श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्सप्ततितमः सर्गः
सशरीरतया देवत्वप्राप्तयेतपस्यता शंबुकनाम्नाशूद्रेण रामंप्रति स्वीयवर्णविशेषस्य स्वीयतपः फलकामनायाश्चनिवेदने रामेण तच्छिरश्छेदनम् ॥ १ ॥ शंबुकवधहृष्टैरिन्द्रादिभिः राममेत्य सप्रशंसनं वरवरणचोदनेरामेण तान्प्रतिमृतब्राह्मणबालस्यपुनर्जीवितलाभवरणम् ॥ २ ॥ तैःरामंप्रतिशूद्रशिरश्छेदसमकालमेवविप्रबालस्य पुनर्जीवितलाभनिवेदनपूर्वक मगस्त्याश्रम -गमनम् ॥ ३ ॥ रामेणाप्यगस्त्याश्रममेत्य तत्प्रणामपूर्वकं तदीयातिथ्यस्वीकरणम् ॥ ४ ॥ अगस्त्येनरामप्रशंसनपूर्वकं तस्मै दिव्याभरणसमर्पणेरामेणतंप्र तितस्यतदाभरणलाभ -प्रकारप्रश्नः ॥ ५ ॥
तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः ।
अवाक्छिरास्तथा भूत्वा वाक्यमेतदुवाच ह ॥ १ ॥
शूद्रयोन्यां प्रसूतोस्मि शम्बुको नाम नामतः ।
देवत्वं प्रार्थये राम सशरीरो महायशः ॥ २ ॥
न मिथ्याऽहं वदे राम देवलोकजिगीषया ।
शूद्रं मां विद्धि काकुत्स्थ तप उग्रं समास्थितम् ॥ ३ ॥
तस्येत्यादि ॥ १-३ ॥
भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् ।
निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ॥ ४ ॥
तस्मिञ्शूद्रे हते देवाः सेन्द्रा: साग्निपुरोगमा: ।
साधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः ॥ ५ ॥
तस्य शिर इत्यन्वयः ॥ ४-५ ॥
पुष्पवृष्टिर्महत्यासीद्दिव्यानां सुसुगन्धिनाम् ।
पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ॥ ६ ॥
सुप्रीताश्चाब्रुवन्रामं देवाः सत्यपराक्रमम् ।
सुरकार्यमिदं सौम्य सुकृतं ते महामते ॥ ७ ॥
पुष्पवृष्टिः पपातेतिशेषः । पुष्पवृष्टिश्च महतीति पाठे तस्यैव प्रपञ्चनं दिव्यानामित्यादि । प्रपपातेति वृष्टिरिति शेषः ॥ ६-७ ॥
गृहाण च वरं सौम्य यत्त्वमिच्छस्यरिन्दम ।
स्वर्गभाङ्न हि शूद्रोऽयं त्वत्कृते रघुनन्दन ॥ ८ ॥
देवानां भाषितं श्रुत्वा राघवः सुसमाहितः ।
उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ॥ ९ ॥
यदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु ।
दिशन्तु वरमेतं मे ईप्सितं परमं मम ॥ १० ॥
सुरकार्यमेवाह – स्वर्गभागिति । हि यस्माच्छूद्र: तपसा स्वर्गं नार्ह: सोऽसौ त्वत्कृततपोनिवर्तनेन स्वर्गभाक् न कृतः । तस्मादेव देवकार्यं कृतमित्यर्थः ।। ८-१० ॥
ममापचाराद्यातोसौ ब्राह्मणस्यैकपुत्रकः ।
अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ॥ ११ ॥
वैवस्वतक्षयं यमगृहम् ॥ ११ ॥
तं जीवयत भद्रं वो नानृतं कर्तुमर्हथ ।
द्विजस्य संश्रुतोर्थो मे जीवयिष्यामि ते सुतम् ॥ १२ ॥
राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः ।
प्रत्यूचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ॥ १३ ॥
द्विजस्येति । ते तव सुतं जीवयिष्यामीत्ययमर्थो मे मया द्विजस्य संश्रुतः प्रतिज्ञातः ॥ १२-१३ ॥
निर्वृतो भव काकुत्स्थ सोस्मिन्नहनि बालकः ।
