श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिसप्ततितमःसर्गः
कदाचनकेनचिज्जनपदवासिनावृद्धद्विजेन मृतपुत्रादानेन राजद्वारमेत्य निजबालपुत्रमृतेः राजदोषमूलकत्वाक्रोशनपूर्वकं दुःखादुच्चैरोदनम् ॥ १ ॥
प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः ।
प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् ॥ १ ॥
ततः कतिपयाहस्सु वृद्धो जानपदो द्विजः ।
मृतं बालमुपादाय राजद्वारमुपागमत् ॥ २ ॥
अथ मृतबालकब्राह्मणस्य राजद्वारि विलापः- प्रस्थाप्येत्यादि ॥ १-२ ॥
रुदन्बहुविधा वाचः स्नेहदुःखसमन्विताः ।
असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह ॥ ३ ॥
किंनु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम् ।
यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम् ॥ ४ ॥
असकृत् पुत्र पुत्रेति स्नेहसमन्विता बहुविधा वाचः रुदन् विलपन् । रुदन् बहुविधं विप्र इति च पाठः ॥ ३-४ ॥
अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम् ।
अकाले कालमापनं मम दुःखाय पुत्रक ॥ ५ ॥
अल्पैरोभिर्निधनं गमिष्यामि न संशयः ।
अहं च जननी चैव तव शोकेन पुत्रक ॥ ६ ॥
कालमापन्नं कालवशं गतं ॥ ५-६ ॥
न स्मराम्यनृतं युक्तं न च हिंसां स्मराम्यहम् ।
सर्वेषां प्राणिनां पापं कृतं नैव स्मराम्यहम् ॥ ७ ॥
केनाद्य दुष्कृतेनायें बाल एव ममात्मजः ।
अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम् ॥ ८ ॥
न स्मरामि । अकृतत्वादेवेति भावः ॥ ७-८ ॥
नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम् ।
मृत्युरप्राप्तकालानां रामस्य विषये यथा ॥ ९ ॥
विषये देशे । यथा सर्वानुभवादितः पूर्वं नेदृशं दृष्टपूर्वं ॥ ९ ॥
रामस्य दुष्कृतं किंचिन्महदस्ति न संशयः ।
यथा हि विषयस्थानां बालानां मृत्युरागतः ॥ १० ॥
अद्य तु रामस्य दुष्कृतमित्यादि ॥ १० ॥
न ह्यन्यविषयस्थानां बालानां मृत्युतो भयम् ।
त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम् ॥ ११ ॥
त्वं राजन्नित्यादिना आभिमुख्येन वादः ॥ ११ ॥
राजद्वारि मरिष्यामि पत्न्या सार्धमनाथवत् ।
ब्रह्महत्यां ततो राम समुपेत्य सुखी भव ॥ १२ ॥
सुखी भवेत्यादिव्यङ्र्योक्तिः ॥ १२ ॥
भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्स्यसि ।
उषिताः स्म सुखं राज्ये तवास्मिन्सुमहाबल ॥ १३ ॥
उषिताः स्म । एतावत्कालमिति शेषः ॥ १३ ॥
इदं तु पतितं ह्यस्मात्तव राम वशे स्थिताः ।
कालस्य वशमापन्नाः स्वल्पं हि न हि नः सुखम् ॥ १४ ॥
तव वशे राज्ये नोस्माकं स्वल्पमपि सुखं न ॥ १४ ॥
संप्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम् ।
रामं नाथमिहासाद्य बालान्तकरणं ध्रुवम् ॥ १५ ॥
अन्तं करोतीत्यन्तकरण । कर्तरि ल्युट् । बालान्तकरणं राममासाद्य महात्मना -मिक्ष्वाकूणां विषयः संप्रत्यनाथो जातः । रक्षकसुराजरहितो जात इत्यर्थः ॥ १५ ॥
राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः ।
असद्वृत्ते तु नृपतावकाले म्रियते जनः ॥ १६ ॥
कथमित्थं कथ्यते इत्यत्राह – राजदोषैरित्यादि ॥ १६ ॥
यद्वा पुरेष्वयुक्तानि जना जनपदेषु च ।
कुर्वते न च रक्षाऽस्ति तदा कालकृतं भयम् ॥ १७ ॥
अयुक्तानि अनुचितकृत्यानि । न च रक्षास्ति अनुचितकृत्यनिवारणं यदा नास्ति तदैव कालकृतं भयं नान्यथेत्यर्थः ॥ १७ ॥
सुव्यक्तं राजदोषो हि भविष्यति न संशयः ।
पुरे जनपदे चापि ततो बालवधी ह्ययम् ॥ १८ ॥
सुव्यक्तमिति तस्मादेव ह्ययमकालवधः ॥ १८ ॥
एवं बहुविधैर्वाक्यैरुपरुध्य मुहुर्मुहुः ।
राजानं दुःखसंतप्तः सुतं तमुपगूहते ॥ १९ ॥
राजानमुपरुध्य ॥ १९ ॥
[ नृपवरमिति निन्दयन्द्रिजात्मा सुजनसमूहसमावृतोऽभ्यशान्तः ।
मृतशिशुमुपगूहयन्स्वमूर्त्या व्यलपदहो सुतशोकमभ्यगच्छत् ॥ २० ॥ ]
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिसप्ततितमःसर्गः॥७३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्रिसप्ततितमः सर्गः ॥ ७३ ॥