबान्धवे ॥ ६ ॥
स त्वं रामेण लङ्कायां निर्जितः परमात्मना ।
वह सौम्य तमेव त्वमहमाज्ञापयामि ते ॥ ७ ॥
अन्तरिक्षात्प्रभाषितां अन्तरिक्षगतेनोक्तां । पुष्पकामिमानिदेवतयोक्तामित्यर्थः । अन्तरिक्षाद्विनिस्सुतामिति च पाठः ॥ २-७ ॥
परमो ह्येष मे कामो यत्त्वं राघवनन्दनम् ।
वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः ॥ ८ ॥
सोहं शासनमाज्ञाय धनदस्य महात्मनः ।
त्वत्सकाशमनुप्राप्तो निर्विशङ्कः प्रतीक्ष माम् ॥ ९ ॥
अदृश्यः सर्वभूतानां सर्वेषां धनदाज्ञया ।
चराम्यहं प्रभावेण तवाज्ञां परिपालयन् ॥ १० ॥
एवमुक्तस्तदा रामः पुष्पकेण महाबलः ।
उवाच पुष्पकं दृष्ट्वा विमानं पुनरागतम् ॥ ११ ॥
यद्येवं स्वागतं तेऽस्तु विमानवर पुष्पक ।
आनुकूल्याद्धनेशस्य वृत्तदोषो न नो भवेत् ॥ १२ ॥
लाजैश्चैव तथा पुष्पैर्धूपैश्चैव सुगन्धिभिः ।
पूजयित्वा महाबाहू राघवः पुष्पकं तदा ॥ १३ ॥
लोकस्य संयानमिति । लोकसंचरणमित्यर्थः ।। ८-१३ ॥
गम्यतामिति चोवाच आगच्छ त्वं स्मरे यदा ।
सिद्धानां च गतौ सौम्य मा विषादेन योजय ।
प्रतिघातश्च ते मा भूद्यथेष्टं गच्छतो दिशः ॥ १४ ॥
न एवमस्त्विति रामेण पूजयित्वा विसर्जितम् ।
अभिप्रेतां दिशं तस्मात्प्रायात्तत्पुष्पकं तदा ॥ १५ ॥
एवमन्तर्हिते तस्मिन्पुष्पके सुकृतात्मनि ।
भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् ॥ १६ ॥
स्मरे स्मरामि । सिद्धानां च गतौ आकाशमार्गे । आत्मानं विषादेन अस्मद्वियोगदुःखेन मा योजय । विमुक्तगत्या गतदुःखः सुप्रतिष्ठितः सुखमास्वेत्यर्थः । सिद्धानां गतौ मा मां अविषादेन अश्रमेण योजय प्रापयेति वार्थः ॥ १४-१६ ॥
विविधात्मनि दृश्यन्ते त्वयि वीर प्रशासति ।
अमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः ॥ १७ ॥
विविधात्मनि नानारूपे । चित्र इत्यर्थः । अमानुषाणां सत्त्वानां पुष्पकादीनामित्यर्थः ॥ १७ ॥
अनामयश्च संत्त्वानां साग्रो मासो गतो ह्ययम् ।
जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव ॥ १८ ॥
साग्रो मासो गत इति । अभिषेकानन्तरं साग्रो मासो गतः । तावन्मात्रेणानामयादिगुण -प्रादुर्भाव इत्याश्चर्यमित्यर्थः । अनेन पुष्पकागमनं मासाभ्यन्तर एव तत्कालवृत्तान्तः भरतेन निदर्शित इत्यवगम्यते । पुनः फाल्गुनमासप्राप्तेः पूर्वमुक्तत्वात् ॥ १८ ॥
अरोगप्रसवा नार्यो वपुष्मन्तो हि मानवाः ।
हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ॥ १९ ॥
काले वर्षति पर्जन्यः पातयन्नमृतं पयः ।
वाताश्चापि प्रवान्त्येते स्पर्शयुक्ताः सुखाः शिवाः ।। २० ।।
ईदृशोऽनश्वरो राजा भवेदिति नरेश्वरः ।
कथयन्ति पुरे राजन्पौरजानपदास्तथा ॥ २१ ॥
एता वाचः सुमधुरा भरतेन समीरिता: ।
श्रुत्वा रामो मुदा युक्तो बभूव नृपसत्तमः ॥ २२ ॥
वपुष्मन्तः हृष्टपुष्टवपुर्युक्ताः । सुखी सुखमिति वक्ष्यमाणसर्गकथानुवादसंग्रहः ।। १९-२२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकचत्वारिंशः सर्गः ॥ ४१ ॥