श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुश्चत्वारिंशः सर्गः
रामेण सभायां सर्वजनविसर्जनपूर्वकं भ्रातृषुपौरापवादनिवेदनेच्छया दूतंप्रति तदानयनचोदना ॥ १ ॥ दूताहूतैर्लक्ष्मणादिभिः सत्वरंरामसमीपमेत्य तन्मुखवैवर्ण्यनिर्वर्णनेन -विषण्णतया समणाममुपवेशनम् ॥ २ ॥
विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः ।
समीपे द्वास्थमासीनमिदं वचनमब्रवीत् ॥ १ ॥
शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् ।
भरतं च महाभागं शत्रुघ्नमपराजितम् ॥ २ ॥
रामस्य वचनं श्रुत्वा द्वास्थो मूर्ध्नि कृताञ्जलिः ।
लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः ॥ ३ ॥
निश्चित्येति । कर्तव्यमिति शेषः ॥ १-३ ॥
उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः ।
द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् ॥ ४ ॥
बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम् ।
[ उत्पपातासनात्तूर्ण महाबाहुररिंदमः ॥ ]
प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् ॥ ५ ॥
वर्धयित्वेति । जयाशिषेति शेषः । मा चिरं विलम्बो मा भूत् ॥ ४-५ ॥
प्रयान्तं लक्ष्मणं दृष्ट्वा द्वास्थो भरतमन्तिकात् ।
उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः ॥ ६ ॥
विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति ।
भरतस्तु वचः श्रुत्वा द्वास्थाद्रामसमीरितम् ॥ ७ ॥
भरतमन्तिकात् भरतस्यान्तिकमित्यर्थः । गत्वेति शेषः । कृताञ्जलिः । भरतायेति शेषः ।। ६-७ ।।
उत्पपातासनात्तूर्ण पद्भ्यामेव ययौ बली ।
दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः ॥ ८ ॥
शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह ।
एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति ॥ ९ ॥
गतो हि लक्ष्मण: पूर्वं भरतश्व महायशाः ।
श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात् ।
शिरसा धरणीं प्राप्य प्रययौ यत्र राघवः ॥ १० ॥
उत्पपात उत्थाय जगाम ।। ८-१० ॥
द्वास्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः ।
निवेदयामास तदा भ्रातृन्स्वान्समुपस्थितान् ॥ ११ ॥
कुमारानागताञ्श्रुत्वा चिन्ताव्याकुलितेन्द्रियः ।
अवाङ्मुखो दीनमना द्वास्थं वचनमब्रवीत् ।। १२ ।।
शिरसा धरणीं प्राप्य रामाय वन्दित्वेत्यर्थः ।। ११-१२ ।।
प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः ।
एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम ॥ १३ ॥
आज्ञप्तास्तु नरेन्द्रेण कुमारा: शक्रतेजसः ।
प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ॥ १४ ॥
मह्यं ममेत्यर्थः ॥ १३-१४ ॥
ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा ।
सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् ॥ १५ ॥
बाष्पपूर्ण च नयने दृष्ट्वा रामस्य धीमतः ।
हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते ॥ १६ ॥
[ किमेतदिति रामस्य चिन्ताव्याकुलचेतसः ।
व्यथिताः शुष्कवदनाः प्रविश्य रघुनन्दनाः ॥ १७ ॥
ततोऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः ।
तस्थुः समाहिताः सर्वे रामस्त्वश्रृण्यवर्तयत् ।। १८ ।।
तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः ।
आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह ।। १९ ।।
भवन्तो मम सर्वस्वं भवन्तो जीवितं मम ।
भवद्भिश्व कृतं राज्यं पालयामि नरेश्वराः ।। २० ।।
सग्रहं सोपरागं ॥ १५-२० ॥
भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः ।
संभूय च मदर्थोऽयमन्वेष्टव्यो नरेश्वराः ॥ २१ ॥
तथा वदति काकुत्स्थे ह्यवधानपरायणाः ।
उद्विग्नमनसः सर्वे किंतु राजाऽभिधास्यति ॥ २२ ॥
कृतशास्त्रार्थाः अनुष्ठितशास्त्रार्थाः ॥ २१-२२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूपणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥ ४४ ।।