श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विपञ्चाशः सर्गः
सुमन्त्रेणसहकेशिन्यांरात्रियापनेन प्रभातेअयोध्यामागतेनलक्ष्मणेन श्रीरामे सप्रणामं -वाल्मीक्याश्रमेसीता विसर्जन निवेदनपूर्वकं रामसमाश्वासनम् ॥ १ ॥
तत्र तां रजनीमुष्य केशिन्यां रघुनन्दनः ।
प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा ॥ १ ॥
ततोर्धदिवसे प्राप्ते प्रविवेश महारथः ।
अयोध्यां रत्नसंपूर्णां हृष्टपुष्टजनावृताम् ॥ २ ॥
सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः ।
रामपादौ समासाद्य वक्ष्यामि किमहं गतः ॥ ३ ॥
तस्यैवं चिन्तयानस्य भवनं शशिसन्निभम् ।
रामस्य परमोदारं पुरस्तात्समदृश्यत ॥ ४ ॥
राज्ञस्तु भवनद्वारि सोवतीर्य रथोत्तमात् ।
अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः ॥ ५ ॥
तत्र पथीत्यर्थः ॥ १-५ ।।
स दृष्ट्वा राघवं दीनमासीनं परमासने ।
नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः ॥ ६ ॥
जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः ।
उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः ॥ ७ ॥
आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् ।
गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुचौ ॥ ८ ॥
नेत्राभ्यामश्रुपूर्णाभ्यामुपलक्षितमग्रजं ॥ ६-८ ॥
तत्र तां च शुभाचारामाश्रमान्ते यशस्विनीम् ।
पुनरप्यागतो वीर पादमूलमुपासितुम् ॥ ९ ॥
मा शुच: पुरुषव्याघ्र कालस्य गतिरीदृशी ।
त्वद्विधा न हि शोचन्ति बुद्धिमन्तो मनस्विनः ।। १० ।।
सर्वे क्षयान्ता निचया: पतनान्ता: समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ।। ११ ।।
पादमूलं तवेति शेषः ।। ९-११ ।।
तस्मात्पुत्रेषु दारेषु मित्रेषु च धनेषु च ।
नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥ १२ ॥
अतिप्रसङ्गः अत्यासक्तिः ॥ १२ ॥
शक्तस्त्वमात्मनाऽऽत्मानं विनेतुं मनसैव हि ।
लोकान्त्सर्वांश्च काकुत्स्थ किं पुनः शोकमात्मनः ।। १३ ।।
शक्तस्त्वमात्मनात्मानं विनेतुं मनसैव हीति ॥ आत्मना स्वयमेव मनसैव करणेनात्मानं स्वात्मानं लोकांश्च विनेतुं शिक्षितुं शक्तः । सांसारिकदुःखाद्वारयितुमित्यर्थः ॥ १३ ॥
नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः ।
अपवादः स किल ते पुनरेष्यति राघव ॥ १४ ॥
अपवादः पुनरेष्यति प्रकारान्तरेणेति शेषः ॥ १४ ॥
यदर्थं मैथिली त्यक्ता अपवादभयान्नृप ।
सोपवादः पुरे राजन्भविष्यति न संशयः ॥ १५ ॥
स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः ।
त्यजैनां दुर्बलां बुद्धि संतापं मा कुरुष्व ह ॥ १६ ॥
एवमुक्तः स काकुत्स्थो लक्ष्मणेन महात्मना ।
उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलः ।। १७ ॥
तदेवोपपादयति- यदर्थमिति ॥ हे नृप परीवादद्भयाद्भीतेन त्वया यदर्थं यदपवादपरिहारार्थं मैथिली त्यक्ता सोपवादः पुनः प्रकारान्तरेण भविष्यति । सीतामपवादात्त्यक्त्वा पुनः शोचति । तस्मात्तस्यामतिमात्रोयं कामुकस्य रामस्यानुराग इति पुनरप्यपवादोभविष्यतीत्यर्थः ॥ १५-१७ ॥
एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण ।
परितोषश्च मे वीर मम कार्यानुशासने ॥ १८ ॥
कार्यानुशासने गङ्गातीरत्यागरूपे त्वत्कृते ॥ १८ ॥
निर्वृतिश्चागता सौम्य संतापश्च निराकृतः ।
भवद्वाक्यैः सुरुचिरैरनुनीतोस्मि लक्ष्मण ॥ १९ ॥
निर्वृतिः सुखं ॥ १९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विपञ्चाशः सर्गः॥ ५२ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्विपञ्चाशः सर्गः ॥ ५२ ॥