श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तसप्ततितमः सर्गः
अगस्त्येनरामंप्रतिस्वस्यदिव्याभरणलाभप्रकारकथनायश्वेतराजोपाख्यानकथनारंभः ॥ १ ॥
पुरा त्रेतायुगे राम ह्यरण्यं बहुविस्तरम् ।
समन्ताद्योजनशतं निर्मृगं पक्षिवर्जितम् ॥ १ ॥
पुरेत्यादि । पुरा त्रेतायुगे पूर्वचतुर्युगवर्तित्रेतायुगे । बहुविस्तरं बहुविस्तारम् । पक्षिवर्जितमिति । अरण्यं अभूदिति शेषः ॥ १ ॥
तस्मिन्निर्मानुषेऽरण्ये कुर्वाणस्तप उत्तमम् ।
अहमाक्रमितुं सौम्य तदरण्यमुपागमम् ।। २ ।।
तस्मिन्नरण्ये तदेकदेशे । तपः कुर्वाणोऽहं तदरण्यमाक्रमितुं आसमन्तात्पर्यटनं कृत्वा कार्येनावगन्तुं । उपागमं उपगतवान् ॥ २ ॥
तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह ।
फलमूलैः सुखास्वादैर्बहुरूपैश्च पादपैः ॥ ३ ॥
तस्यारण्यस्य मध्ये तु सरो योजनमायतम् ।
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥ ४ ॥
निर्देष्टुं परिज्ञातुं । न शशाक नाशक्नुवं । तस्य रूपमिति । सुखावहंरूपमित्यर्थः ॥ ३-४ ॥
पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम् ।
तदाश्चर्यमिवात्यर्थं सुखास्वादमनुत्तमम् ॥ ५ ॥
सुखास्वादं । सुखावहप्राशनपानीयवदित्यर्थः ॥ ५ ॥
अरजस्कं तथाऽक्षोभ्यं श्रीमत्पक्षिगणायुतम् ।
समीपे तस्य सरसो महदद्भुतमाश्रमम् ॥ ६ ॥
अरजस्कं निर्मलम् ॥ ६ ॥
पुराणं पुण्यमत्यर्थं तपस्विजनवर्जितम् ।
तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ ॥ ७ ॥
नैदाघीं निदाघसंबन्धिनीम् ॥ ७ ॥
प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे ।
अथापश्यं शवं तत्र सुपुष्टमजरं क्वचित् ॥ ८ ॥
काले साधु काल्यं, प्रातःकालकर्तव्यं स्नानकर्म उद्दिश्य उत्थाय उपचक्रमे । अपरोक्षेपि लिडार्ष: ॥ ८ ॥
पङ्क्तिभेदेन पुष्टाङ्गं समाश्रितसरोवरम् ।
तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप ॥ ९ ॥
तमर्थं चिन्तयानोहं मुहूर्तं तत्र राघव ।
उषितोस्मि सरस्तीरे किं न्विदं स्यादिति प्रभो ।। १० ।।
अथापश्यं मुहूर्तेन दिव्यमद्भुतदर्शनम् ।
विमानं परमोदारं हंसयुक्तं मनोजवम् ॥ ११ ॥
अत्यर्थं स्वर्गिणं तत्र विमाने रघुनन्दन ।
उपास्तेऽप्सरसां वीर सहस्रं दिव्यभूषणम् ॥ १२ ॥
गायन्ति दिव्यगेयानि वादयन्ति तथाऽपराः ।
क्ष्वेलयन्ति तथा चान्या नृत्यन्ति च तथाऽपराः ॥ १३ ॥
अपराश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः ।
दोधूयुर्वदनं तस्य पुण्डरीकनिभेक्षणम् ॥ १४ ॥
ततः सिंहासनं त्यक्त्वा मेरुकूटमिवांशुमान् ।
पश्यतो मे तदा राम विमानादवरुह्य च ।
तं शवं भक्षयामास स स्वर्गी रघुनन्दन ॥ १५ ॥
लक्ष्म्या उपेतमिति शेषः ॥ ९-१५ ॥
तथा भुक्त्वा यथाकामं मांसं बहुसुपीवरम् ।
अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे ॥ १६ ॥
उपस्पृश्य यथान्यायं स स्वर्गी रघुपुङ्गव ।
आरोढुमुपचक्राम विमानवरमुत्तमम् ॥ १७ ॥
संस्प्रष्टुं शुद्धाचमनं कर्तुमित्यर्थः ॥ १६-१७ ॥
तमहं देवसंकाशमारोहन्तमुदीक्ष्य वै ।
अथाहमब्रवं वाक्यं स्वर्गिणं पुरुषर्षभ ॥ १८ ॥
को भवान्देवसंकाश आहारश्च विगर्हितः ।
त्वयेदं भुज्यते सौम्य किमर्थं वक्तुमर्हसि ॥ १९ ॥
अहमित्यस्यक्रियाभेदाद्भेदः ॥ १८-१९ ।।
कस्य स्यादीदृशो भाव आहारो देवसंमतः ।
आश्चर्यं वर्तते सौम्य श्रोतुमिच्छामि तत्त्वतः ॥ २० ॥
नाहमौपयिकं मन्ये तव भक्ष्यमिदं शवम् ॥ २१ ॥
इत्येवमुक्तः स नरेन्द्र नाकी कौतूहलात्सूनुतया गिरा च ।
श्रुत्वा च वाक्यं मम सर्वमेतत्सर्वं तथा चाकथयन्ममेति ॥ २२ ॥
आहारः ईदृशो भावश्च देवसंमतः । अतः आश्चर्यमेव वर्तते । अतस्तत्सर्वं तत्त्वतः श्रोतुमिच्छामि ।। २०-२२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तसप्ततितमः सर्गः ॥ ७७ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तसप्ततितमः सर्गः ॥ ७७ ॥