श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अशीतितमःसर्गः
कदाचनवसन्तेशुक्रासंनिधाने तदाश्रमंगतेनदण्डनाम्नाराज्ञाअरजानामिकायास्तत्कन्या -या बलात्कारेणोपभोगः ॥ १ ॥
एतदाख्याय रामाय महर्षि: कुम्भसंभवः ।
अस्यामेवापरं वाक्यं कथायामुपचक्रमे ॥ १ ॥
ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् ।
अकरोत्तत्र दान्तात्मा राज्यं निहतकण्टकम् ॥ २ ॥
एतदित्यादि ।। अस्यामेवापरं वाक्यमिति । प्रोक्तदानकथायामेव संबद्धं अपरं तत्पृष्टोत्तरभूतं कथान्तरमित्यर्थः ॥ १-२ ।।
अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् ।
रमणीयमुपाक्रामच्चैत्रे मासि मनोहरे ॥ ३ ॥
भार्गवः शुक्रः तस्यायमपि भार्गवः तं ॥ ३ ॥
तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि ।
विचरन्तीं वनोद्देशे दण्डोपश्यदनुत्तमाम् ॥ ४ ॥
स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः ।
अभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत् ॥ ५ ॥
कुतस्त्वमसि सुश्रोणि कस्य वाऽसि सुता शुभे ।
पीडितोऽहमनङ्गेन गच्छामि त्वां शुभानने ॥ ६ ॥
तस्य चैवंब्रुवाणस्य मोहोन्मत्तस्य कामिनः ।
भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् ॥ ७ ॥
भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः ।
अरजांनाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ॥ ८ ॥
मा मां स्पृश बलाद्राजन्कन्या पितृवशा ह्यहम् ।
गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः ।
व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः ॥ ९ ॥
मोहेन काममोहेन । उन्मत्तः उचितानुचितवचनकर्मविवेकरहितः ॥ ७-९ ॥
यदि वाऽन्यन्मया कार्यं धर्मदृष्टेन सत्पथा ।
वरयस्व नृपश्रेष्ठ पितरं मे महाद्युतिम् ॥ १० ॥
यदि वा अन्यत् कामभोगानुकूलम् ॥ १० ॥
अन्यथा तु फलं तुभ्यं भवेद्धोराभिसंहितम् ।
क्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत् ॥ ११ ॥
दास्यते चानवद्याङ्ग तव मां याचितः पिता ॥ १२ ॥
एवंब्रुवाणामरजां दण्डः कामवशं गतः ।
प्रत्युवाचं मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ॥ १३ ॥
घोराभिसंहितं महानर्थसंबद्धम् ॥ ११-१३ ॥
प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि ।
त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ॥ १४ ॥
कालं क्षेप्तुं विलम्बं कर्तुमित्यर्थः ॥ १४ ॥
त्वां प्राप्य मे वधो वा स्याच्छापो वा यदि दारुणः ।
भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ।। १५ ।।
त्वां प्राप्य मे यदि वधादिर्भवेत् । भवतु नामेति शेषः ॥ १५ ॥
एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली ।
विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ।। १६ ।।
विस्फुरन्तीं विलुठन्तीम् ॥ १६ ॥
एतमर्थं महाघोरं दण्डः कृत्वा सुदारुणम् ।
नगरं प्रययावाशु मधुमन्तमनुत्तमम् ॥ १७ ॥
अरजापि रुदन्ती सा आश्रमस्याविदूरतः ।
प्रतीक्षन्ती सुसंत्रस्ता पितरं देवसन्निभम् ॥ १८ ॥
प्रतीक्षन्ती पितरमास्त इति शेषः । प्रतीक्षन्ते स्म संत्रस्तेति पाठः ॥ १८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अशीतितमःसर्गः॥ ८० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अशीतितमः सर्गः ॥ ८० ॥