श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिषष्टितमः सर्गः
ज्येष्ठेसत्यपि स्वाज्ञायाअनुलंङ्घयतया कथंचिदभिषेकमङ्गीकृतवतः शत्रुघ्नस्य रामेण लवणराज्येऽभिषेचनम् ॥ १ ॥ तथा शत्रुघंप्रति निजशरप्रभावप्रशंसनेन तद्दानपूर्वकं लवणमारणोपायोपदेशः ॥ २ ॥
एवमुक्तस्तु रामेण परां व्रीडामुपागमत् ।
शत्रुघ्नो वीर्यसंपन्नो मन्दं मन्दमुवाच ह ॥ १ ॥
अथ रामेण स्वसन्निधावेव मधुराज्ये शत्रुघ्नमभिषिच्य लवणवधोपायोपदेशपूर्वकं तद्वधार्थं दिव्यास्त्रप्रदानं – एवमित्यादि ॥ १ ॥
अधर्मं विद्म काकुत्स्थ ह्यस्मिन्नर्थे नरेश्वर ।
कथं तिष्ठत्सु ज्येष्ठेषु कनीयानभिषिच्यते ॥ २ ॥
विद्म वेद्मीत्यर्थः । अस्मिन्नित्युक्तंविवृणोति – कथमित्यादि । तिष्ठत्सु ज्येष्टेष्विति गुरुवैषम्यमार्षम् । कथमभिषिच्यते न कथमपि । अधर्म एवेत्यर्थः ॥ २ ॥
अवश्यं करणीयं च शासनं पुरुषर्षभ ।
तव चैव महाभाग शासनं दुरतिक्रमम् ॥ ३ ॥
तव शासनं चावश्यं करणीयमित्यर्थः ।। ३ ।।
त्वत्तो मया श्रुतं वीर श्रुतिभ्यश्च मया श्रुतम् ।
नोत्तरं हि मया वाच्यं मध्यमे प्रतिजानति ॥ ४ ॥
मध्यमे भ्रातरि भरत इत्यर्थः । घोरं लवणं हन्तास्मीति प्रतिजानति सति । हि यस्मात् । मया उत्तरं ज्येष्ठवच उल्लङ्घ्य न वाच्यं वक्तुं न योग्यं ॥ ४ ॥
व्याहृतं दुर्वचो घोरं हन्तास्मि लवणं मृधे ।
तस्येयं मे दुरुक्तस्य दुर्गतिः पुरुषर्षभ ॥ ५ ॥
तथाप्यहं मृधे युद्धे लवणं हन्तास्मीति दुर्वचो व्याहृतं तस्यास्य मे दुरुक्तस्येयं दुर्गतिः दुष्टकार्यस्य प्राप्तिः । तच्च ज्येष्ठातिक्रमेण आत्माभिषेचनं ॥ ५ ॥
उत्तरं हि न वक्तव्यं ज्येष्ठेनाभिहिते पुनः ।
अधर्मसहितं चैव परलोकविवर्जितम् ॥ ६ ॥
उक्तमर्थं व्यावर्तयति-उत्तरं हीत्यादि । ज्येष्ठेन भरतेनाभिहिते सति ततः परमुत्तरं न वक्तुमुचितमेव । किंचाधर्मसहितमपि । अतएव परलोकविवर्जितमपि । तव शासनं च दुरतिक्रममिति शेषः ॥ ६ ॥
सोहं द्वितीयं काकुत्स्थ न वक्ष्यामि तवोत्तरम् ।
मा द्वितीयेन दण्डो वै निपतेन्मयि मानद ॥ ७ ॥
फलितमाह – सोहमित्यादि ।। भरतोक्तेः प्रथमं कृतोत्तरवचनः सोहं हे काकुत्स्थ तव ज्येष्टस्योत्तरं द्वितीयं न वक्ष्यामि । तत्र हेतुमाह -मेति । द्वितीयेन ज्येष्ठप्रत्युत्तरेण दण्डो मयि मा निपतेत् । भरते जिगमिषत्यहं गमिष्यामीत्युत्तरेण प्रथमेन राज्याभिषेकापत्तिरूपो दण्डः पतितः । त्वया अभिषेकं प्रतीच्छेत्युक्ते तदनङ्गीकारोत्तरेण द्वितीयेन मयि दण्डो मा निपतेदिति भावः ॥ ७ ॥
कामकारो ह्यहं राजंस्तवास्मि पुरुषर्षभ ।
अधर्मं जहि काकुत्स्थ मत्कृते रघुनन्दन ॥ ८ ॥
फलितमाह – कामकार इति । अहं तव कामकारोस्मि अभीष्टनियोगकर्तास्मि । मत्कृते मदनुष्ठितराज्याभिषेकस्वीकारे । अधर्मं ज्येष्ठातिक्रमेण राज्यप्राप्तिनिमित्तं । काकुत्स्थेत्यत्रापि प्राधान्याल्लोकस्य अधर्मं अधर्मबुद्धिं । जहि परिहर ॥ ८ ॥
एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना ।
उवाच रामः संहृष्टो भरतं लक्ष्मणं तथा ॥ ९ ॥
संभारानभिषेकस्य आनयध्वं समाहिताः ।
अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि राघवम् ॥ १० ॥
पुरोहितं च काकुत्स्थं नैगमानृत्विजस्तथा ।
मन्त्रिणश्चैव तान्सर्वानानयध्वं ममाज्ञया ॥ ११ ॥
राज्ञः शासनमाज्ञाय तथाऽकुर्वन्महारथाः ।
अभिषेकसमारम्भं पुरस्कृत्य पुरोधसम् ।
प्रविष्टा राजभवनं राजानो ब्राह्मणास्तथा ॥ १२ ॥
तथाऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः ।
संप्रहर्षकरः श्रीमान्राघवस्य पुरस्य च ॥ १३ ॥
अभिषिक्तस्तु शत्रुघ्नो बभौ चादित्यसंनिभः ।
अभिषिक्त: पुरा स्कन्दः सेन्द्रैरिव मरुद्गणैः ॥ १४ ॥
