श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकपञ्चाशःसर्गः
चातुर्मास्यनियमनिर्वर्तनायवसिष्ठाश्रमवासिनिसतिदुर्वाससि दशरथेनतंप्रति रामादि -संबन्धिभविष्यद्वृत्तान्तनिवेदनप्रार्थने तेनसंप्रति रामस्यभृगुशापेनसीता वियोगस्यावश्यंभावि -त्वकथननिवेदनेन सुमन्त्रेणसौमित्रिसमाश्वासनम् ॥ १ ॥
तथा संचोदितः सूतो लक्ष्मणेन महात्मना ।
तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे ॥ १ ॥
पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः ।
वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह ॥ २ ॥
तमाश्रमं महातेजाः पिता ते सुमहायशाः ।
पुरोहितं महात्मानं दिदृक्षुरगमत्स्वयम् ।। ३ ॥
स दृष्ट्वा सूर्यसंकाशं ज्वलन्तमिव तेजसा ।
उपविष्टं वसिष्ठस्य सव्यपार्श्वे महामुनिम् ॥ ४ ॥
तौ मुनी तापसश्रेष्ठौ विनीतो ह्यभिवादयत् ।
स ताभ्यां पूजितो राजा स्वागतेनासनेन च ।
पाद्येन फलमूलैश्च उवास मुनिभिः सह ॥ ५ ॥
पुरा वार्षिक्यं वर्षासु भवं चातुर्मास्यनियममुद्दिश्योवास दुर्वासा हीति नाम्ना ॥२-५ ॥
तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः ।
बभूवुः परमर्षीणां मध्यादित्यगतेऽहनि ॥ ६ ॥
मध्यादित्यगते मध्यगतादित्ययुक्त इत्यर्थः । मध्याह्न इति फलितार्थः ॥ ६ ॥
ततः कथायां कस्यांचित्प्राञ्जलिः प्रग्रहो नृपः ।
उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् ॥ ७ ॥
प्रग्रहः सविनय इत्यर्थः ॥ ७ ॥
भगवन्किं प्रमाणेन मम वंशो भविष्यति ।
किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः ॥ ८ ॥
रामस्य च सुता ये स्युस्तेषामायुः कियद्भवेत् ।
काम्यया भगवन्ब्रूहि वंशस्यास्य गतिं मम ॥ ९ ॥
तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य च ।
दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे ॥ १० ॥
किंप्रमाणेन उत ततोप्यधिकप्रमाणेनेत्यर्थः । किमायुश्च मे राम इति ॥ ८-१० ॥
शृणु राजन्पुरावृत्तं तदा दैवासुरे युधि ।
दैत्याः सुरैर्भर्त्स्यमाना भृगुपत्नीं समाश्रिताः ॥ ११ ॥
तया दत्ताभयास्तत्र न्यवसन्नभयास्तदा ॥ १२ ॥
तया परिगृहीतांस्तान्दृष्ट्वा क्रुद्धः सुरेश्वरः ।
चक्रेण शितधारेण भृगुपत्न्याः शिरोऽहरत् ॥ १३ ॥
ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः ।
शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम् ॥ १४ ॥
एवं पृष्टश्चिरायुष्ट्वं दुःखोपेतं शापवशादिति वक्तुं पीठिकामाह-शृणु राजन्नित्यादि ॥ ११-१४ ॥
यस्मादवध्यां मे पत्नीमवधीः क्रोधमूर्च्छितः ।
तस्मात्त्वं मानुषे लोके जनिष्यसि जनार्दन ।
तत्र पत्नीवियोगं त्वं प्राप्स्यते बहुवार्षिकम् ॥ १५ ॥
अवध्यां स्त्रीत्वादृषिपत्नीत्वाच्चेति भावः । बहुवार्षिकं कालमित्यर्थः ॥ १५ ॥
[एवं शापं भृगुर्दत्वा विष्णोः स्मृत्वा च वैभवम् ] ।
शापाभिहतचेताः स स्वात्मना भावितोऽभवत् ॥ १६ ॥
[ पुनरेव ययौ तापमृषिर्दुर्मददुर्मदः ।
विष्णुशक्तिमविद्वान्स प्रपेदे शापमूढताम् ॥ १७ ॥
