श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षण्णवतितमः सर्गः
परेद्युः प्रभाते रामाह्वापनेन सभांप्रविष्टेचातुर्वर्ण्ये सीतयासह समागतेन वाल्मीकिना रामंप्रति शपथकरणेन सीताया निर्दोषत्वोद्धोषपूर्वकं कुशलवयोः सीतारामसुतत्वोत्कीर्तनेनसह सीतायाः शपथकरणेऽभ्यनुज्ञानप्रार्थनम् ॥ १ ॥
तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः ।
ऋषीन्त्सर्वान्महातेजाः शब्दापयति राघवः ॥ १ ॥
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।
विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः ॥ २ ॥
पुलस्त्योपि तथा शक्तिर्भार्गवश्चैव वामनः ।
मार्कण्डेयश्च दीर्घायुमौद्गल्यथ महायशाः ॥ ३ ॥
गर्गश्च च्यवनश्चैव शतानन्दश्च धर्मवित् ।
भरद्वाजश्व तेजस्वी ह्यग्निपुत्रश्च सुप्रभः ॥ ४ ॥
नारदः पर्वतश्चैव गौतमश्च महायशाः ।
कात्यायनः सुयज्ञश्च ह्यगस्त्यस्तपसांनिधिः ॥ ५ ॥
एते चान्ये च बहवो मुनयः संशितव्रताः ।
कौतूहलसमाविष्टाः सर्व एव समागताः ॥ ६ ॥
राक्षसाश्च महावीर्या वानराश्च महाबलाः ।
सर्व एव समाजग्मुर्महात्मानः कुतूहलात् ॥ ७ ॥
क्षत्रिया ये च शूद्राश्च वैश्याश्चैव सहस्रशः ।
नानादेशगताश्चैव ब्राह्मणाः संशितव्रताः ॥ ८ ॥
ज्ञाननिष्ठाः कर्मनिष्ठा योगनिष्ठास्तथाऽपरे ।
सीताशपथवीक्षार्थं सर्व एव समागताः ॥ ९ ॥
तदा समागतं सर्वमश्मभूतमिवाचलम् ।
श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् ॥ १० ।।
तमृषिं पृष्ठतः सीता त्वन्वगच्छदवाङ्मुखी ।
कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् ॥ ११ ॥
दृष्ट्वा श्रुतिमिवायान्तीं ब्रह्माणमनुगामिनीम् ।
वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् ।। १२ ।।
शब्दापयति आह्वयति स्म । यङभाव आर्षः ॥ १-१२ ॥
ततो हलहलाशब्द: सर्वेषामेवभाबभौ ।
दुःखजन्मविशालेन शोकेनाकुलितात्मनाम् ॥ १३ ॥
साधु रामेति केचित्तु साधु सीतेति चापरे ।
उभावेव च तत्रान्ये प्रेक्षकाः संप्रचुक्रुशुः ॥ १४ ॥
ततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः ।
सीतासहायो वाल्मीकिरिति होवाच राघवम् ॥ १५ ॥
इयं दाशरथे सीता सुव्रता धर्मचारिणी ।
अपवादैः परित्यक्ता ममाश्रमसमीपतः ॥ १६ ॥
लोकापवादभीतस्य तव राम महाव्रत ।
प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि ॥ १७ ॥
दुःखजन्मविशालेन दुःखोत्पत्त्या विस्तीर्णेन ।। १३-१७ ॥
इमौ तु जानकी पुत्रावुभौ च यमजातकौ ।
सुतौ तवैव दुर्धर्षो सत्यमेतद्ब्रवीमि ते ॥ १८ ॥
यमजातकौ यमलतयोत्पन्नौ ॥ १८ ॥
प्रचेतसोऽहं दशमः पुत्रो राघवनन्दन ।
न स्मराभ्यनृतं वाक्यमिमौ तु तव पुत्रकौ ॥ १९ ॥
बहुवर्षसहस्राणि तपश्चर्या मया कृता ।
नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली ॥ २० ॥
यथाहं प्रचेतसो दशमः औरसः पुत्रः तथैव तवेमौ पुत्रौ । अनृतं वाक्यं अहं मनसा न स्मरामि । कथनं तु दूरत एवेति भावः ॥ १९-२० ॥
मनसा कर्मणा वाचा भूतपूर्वं न किल्बिषम् ।
तस्याः फलमुपाश्नीयामपापा यदि मैथिली ॥ २१ ॥
तस्याः फलमिति । यथेयमपापा एवं तपश्चर्यायाः फलं उपाश्नीयां । यथा तपसः फलभोगः निश्चितस्तथेयमपापेत्यर्थः । तस्याः फलमुपाश्नीयामपापा यदि मैथिलीति च पाठः । तस्य किल्बिषानाचरणस्येत्यर्थः ॥ २१ ॥
अहं पञ्चसु भूतेषु मनष्षष्ठेषु राघव ।
विचिन्त्य सीतां शुद्धेति जग्राह वननिर्झरे ॥ २२ ॥
इयं शुद्धसमाचारा अपापा पतिदेवता ।
लोकापवादभीतस्य प्रत्ययं तव दास्यति ॥ २३ ॥
तस्मादियं नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण तदा प्रविष्टा ।
लोकापवादकलुषीकृतचेतसा या त्यक्ता त्वया प्रियतमा विदिताऽपि शुद्धा ॥ २४ ॥
पञ्चसु भूतेष्विति । श्रोत्रादिपञ्चेन्द्रियेष्वित्यर्थः ॥ २२-२४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षण्णवतितमः सर्गः ॥ ९६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षण्णवतितमः सर्गः ॥ ९६ ॥