अभिषिक्ते तु शत्रुघ्ने रामेणाक्लिष्टकर्मणा ।
पौरा: प्रमुदिताश्चासन्ब्राह्मणाश्च बहुश्रुताः ॥ १५ ॥
कौसल्या च सुमित्रा च मङ्गलं केकयी तथा ।
चक्रुस्ता राजभवने याश्चान्या राजयोषितः ॥ १६ ॥
ऋषयश्च महात्मानो यमुनातीरवासिनः ।
हतं लवणमाशंसुः शत्रुघ्नस्याभिषेचनात् ॥ १७ ॥
संहृष्ट इति । कृताभिषेकनियोगत्वादिति भावः । अभिषेकस्य संभारान् अभिषेकोपकरणानि । लक्ष्मणं भरतं तथेति प्राधान्यात् सुमन्त्रादीनपीत्यर्थः । अन्यथाऽऽनयध्वमिति बहुवचनं विरुध्येत ।। ९-१७ ।।
ततोऽभिषिक्तं शत्रुघ्नमङमारोप्य राघवः ।
उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् ॥ १८ ॥
तेजः शत्रुसंहारोचितवलवीर्यं ॥ १८ ॥
अयं शरस्त्वमोघस्ते दिव्यः परपुरंजयः ।
अनेन लवणं सौम्य हन्तासि रघुनन्दन ॥ १९ ॥
अयं मया दीयमानः ॥ १९ ॥
सृष्टः शरोऽयं काकुत्स्थ यदा शेते महार्णवे ।
स्वयम्भूरजितो देवो यं नापश्यन्सुरासुराः ।
अदृश्यः सर्वभूतानां तेनायं तु शरोत्तमः ॥ २० ॥
अमोघत्वे हेतुमाह-सृष्ट इत्यादि ॥ २० ॥
सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः ।
मधुकैटभयोर्वीर विघाते वर्तमानयोः ।
स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि ॥ २१ ॥
तौ हत्वा जनभोगार्थं कैटभं तु मघुं तथा ।
अनेन शरमुख्येन ततो लोकांश्चकार सः ॥ २२ ॥
विघाते सृष्टिविघ्ने वर्तमानयोः तत्परयोरित्यर्थः । सृष्टः क्रोधाभिभूतेन विनाशे सर्वरक्षसाम् । मधुकैटभयोर्वीर विघाते सर्वरक्षसामिति च पाठः ॥ २१-२२ ॥
नायं मया शरः पूर्वं रावणस्य वधार्थिना ।
मुक्तः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति ॥ २३ ॥
नायमिति । अनेन शरेण महान् त्रासो भवेदित्यलक्ष्यविषये महास्त्रप्रयोगे तदीयांश्च सर्वान् लक्षीकृत्य नाशयेदिति भावः । अनेन रावणादपि बलीयान् लवण इति सूचितं । महान् हासो भवेदिति च पाठः ।। २३ ।।
यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना ।
दत्त शत्रुविनाशाय मधोरायुधमुत्तमम् ॥ २४ ॥
स तं निक्षिप्य भवने पूज्यमानं पुनःपुनः ।
दिशः सर्वाः समासाद्य प्राप्नोत्याहारमुत्तमम् ॥ २५ ॥
गृहीतशूलस्य तस्य दुर्जयत्वात्तदग्रहणाय पुरप्रवेशनिरोधमुपदिशति – यच्च तस्येत्यादि । मधोर्दत्तमित्यन्वयः ॥ २४-२५ ॥
यदा तु युद्धमाकाङ्क्षन्कश्चिदेनं समाह्वयेत् ।
तदा शूलं गृहीत्वा तं भस्म रक्षः करोति हि ॥ २६ ॥
युद्धमाकाङ्क्षन्निति । अनेन सहेति शेषः ॥ २६ ॥
स त्वं पुरुषशार्दूल तमायुधविनाकृतम् ।
अप्रविष्टं पुरं पूर्वं द्वारि तिष्ठ धृतायुधः ॥ २७ ॥
अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ ।
आह्वयेथा महाबाहो ततो हन्तासि राक्षसम् ॥ २८ ॥
तमायुधविनाकृतं आयुधविवर्जितमुपलक्ष्येति शेषः ॥ २७-२८ ।।
अन्यथा क्रियमाणे तु अवध्यः स भविष्यति ।
यदि त्वेवंकृते वीर विनाशमुपयास्यति ।। २९ ॥
यदि त्वेवं कृत इति । यदा त्वेवमुक्तरीत्या कृतमनुष्ठितं भवति तदा त्वेवं कृते सति सः अवश्यं विनाशमुप- यास्यति ॥ २९ ॥
एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययः ।
श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् ॥ ३० ॥
विपर्ययः परिहार इत्यर्थः । श्रीमत इति । कृत्यमाज्ञापनं । अत्र कश्चिज्जपति-अत्र रामेण दुरतिक्रमत्वं शूलिन उक्तमिति विष्णोरष्यधिको रुद्र इति तन्न । अवतारमर्यादया तादृशोक्तिसंभवाद्यथा ब्रह्मास्त्रबन्धने दुरतिक्रमो ब्रह्मणो महिमेत्यादि । यद्वा दुरतिक्रमं कृत्यं भगवतैव तस्य बहुमन्तव्यत्वादिति भावः ॥ ३० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिषष्टितमः सर्गः ॥ ६३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्रिषष्टितमः सर्गः ॥ ६३ ॥