श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टसप्ततितमः सर्गः
अगस्त्येनरामंप्रतिश्वेतराजोपाख्यानकथनपूर्वकं स्वस्याभरणलाभप्रकारकथनम् ॥ १ ॥
श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् ।
प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन ॥ १ ॥
शृणु ब्रह्मपुरा वृत्तं ममैतत्सुखदुःखयोः ।
अनतिक्रमणीयं हि यथा पृच्छसि मां द्विज ॥ २ ॥
पुरा वैदर्भको राजा पिता मम महायशाः ।
सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥ ३ ॥
तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत ।
अहं श्वेत इति ख्यातो यवीयान्त्सुरथोऽभवत् ॥ ४ ॥
सुखदुःखयोरिति देवत्वशवभुक्तरूपयोः कारणमिति शेषः ॥ २-४ ॥
ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् ।
तत्राहं कृतवान्राज्यं धर्म्यं च सुसमाहितः ॥ ५ ॥
एवं वर्षसहस्राणि ममातीतानि सुव्रत ।
राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः ॥ ६ ॥
धर्म्यं धर्मादनपेतं यथा भवति तथा ॥ ५-६ ॥
सोहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम ।
कालधर्मं हृदि न्यस्य ततो वनमुपागमम् ॥ ७ ॥
सोहं वनमिदं दुर्गं मृगपक्षिविवर्जितम् ।
तपश्चर्तुं प्रविष्टोस्मि समीपे सरसः शुभे ॥ ८ ॥
भ्रातरं सुरथं राज्ये ह्यभिषिच्य महीपतिम् ।
इदं सरः समासाद्य तपस्तप्तं मया चिरम् ॥ ९ ॥
सोहं वर्षसहस्राणि तपस्त्रीणि महावने ।
तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् ॥ १० ॥
निमित्ते कस्मिंश्चिदिति । केनचिन्निमित्तेन लक्षणेन सामुद्रिकादिना । विज्ञातायुः निश्चितायुरवधिः । कालधर्मे हृदि न्यस्य । स्वस्य मरणकालं ज्ञात्वेत्यर्थः ॥ ७-१० ।।
तस्य मे स्वर्गभूतस्य क्षुत्पिपासे द्विजोत्तम ।
बाधेते पैरमोदार ततोहं व्यथितेन्द्रियः ।
गत्वा त्रिभुवनश्रेष्ठं पितामहमुवाच ह ॥ ११ ॥
भगवन्ब्रह्मलोकोऽयं क्षुत्पिपासाविवर्जितः ।
कस्यायं कर्मणः पाकः क्षुत्पिपासानुगो ह्यहम् ॥ १२ ॥
आहारः कश्च मे देव तन्मे ब्रूहि पितामह ॥ १३ ॥
पितामहस्तु मामाह तवाहारः सुदेवज ।
स्वादूनि खानि मांसानि तानि भक्षय नित्यशः ॥ १४ ॥
स्वर्गभूतस्य स्वर्गं प्राप्तस्य । स्वर्गोत्र ब्रह्मलोकः ॥ ११-१४ ॥
स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् ।
अनुप्तं रोहते श्वेत न कदाचिन्महामते ॥ १५ ॥
तृप्तिर्न तेऽस्ति सूक्ष्माऽपि वने सत्त्वनिषेविते ।
पुरा तु भिक्षमाणाय भिक्षा वै यतये नृप ।
नहि दत्ता त्वयेन्द्राभ यस्मादतिथयेऽपि वै ॥ १६ ॥
स्वशरीरं त्वया पुष्टमिति ॥ मुख्यं तपो न कृतं स्वशरीरमेव केवलं त्वया पुष्टम् । अनुप्तमकृतावापं बीजं न रोहते हि ।। १५-१६ ॥
दत्तं न तेऽस्ति सूक्ष्मोपि तप एव निषेवसे ।
तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया ॥ १७ ॥
स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् ।
भक्षयित्वाऽमृतरसं तेन तृप्तिर्भविष्यति ॥ १८ ॥
यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिः ।
आगमिष्यति दुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यसे ॥ १९ ॥
स हि तारयितुं सौम्य शक्तः सुरगणानपि ।
किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् ।। २० ।।
सूक्ष्मोपि । लिङ्गव्यत्ययः आर्षः । सूक्ष्ममपि अत्यल्पमपि । ते दत्तं दानं नास्ति देवपित्रतिथिषु । किन्तु तप एव केवलं निषेवसे निषेवितवानित्यर्थः । मनसश्चेन्द्रियाणां च ह्येकाग्रं परमं तपः इत्युक्तम् । दृढसमाधिरूपं तप एव कृतमित्यर्थः ।। १७-२० ॥
सोहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् ।
आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम ॥ २१ ॥
बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया ।
क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा ॥ २२ ॥
कुर्मि करोमि ॥ २१-२२ ॥
तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोचय ।
अन्येषां न गतिर्ह्यत्र कुम्भयोनिमृते द्विजम् ॥ २३ ॥
इदमाभरणं सौम्य तारणार्थं द्विजोत्तम ।
प्रतिगृह्णीष्व भद्रं ते प्रसादं कर्तुमर्हसि ॥ २४ ॥
इदं तावत्सुवर्णं च धनं वस्त्राणि च द्विज ।
भक्ष्यं भोज्यं च ब्रह्मर्षे ददात्याभरणानि च ॥ २५ ॥
सर्वान्कामान्प्रयच्छामि भोगांश्च मुनिपुङ्गव ।
तारणे भगवन्मह्यं प्रसादं कर्तुमर्हसि ॥ २६ ॥
तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् ।
तारणायोपजग्राह तदाभरणमुत्तमम् ॥ २७ ॥
कृच्छ्रभूतस्य कृच्छ्रं प्राप्तस्य । विमोचय मामिति शेषः ।। २३-२७ ।।
मया प्रतिगृहीते तु तसिन्नाभरणे शुभे ।
मानुषः पूर्वको देहो राजषेर्विननाश ह २८ ॥
प्रनष्टे तु शरीरेऽसौ राजर्षिः परया मुदा ।
तृप्तः प्रमुदितो राजा जगाम त्रिदिवं सुखम् ॥ २९ ॥
तेनेदं शक्रतुल्येन दिव्यमाभरणं मम ।
तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम् ॥ ३० ॥
तस्मिन् तारणनिमित्ते । विननाश ह पुनर्भक्षणाय नोपस्थितमित्यर्थः ॥ २८-३० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टसप्ततितमः सर्गः ॥ ७८ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टसप्ततितमः सर्गः ॥ ७८ ।।