श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चाशीतितमः सर्गः
विष्णुनादेवान्प्रति इन्द्रेतद्वज्रेचैकैकांशेनस्वप्रवेशनप्रतिज्ञानपूर्वकमिन्द्रंप्रति वृत्रवध -विधानम् ॥ १ ॥ वृत्रतपोवनंगतेषु देवेषु तदीयदुस्सहतेजोसहिष्णुतयाचिन्तांगतेषु इन्द्रेण वज्रेणवृत्रशिरश्छेदनम् ॥ २ ॥ ततोब्रह्महत्यानुद्रतेनेन्द्रेण पलायनम् ॥ ३ ॥ ब्रह्महत्याग्रस्तेन्द्र मोक्षणाय देवैर्विष्णुप्रार्थने तेनदेवान्प्रति तन्मोचनायेन्द्रेणाश्वमेधयाजनचोदना ॥ ४ ॥
लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः ।
वृत्रघातमशेषेण कथयेत्याह सुव्रत ॥ १ ॥
राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः ।
भूय एव कथां दिव्यां कथयामास सुव्रतः ॥ २ ॥
सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।
विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ॥ ३ ॥
पूर्वं सौहृदबद्धोस्मि वृत्रस्य तु महात्मनः ।
तेन युष्मत्प्रियार्थं हि नाहं हन्मि महासुरम् ॥ ४ ॥
अवश्यं करणीयं च भवतां सुखमुत्तमम् ।
तस्मादुपायमाख्यास्ये येन वृत्रो निहन्यते ॥ ५ ॥
सौहृदबद्धः भक्तिबद्धः । पूर्वमिति । युष्माभिस्तद्वधप्रार्थनात्पूर्वमित्यर्थः ॥ ४-५ ॥
त्रिधाभूतं करिष्यामि ह्यात्मानं सुरसत्तमाः ।
तेन वृत्रं सहस्राक्षो वधिष्यति न संशयः ॥ ६ ॥
त्रिधाभूतं त्रेधा विभक्तमित्यर्थः ॥ ६ ॥
एकांशो वासवं यातु द्वितीयो वज्रमेव तु ।
तृतीयो भूतलं शक्रस्तदा वृत्रं वधिष्यति ॥ ७ ॥
तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् ।
एवमेतन्न सन्देहो यथा वदसि दैत्यहन् ॥ ८ ॥
भद्रं तेस्तु गमिष्यामो वृत्रासुरवधैषिणः ।
भजस्व परमोदार वासवं स्वेन तेजसा ॥ ९ ॥
ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः ।
तदरण्यमुपाक्रामन्यत्र वृत्रो महासुरः ।। १० ।।
तृतीयो भूतलं यात्विति । वृत्रदेहधारणशक्तिसिद्ध्यर्थं इन्द्रस्य वृत्रहननजब्रह्महत्याबाधानिवृत्तिर्यावद्धरारक्षणार्थं चेत्यर्थः ॥ ७-१० ॥
तेऽपश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम् ।
पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् ॥ ११ ॥
दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् ।
कथमेनं वधिष्यामः कथं न स्यात्पराजयः ॥ १२ ॥
तेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः ।
वज्रं प्रगृह्य पाणिभ्यां प्राहिणोद्वृत्रमूर्धनि ॥ १३ ॥
भूतं व्याप्तं । पिबन्तमित्यादिकं तेजोदुर्धर्षत्वपरं ।। ११-१३ ।।
कालाग्निनेव घोरेण तप्तेनैव महार्चिषा ।
पतता वृत्रशिरसा जगत्रासमुपागमत् ॥ १४ ॥
तप्तेन दीप्यमानेन । तप संतापदीत्योः इति धातुः । दीप्तेनेति च पाठः । वज्रेण छेदनहेतुना पतता वृत्रशिरसा जगत्रासमुपागमत् ॥ १४ ॥
असंभाव्यं वधं तस्य वृत्रस्य विबुधाधिपः ।
चिन्तयानो जगामाशु लोकस्यान्तं महायशाः ॥ १५ ॥
असंभाव्यमनपराधिनस्तप्यतो वृत्रस्य वधमसंभाव्यमनुचितं कृतमिति चिन्तयानो विबुधाधिपः लोकस्यान्तमन्तप्रदेशं लोकालोकात्परं तमःप्रदेशं जगाम । ब्रह्महत्याभिया पलायितोभूत् ॥ १५ ॥
तमिन्द्रं ब्रह्महत्याशु गच्छन्तमनुगच्छति ।
अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ॥ १६ ॥
हतारयः प्रणष्टेन्द्रा देवाः सग्निपुरोगमा: ।
विष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन् ॥ १७ ॥
त्वं गतिः परमेशान पूर्वजो जगतः पिता ।
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ १८ ॥
हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् ।
बाघते सुरशार्दूल मोक्षं तस्या विनिर्दिश ॥ १९ ॥
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् ।
मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ।। २० ।।
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ।
पुनरेष्यति देवानामिन्द्रत्वमकुतोभयम् ॥ २१ ॥
एवं संदिश्य तां वाणीं देवानाममृतोपमाम् ।
जगाम विष्णुर्देवेशस्तूयमानस्त्रिविष्टपम् ॥ २२ ॥
तं पलायमानमिन्द्रं । ब्रह्महत्या, त्वष्ट्रा मुनिना वृत्रस्योत्पादितत्वात् । अस्य गात्रेष्वपतच्च । ब्रह्महत्येति शेषः । तमिन्द्रं ब्रह्महत्याग्रस्तमिन्द्रमित्यर्थः ॥ १६-२२ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चाशीतितमः सर्गः ॥ ८५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चाशीतितमः सर्गः ॥ ८५ ।।