श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्षष्टितमःसर्गः
शत्रुघ्नस्यपर्णशालाप्रवेशरात्रौ सीतया कुमारद्वयप्रसवः ॥ १ ॥ वाल्मीकिनासीतासुतयो -र्जातकर्मकरणपूर्वकं क्रमेण कुशलवाविति नामकरणंच ॥ २ ॥ शत्रुघ्नेन सीतायाअपत्योत्पत्ति -श्रवणहर्षेण रात्रियापनपूर्वकं प्रभातेवाल्मीकेरभ्यनुज्ञया निर्गमः ॥ ३ ॥ तथा यमुनातीरमेय तत्रऋषिगणैः सह तेभ्यः कथाश्रवणेन सुखनिवासः ॥ ४ ॥
यामेव रात्रिं शत्रुघ्नः पर्णशालामुपाविशत् ।
तामेव रात्रिं सीताऽपि प्रमुता दारकद्वयम् ॥ १ ॥
ततोऽर्धरात्र समये बालका मुनिदारकाः ।
वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम् ॥ २ ॥
यामेवेत्यादि ।। यस्यां राज्यामित्यर्थः । दारकद्वयं पुत्रद्वयं । प्रसूता प्रसूतवती ॥ १-२ ॥
भगवन्रामपत्नी सा प्रसूता दारकद्वयम् ।
ततो रक्षां महातेजः कुरु भूतविनाशिनीम् ॥ ३ ॥
तेषां तद्वचनं श्रुत्वा महर्षिः समुपागमत् ।
बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ ॥ ४ ॥
जगाम तत्र हृष्टात्मा ददर्श च कुमारकौ ।
भूतघ्नीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम् ॥ ५ ॥
भूतविनाशिनीं बालग्रहविनाशिनीं ॥ ३-५ ॥
कुशमुष्टिमुपादाय लवं चैव तु स द्विजः ।
वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् ।। ६ ।।
लवं चैवेति । अधःप्रदेशलूनकुशमुष्ट्येकदेशमित्यर्थः । कुशमुष्ट्यग्राधोभागाभ्यां क्रमाज्ज्येष्ठकनिष्ठयोः प्रमार्जनमिति द्रष्टव्यं ॥ ६ ॥
यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसत्कृतैः ।
निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत् ॥ ७ ॥
निर्मार्जनीय: निर्मार्जनार्हो यतो जातः ततः कुश इति नामाकरोदिति शेषः ॥ ७ ॥
यश्चावरो भवेत्ताभ्यां लवेन स समाहितः ।
निर्मार्जनीयो वृद्धाभिर्लव इत्येव नामतः ॥ ८ ॥
ताभ्यां तयोः कुमारयोर्मध्य इत्यर्थः । लवेन लूनकुशमुष्ट्यधोभागेन । वृद्धाभिर्मार्जनीय इति । सूतिका-गृहमध्ये ऋषिप्रवेशाभावात् ॥ ८ ॥
एवं कुशलवौ नाम्ना तावुभौ यमजातकौ ।
मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः ॥ ९ ॥
ख्यातियुक्तौ भविष्यत इति । यमजातकौ यमलौ ॥ ९ ॥
तां रक्षां जगृहुस्ताश्च मुनिहस्तात्समाहिताः ।
अकुर्वंश्च ततो रक्षां तयोर्विगतकलमपाः ।। १० ।।
ततः अनन्तरं । समाहितास्ता वृद्धाः मुनिहस्तात्तां मुनिना दीयमानां रक्षां च जगृहु: । पुत्रयोः प्रदानार्थमिति शेषः । रक्षामकुर्वन्निति । वृद्धा इति शेषः ॥ १० ॥
तथा तां क्रियमाणां च वृद्धाभिर्जन्म नाम च ।
संकीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ ॥ ११ ॥
अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम् ।
पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत् ॥ १२ ॥
जन्म च नाम चेति । यद्यपि जातकर्म पुत्रजन्मदिवसे कर्तव्यं न तु नामकरणं तथाप्येवंनामकौ भविष्यत इति ऋपिवचनात्तच्छ्रवणमात्रमिति मन्तव्यं । संकीर्तनं च रामस्येति । रामपत्नीप्रसूतेति मुनिदारकवचः श्रवणात् । वाल्मीके: पर्णशालां गत्वा सामान्यतो दिष्ट्या दृष्टेति सूचयन्मुनिं प्रति हर्षेणाह – अर्धरात्र इत्यादिना ॥ अनेन सीता विसृष्टेति रामादित्रयव्यतिरिक्तैर्न ज्ञातमिति सूचितं ॥ ११-१२ ॥
तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः ।
व्यतीता वार्षिकी रात्रि: श्रावणी लघुविक्रमा ॥ १३ ॥
वर्षासु भवा वार्षिकी तत्रापि श्रावणी श्रावणमासवर्तिनी काचिद्रात्रिरिति । लघुविक्रम इत्यग्रेण संबन्धः । लघुविक्रमेति पाठे शीघ्रगमनेति रात्रि विशेषणं ॥ १३ ॥
प्रभाते सुमहावीर्यः कृत्वा पौर्वाह्णिकीं क्रियाम् ।
मुनिं प्राञ्जलिरामन्त्र्य ययौ पश्चान्मुखः पुनः ॥ १४ ॥
स गत्वा यमुनातीरं सप्तरात्रोषितः पथि ।
ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् ॥ १५ ॥
मुनिं वाल्मीकिं ।। १४-१५ ।।
स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः ।
कथाभिरभिरूपाभिर्वासं चक्रे महायशाः ॥ १६ ॥
सकाञ्चनाद्यैर्मुनिभिः समेतो रघुप्रवीरो रजनीं तदानीम् ।
कथाप्रकारैर्बहभिर्महात्मा विरामयामास नरेन्द्रसूनुः ॥ १७ ॥
मुनिभिः सार्धमित्यनेन सेना गङ्गातीर एव स्थापितेति सूचितम् ।। १६-१७ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्षष्टितमःसर्गः ॥ ६६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षट्षष्टितमः सर्गः ॥ ६६ ।।