श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवतितमः सर्गः
इलेराजनि पुनःपर्यायेणपुरुषस्तंगते बुधेन संवर्तादिपरमर्षिसमाह्वानपूर्वकं तैःसहमन्त्रणे तत्रकर्दमेनाश्वमेधेनपशुपतितोषणनिर्धारणम् ॥ १ ॥ अश्वमेधतुष्टेनपशुपतिना इलायसार्वकालिक -पुंस्त्वप्राप्तिवरदानम् ॥ २ ॥ एवंरामेण भरतलक्ष्मणौप्रत्यश्वमेधमहिमानुवर्णनम् ॥ ३ ॥
तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् ।
उवाच लक्ष्मणो भूयो भरतश्च महायशाः ॥ १ ॥
तस्येति । पुरूरवस इत्यर्थः ॥ १ ॥
इला सा सोमपुत्रस्य संवत्सरमथोषिता ।
अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ॥ २ ॥
तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः ।
रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ।। ३ ।।
पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् ।
संवर्तं परमोदारमाजुहाव महायशाः ॥ ४ ॥
च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् ।
प्रमोदनं मोदकरं तथा दुर्वाससं मुनिम् ॥ ५ ॥
किमिति । संवत्सरात्परमिति शेषः । इलस्य पुरूरवसोपि पुत्रस्य सत्त्वाच्छशबिन्दोः पूर्वपुत्रस्य च सत्त्वात्पुरूरवसो राज्यप्राप्तिरभून्न वेति प्रश्नाशयः ॥ २-५ ॥
एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शिनः ।
उवाच सर्वान्सुहृदो धैर्येण सुसमाहितान् ॥ ६ ॥
सुहृदः स्वसखीभूतान् ॥ ६ ॥
अयं राजा महाबाहुः कर्दमस्य इलः सुतः ।
जानीतैनं यथाभूतं श्रेयो ह्यस्य विधीयताम् ॥ ७ ॥
तेषां संवदतामेव तमाश्रममुपागमत् ।
कर्दमस्तु महातेजा द्विजैः सह महात्मभिः ॥ ८ ॥
पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च ।
ओङ्कारश्च महातेजास्तमाश्रममुपागमत् ॥ ९ ॥
ते सर्वे हृष्टमनसः परस्परसमागमे ।
हितैषिणो बाह्विपतेः पृथग्वाक्यान्यथाब्रुवन् ॥ १० ॥
कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम् ।
द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ॥ ११ ॥
यथाभूतमिलस्य वृत्तान्तं ।। ७-११ ।।
नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् ।
नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः ।
तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम् ॥ १२ ॥
कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः ।
रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति ॥ १३ ॥
वृषध्वज एव स्वकृतशापनिवर्तकः । तत्प्रीतिश्चाश्वमेधेन सर्वदेवताप्रीतिकरेणैवेति भावः । नाश्वमेधात्पर इति । राज्ञां ब्रह्महत्यान्तसर्वपापनिवारक इति शेषः । प्रियश्चैव महात्मन इति । यद्यपि प्रजापतिदेवताकः प्रजापतिप्रीतिकरोश्वमेधः तथापि सर्वदेवताप्रीतिकरत्वादस्य रुद्रप्रीतिकरत्वमपि सिद्धं । वस्तुतस्तु यज्ञो वै विष्णुः इति श्रुतिवचनाद्यज्ञपुरुषाराधनमश्वमेधः । विष्ण्वाराधनमित्युपक्रमे लक्ष्मणोक्त्या विष्ण्वाराधनमेवाश्वमेधः । तदाराधनत्वेनैव हरस्यापि प्रियत्वं । प्रकृतब्रह्महत्यावारकत्वेन तस्य प्रशंसार्थं पुनरपि रामेण तद्विषयार्थवाद उक्तः । एतेन यत्केनचिदुक्तं लक्ष्मणेन विष्ण्वाराधनयज्ञे प्रस्तुते पुनः रामेण रुद्राराधनत्वप्रदर्शनं विष्ण्वपेक्षया रुद्राधिक्यस्य प्रतिपादनार्थमिति, तद्दूरोत्सारितं । ब्रह्महत्यावारकप्रदर्शनार्थत्वाद्रामोक्तस्य ।। १२-१३ ॥
संवर्तस्य तु राजर्षेः शिष्यः परपुरंजयः ।
मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् ॥ १४ ॥
ततो यज्ञो महानासीद्बुधाश्रमसमीपतः ।
रुद्रश्च परमं तोषं जगाम सुमहायशाः ॥ १५ ।।
अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा ।
उमापतिर्द्विजान्त्सर्वानुवाच इलसन्निधौ ॥ १६ ॥
प्रीतोस्मि हयमेधेन भक्त्या च द्विजसत्तमाः ।
अस्य बाह्वीपतेश्चैव किं करोमि प्रियं शुभम् ॥ १७ ॥
तथा वदति देवेशे द्विजास्ते सुसमाहिताः ।
प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला ॥ १८ ॥
ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः ।
इलायै स महातेजा दत्त्वा चान्तरधीयत ॥ १९ ॥
निवृत्ते हयमेधे तु गतश्चादर्शनं हरः ।
यथागतं द्विजाः सर्वे ह्यगच्छन्दीर्घदर्शिनः ॥ २० ॥
समुपाहरत् संभारजातमुपहृतवान् ॥ १४-२० ।।
राजा तु बाह्वीमुत्सृज्य मध्यदेशे ह्यनुत्तमम् ।
निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ॥ २१ ॥
बाह्लिमुत्सृज्येति । ज्येष्ठपुत्रशशबिन्द्वधिष्ठितमिति शेषः ॥ २१ ॥
शशबिन्दुस्तु राजर्षिर्बाह्विं परपुरञ्जयः ।
प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली ॥ २२ ॥
बाह्लिमिति । अध्युवासेति शेषः ॥ २२ ॥
स काले प्राप्तवाँलोकमिलो ब्राह्ममनुत्तमम् ।
ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ।। २३ ।।
काले शरीरावसानकाले । ब्राह्मं ब्रह्मसंबन्धिनं ॥ २३ ॥
ईदृशो ह्यश्वमेधस्य प्रभाव: पुरुषर्षभौ ।
स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ॥ २४ ॥
यच्चान्यदिति । उक्तब्रह्मलोकादित्यर्थः ॥ २४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवतितमः सर्गः ॥ ९० ।।
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने नवतितमः सर्गः ॥ ९० ॥