श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिनवतितमःसर्गः
रामाश्वमेधदर्शनाय कुशलवादिशिष्यगणेन सह समागतवतावाल्मीकिना ऋषिवाटनिक -टेपर्णशालानिर्मापणेनतत्रवासः ॥ १ ॥ तथा कुशलवौप्रति परेद्युः प्रभाते यज्ञवाटनिकटादिषु -श्रीरामायणगानचोदनपूर्वकं रामेणप्रश्ने आत्मनोर्वाल्मीकिशिष्यत्वकीर्तननियोजनम् ॥ २ ॥
वर्तमाने तथाभूते यज्ञे च परमाद्भुते ।
सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः ॥ १ ॥
तथाभूते प्रागुक्तप्रकारं प्रवृत्ते ।। १ ।।
स दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम् ।
एकान्ते ऋषिवाटानां चकार उटजान्छुभान् ॥ २ ॥
ऋषिवाटानामिति । समीप इति शेषः । उटजानिति बहुवचनं बहुशिष्यत्वात् ॥ २ ॥
शकटांश्च बहून्पूर्णान्फलमूलैश्च शोभनान् ।
वाल्मीकिवाटे रुचिरे स्थापयन्नविदूरतः ॥ ३ ॥
आसीत्सुपूजितो राज्ञा मुनिभिश्च महात्मभिः ।
वाल्मीकिः सुमहातेजा न्यवसत्परमात्मवान् ।। ४ ।।
स शिष्यावब्रवीद्धृष्टौ युवां गत्वा समाहितौ ।
कृत्स्नं रामायणं काव्यं गायेथां परया मुदा ॥ ५ ॥
ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च ।
रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च ॥ ६ ॥
रुचिर इति । अभूदिति शेषः ॥ ३-६ ॥
रामस्य भवनद्वारि यत्र कर्म प्रवर्तते ।
ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः ॥ ७ ॥
यत्र कर्म चेति । अश्वमेधयाग इत्यर्थः ॥ ७ ॥
इमानि च फलान्यत्र स्वादूनि विविधानि च ।
जातानि पर्वताग्रेषु चास्वाद्यास्वाद्य गायताम् ।। ८ ।।
अत्रास्माकं वाटे । विद्यमानान्यास्वाद्य । गायतामिति लोट् प्रथमपुरुषद्विवचनं । यदा यदा श्रमः तदा तदैवं कुरुतं । भवन्ताविति शेषः ॥ ८ ॥
न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै ।
मूलानि च सुमृष्टानि नगराद्बहिरास्यथः ॥ ९ ॥
नगराद्बहिरास्यथः । क्षत्रियकुलेष्विति शेषः । नगराद्बहि: उटज इत्यर्थः । आस्यथः अधितिष्ठतमिति यावत् । आसेच्छान्दसः श्यन् परस्मैपदं च ॥ ९ ॥
यदि शब्दापयेद्रामः श्रवणाय महीपतिः ।
ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् ॥ १० ॥
शब्दापयेत् आह्वयेत् ॥ १० ॥
दिवसे विंशतिः सर्गा गेया मधुरया गिरा ।
प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टा मया पुरा ॥ ११ ॥
लोभश्चापि न कर्तव्यः स्वल्पोपि धनकाङ्क्षया ।
किं धनेनाश्रमस्थानां फलमूलोपजीविनाम् ।। १२ ।।
तत्र रामायणे । बहुभिः सर्गप्रमाणैर्यथा मया पुरा सर्गा उद्दिष्टाः तेषु सर्गेषु दिवसे दिवसे विंशतिसर्गा गेयाः ॥ ११-१२ ॥
यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ ।
आवां वाल्मीकिशिष्यौ स्वो ब्रूतमेवं नराधिपम् ।। १३ ।।
आवां वाल्मीकिशिष्यौ स्व इत्येवं ब्रूतं नामुकदारकाविति ।। १३ ।।
इमास्तन्त्री: सुमधुराः स्थानं वा पूर्वदर्शनम् ।
सूर्च्छयित्वा सुमधुरं गायेथां विगतज्वरौ ॥ १४ ॥
इमास्तन्त्रीरिति । वीणाशिरा इत्यर्थः । अपूर्वदर्शनं अपूर्वस्वराणां दर्शनं यत्र तत्तथा तादृशं स्थानं षड्जादिस्वरभेदसिद्धये वीणादण्डोपरि कल्पितं शिराणां स्पर्शविशेषसिद्धिप्रयोजनस्थानपङ्कि: स्थानमित्युच्यते । तद्वा मूर्च्छयित्वा तत्र वा नादव्याप्तिं कृत्वा ॥ १४ ॥
आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् ।
पिता हि सर्वभूतानां राजा भवति धर्मतः ॥ १५ ॥
तद्युवां हृष्टमनसौ श्वः प्रभाते समास्थितौ ।
गायेथां मधुरं गेयं तन्त्रीलयसमन्वितम् ॥ १६ ॥
इति सन्दिश्य बहुशो मुनिः प्राचेतसस्तदा ।
वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः ॥ १७ ॥
सन्दिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ ।
तथैव करवावेति निर्जग्मतुररिन्दमौ ॥ १८ ॥
आदिप्रभृतीति संक्षेपमारभ्येत्यर्थः । पार्थिवं न चावज्ञायेति । तत्समीपे स्थलान्तर इव लीलापरिहासादिकं न कर्तव्यमित्यर्थः । तत्र हेतु:-पिता हि सर्वभूतानामिति ।। १५-१८ ।।
तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा ।
समुत्सुकौ तौ सममृषतुर्निशां यथाऽश्विनौ भार्गवनीतिसंहिताम् ॥ १९ ॥
नीतिसंहितां अश्विनाविव तौ तां वाणीं हृदये निवेश्य । श्वो गातव्यां स्मृत्वेत्यर्थः । निशां निशायां । सममिति । ऋषिभिरित्यर्थः । सममूषतुरिति च पाठः । भार्गव-नीतिसंस्कृतौ इति पाठान्तरे तु वाल्मीकिशिक्षितावित्यर्थः ॥ १९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिनवतितमःसर्गः॥९३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्रिनवतितमः सर्गः ॥ ९३ ॥