जीवितं प्राप्तवान्भूयः समेतश्चापि बन्धुभिः ॥ १४ ॥
यस्मिन्मुहूर्ते काकुत्स्थ शूद्रोयं विनिपातितः ।
तस्मिन्मुहूर्ते बालोसौ जीवेन समयुज्यत ॥ १५ ॥
अस्मिन्नहनि त्वया शूद्रशिरश्छेददिवसे । वरं विनापि स्वयमेव जीवितं प्राप्तवानित्यर्थः ॥ १४-१५ ॥
स्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ ।
अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ॥ १६ ॥
तस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहाद्युतेः ।
द्वादशं हि गतं वर्षं जलशय्यां समासतः ॥ १७ ॥
काकुत्स्थ तद्गमिष्यामो मुनिं समभिनन्दितुम् ।
त्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ॥ १८ ॥
स तथेति प्रतिज्ञाय देवानां रघुनन्दनः ।
आरुरोह विमानं तं पुष्पकं हेमभूषितम् ।। १९ ।।
ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः ।
रामोप्यनु जगामाशु कुम्भयोनेस्तपोवनम् ॥ २० ॥
यामेति लोडुत्तमबहुवचनम् ॥ १६-२० ॥
दृष्ट्वा तु देवान्त्संप्राप्तानगस्त्यस्तपसांनिधिः ।
अर्चयामास धर्मात्मा सर्वांस्तानविशेषतः ॥ २१ ॥
प्रतिगृह्य ततः पूजां संपूज्य च महामुनिम् ।
जग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगैः ॥ २२ ॥
गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च ।
ततोभिवादयामास ह्यगस्त्यमृषिसत्तमम् ॥ २३ ॥
सोभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।
आतिथ्यं परमं प्राप्य निषसाद नराधिपः ॥ २४ ॥
तमुवाच महातेजाः कुम्भयोनिर्महातपाः ।
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोसि राघव ॥ २५ ॥
अविशेषतः अपक्षपातत इत्यर्थः ॥ २१-२५ ॥
त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः ।
अतिथिः पूजनीयश्च मम नित्यं हृदि स्थितः ॥ २६ ॥
हृदि स्थित इति । परब्रह्मभू तत्वान्मम हृदये सदा स्थित इत्यर्थः ॥ २६ ॥
सुरा हि कथयन्ति स्वामागतं शुद्रघातिनम् ।
ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ॥ २७ ॥
उष्यतां चेह रजनी सकाशे मम राघव ।
प्रभाते पुष्पकेण त्वं गन्तासि पुरमेव हि ॥ २८ ॥
त्वं हि नारायणः श्रीमांस्त्वयि सर्वं प्रतिष्ठितम् ।
त्वं प्रभुः सर्वभूतानां पुरुषस्त्वं सनातनः ॥ २९ ॥
इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा ।
दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा ।
प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ॥ ३० ॥
जीवापितः जीवनं प्रापितः । पुगार्षः । अत्र त्वयेत्यत्र येति गायत्र्यक्षरं त्रयोविंशमित्याहुः ॥ २७-३० ॥
दत्तस्य हि पुनर्दाने सुमहत्फलमुच्यते ।
भरणे हि भवाञ्शक्तः सेन्द्राणां मरुतामपि ॥ ३१ ॥
त्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः ।
तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नराधिप ।
दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ॥ ३२ ॥
अथोवाच महात्मानमिक्ष्वाकूणां महारथः ।
रामो मतिततां श्रेष्ठः क्षत्रधर्ममनुस्मरन् ॥ ३३ ।।