चिरकालमसंज्ञोऽभूच्छापान्धतमसा वृतः ।
दृष्ट्वा सप्तर्षयश्चैवं कृपां चक्रुश्च भक्तितः ॥ १८ ॥
त्यक्तशापः पुरस्तस्थौ मन्दं भृगुरथाब्रवीत् ।
रक्षध्वं मां मुनिश्रेष्ठाः शापान्मत्पुरतः स्थिताः ॥ १९ ॥
श्रुत्वा तु भृगुवाक्यं तमाहुश्च परमर्षयः ।
स्तुत्यैर्ब्रह्मेशशक्राद्यैः स्तूयमानमहर्निशम् ।
नारायणं प्रपद्यस्व स्तोत्रैरेव च सुव्रत ।। २० ।।
भृगुणाऽऽराधितो विष्णुरागतः प्राह तं भृगुम् ।
माभैभृगोऽनृतं वाक्यं न भविष्यति ते द्विज ।
संमोचयसि पापान्मामहमेनं गृहीतवान् ॥ २१ ॥ ]
शापाभिहतचेताः पश्चात्तापपरीतचित्त इत्यर्थः । स्वात्मना भावितो भगवच्छापनिवृत्त्यर्थं स्वस्वरूपमचिन्तयदित्यर्थः ॥ १६-२१ ॥
अर्चयामास तं देवं भृगुः शापेन पीडितः ॥ २२ ॥
पुनः शापेन शापमोघभयेन पीडितः सन् भृगुस्तं देवमर्चयामास ॥ २२ ॥
तपसाराऽऽधितो देवो ह्यब्रवीद्भक्तवत्सलः ।
लोकानां सहितार्थं तु तं शापं ग्राह्यमुक्तवान् ।। २३ ।।
तं शापं मनुष्यजन्मादिप्रापकं लोकानां संहितार्थं सम्यग्रावणवधरूपहितसंपादनार्थं । ग्राह्यं परिग्राह्यमेवेत्युक्तवान् ।। २३ ।।
इति शप्तो महातेजा भृगुणा पूर्वजन्मनि ।
इहागतो हि पुत्रत्वं तव पार्थिवसत्तम ॥ २४ ॥
पूर्वजन्मनि काश्यपात् विष्णुसंज्ञकोपेन्द्रावतारे ॥ २४ ॥
राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद ।
तत्फलं प्राप्यते चापि भृगुशापकृतं महत् ॥ २५ ॥
अयोध्यायाः पती रामो दीर्घकालं भविष्यति ।
[ तंत्र पत्नीवियोगं च दीर्घकालं गमिष्यति । ]
सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य येऽनुगाः ॥ २६ ॥
दश वर्षसहस्राणि दश वर्षशतानि च ।
रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥ २७ ॥
समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः ।
राजवंशांश्च बहुशो बहूसंस्थापयिष्यति ॥ २८ ॥
द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु ।
अन्यत्र न त्वयोध्यायां सत्यमेतन्न संशयः ॥ २९ ॥
सीतायाश्च ततः पुत्रावभिषेक्ष्यति राघवः ॥ ३० ॥
तत्फलं पत्नीवियोगेनचिरकालवासरूपं ।। २५-३० ।।
स सर्वमखिलं राज्ञो वंशस्याह गतागतम् ।
आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः ॥ ३१ ॥
तूष्णीं भूते तदा तस्मिन्राजा दशरथो मुनौ ।
अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम् ॥ ३२ ॥
एतद्वचो मया तत्र मुनिना व्याहृतं पुरा ।
श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति ॥ ३३ ॥
एवंगते न संतापं कर्तुमर्हसि राघव ।
सीतार्थे राघवार्थे वा दृढो भव नरोत्तम ॥ ३४ ॥
श्रुत्वा तु व्याहृतं वाक्यं सुतस्य परमाद्भुतम् ।
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ ३५ ॥
ततः संवदतोरेवं सूतलक्ष्मणयोः पथि ।
अस्तमर्के गते वासं केशिन्यां तावथोषतुः ॥ ३६ ॥
सः दुर्वासा इत्यर्थः ।। ३१-३६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकपञ्चाशःसर्गः॥ ५१॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकपञ्चाशः सर्गः ॥ ५१ ॥