प्रतिग्रहोऽयं भगवन्ब्राह्मणस्याविगर्हितः ।
[ क्षत्रियेण कथं विप्र प्रतिग्राह्यं भवेत्ततः ॥ ३४ ॥
प्रतिग्रहोहि विप्रेन्द्र क्षत्रियाणां सुगर्हितः । ]
गृह्णीयां क्षत्रियोऽहं वै कथं ब्राह्मणपुङ्गव ।
ब्राह्मणेन विशेषेण दत्तं तद्वक्तुमर्हसि ॥ ३५ ॥
एवमुक्तस्तु रामेण प्रत्युवाच महानृषिः ॥ ३६ ।।
आसन्कृतयुगे राम ब्रह्मभूते पुरायुगे ।
अपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः ॥ ३७ ॥
ता: प्रजा देवदेवेशं राजार्थं समुपाद्रवन् ॥ ३८ ॥
सुराणां स्थापितो राजा त्वया देव शतक्रतुः ।
प्रयच्छ नो हि लोकेश पार्थिवं नरपुङ्गवम् ॥ ३९ ॥
तस्मै पूजां प्रयुञ्जाना धूतपापाश्चरेमहि ।
न वसामो विना राज्ञा एष नो निश्चियः परः ॥ ४० ॥
प्रजानां वचनं श्रुत्वा निश्वयित्वाऽर्थमुत्तमम् ।
ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान् ।
समाहूयाब्रवीत्सर्वांस्तेजोभागान्प्रयच्छत ॥ ४१ ।।
ततो ददुर्लोकपालाः सर्वे भागान्त्स्वतेजसः ।
अक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः ॥ ४२ ॥
तं ब्रह्मा लोकपालानां सहांशैं समयोजयत् ।
ततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम् ॥ ४३ ॥
तत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः ।
वारुणेन तु भागेन वपुः पुष्यति राघव ॥ ४४ ॥
कौबेरेण तु भागेन वित्तमासां ददौ तदा ।
यस्तु याम्योऽभवद्भागस्तेन शास्ति स्म स प्रजाः ॥ ४५ ॥
तत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन ।
प्रतिगृह्णीष्व भद्रं ते तारणार्थं मम प्रभो ॥ ४६ ॥
तस्य तद्वचनं श्रुत्वा ऋषेः परमधार्मिकम् ।
तद्रामः प्रतिजग्राह मुनेराभरणं वरम् ॥ ४७ ॥
दत्तस्येति ॥ पारितोषिकतया येन केनापि दत्तस्योत्तमवस्तुनः स्वयमनुपभुज्यान्यस्मै दानं सुमहाफलमुच्यते । भरण इति । मरुतां देवानामपि । भरणे रक्षणे । अपिशब्दात् किमुतैतद्भरण इत्यर्थः । भरणेपि भवान् शक्तः फलानां महतामपीति च पाठः ॥ ३१-४७ ।।
प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् ।
आगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ॥ ४८ ॥
आगमं प्राप्तिमार्गं ॥ ४८ ॥
अत्यद्भुतमिदं दिव्यं वपुषा युक्तमुत्तमम् ।
कथं भगवता प्राप्तं कुतो वा केन वा हृतम् ॥ ४९ ॥
कुतूहलितया ब्रह्मन्पृच्छामि त्वां महायशः ।
आश्चर्याणां बहूनां हि निधिः परमको भवान् ॥ ५० ॥
अत्यद्भुतमिति ।। कुतो वा केन वा निमित्तेन केन पुरुषेण वा हृतमुपहृतम् । दत्तमिति यावत् ॥ ४९-५० ।।
एवं ब्रुवति काकुत्स्ये मुनिर्वाक्यमथाब्रवीत् ।
शृणु राम यथावृत्तं पुरा त्रेतायुगे युगे ॥ ५१ ॥
रमणीय प्रदेशेस्मिन्वने यद्दृष्टवानहम् ।
आश्चर्यं मे महाबाहो दानमाश्रित्य केवलम् ॥ ५२ ॥
त्रेतायुगे त्रेतायुगाख्ये ।। ५१-५२ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्सप्ततितमः सर्गः ॥ ७६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षट्सप्ततितमः सर्गः ॥ ७६ ॥