श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टनवतितमः सर्गः
सीतायारसातल प्रवेशानन्तरंदूयमानमानसेनरामेण चिरंरोदनपूर्वकंभूदेवींप्रतिसक्रोधं -सीतायाः पुनरानयनाभावेतस्याभस्मीकरणप्रतिज्ञानम् ॥ १ ॥ चतुर्मुखेनरामंपतितस्यविष्णुत्व स्मारणपूर्वकंसीतायाः सुखेननागलोकगमननिवेदनपूर्वकं पुनः स्वर्गेतत्संगमस्यभविष्यत्व -कथनम् ॥ २ ॥ चतुर्मुखेनसभामध्येरामंप्रति एतत्काव्यस्यकाव्योत्तमत्वस्य वाल्मीकिकृतत्वस्य च निवेदनेन लक्ष्मणादिवर्जंतेनैवोत्तरकथाश्रवणचोदनपूर्वकंदेवैः सहत्रिदिवगमनम् ॥ ३ ॥ ततोरामेणवाल्मीकिंप्रतिपरेद्युरुत्तरकथाप्रवर्तनचोदन पूर्वकंजनविसर्जनेनकुशलवाभ्यांसह -पर्णशालाप्रवेशः ॥ ४ ॥
रसातलं प्रविष्टायां वैदेह्यां सर्ववानराः ।
चुक्रुशुः साधुसाध्वीति मुनयो रामसन्निधौ ॥ १ ॥
दण्डकाष्ठमवष्टभ्य बाष्पव्याक्कुलितेक्षणः ।
अवाक्छिरा दीनमना रामो ह्यासीत्सुदुःखितः ॥ २ ॥
स रुदित्वा चिरं कालं बहुशो बाष्पमुत्सृजन् ।
क्रोधशोकसमाविष्टो रामो वचनमब्रवीत् ।। ३ ।।
दण्डरूपं काष्ठं दण्डकाष्ठं ॥ २-३ ॥
अभूतपूर्वं शोकं मे मनः स्प्रष्टुमिवेच्छति ।
पश्यतो मे यथा नष्टा सीता श्रीरिव रूपिणी ॥ ४ ॥
मनः-शोकमिव मनःशोकमेव स्प्रष्टुमिति । पश्यतो मेद्य सा नष्टेति । मामप्यनादृत्य ॥ ४ ॥
साऽदर्शनं पुरा सीता लङ्कापारे महोदधेः ।
ततश्चापि मयानीता किं पुनर्वसुधातलात् ॥ ५ ॥
वसुधे देवि भवति सीता निर्यात्यतां मम ।
दर्शयिष्यामि वा रोषं यथा मामवगच्छसि ॥ ६ ॥
कामं श्वश्रूर्ममैव त्वं त्वत्सकाशाद्धि मैथिली ।
कर्षता हलहस्तेन जनकेनोद्धृता पुरा ॥ ७ ॥
तस्मान्निर्यात्यतां सीता विवरं वा प्रयच्छ मे ।
पाताले नाकपृष्ठे वा वसेयं सहितस्तया ॥ ८ ॥
नीता प्रापितवतीत्यर्थः । सा अदर्शमिति पदच्छेदः ॥ ५-८ ।।
आनय त्वं हि तां सीतां मत्तोऽहं मैथिलीकृते ।
न मे दास्यसि चेत्सीतां यथारूपां महीतले ॥ ९ ॥
सपर्वतवनां कृत्स्नां विधमिष्यामि ते स्थितिम् ।
नाशयिष्याम्यहं भूमिं सर्वमापो भवत्विह ॥ १० ॥
एवंब्रुवाणे काकुत्स्थे क्रोधशोकसमन्विते ।
ब्रह्मा सुरगणैः सार्धमुवाच रघुनन्दनम् ॥ ११ ॥
मत्तः प्राप्तमोह इत्यर्थः । महीतल इति । प्रविष्टामिति शेषः ।। ९-११ ।।
राम राम न सन्तापं कर्तुमर्हसि सुव्रत ।
स्मर त्वं पूर्वकं भावं मन्त्रं चामित्रकर्शन ॥ १२ ॥
स्मर त्वं पूर्वकं भावं पूर्वकं स्वभावं विष्णुत्वमित्यर्थः । मन्त्रं देवै: सहावताराय कृतं विचारं ॥ १२ ॥
न खलु त्वां महाबाहो स्मारयेयमनुत्तमम् ।
इमं मुहूर्तं दुर्धर्ष स्मर त्वं जन्म वैष्णवम् ॥ १३ ॥
त्वामहं न स्मारयेयं । सर्वज्ञत्वादितिभावः । पूर्वकं भावमित्युक्तं विशिनष्टि-इममिति ॥ १३ ॥
सीता हि विमला साध्वी तव पूर्वपरायणा ।
नागलोकं सुखं प्रायात्त्वदाश्रयतपोबलात् ॥ १४ ॥
स्वर्गे ते सङ्गमो भूयो भविष्यति न संशयः ।
अस्यास्तु परिषन्मध्ये यद्ब्रंवीमि निबोध तत् ॥ १५ ॥
तव पूर्वपरायणा तव पूर्वभावप्रवणा । तव प्रकृतिप्राप्तिसमुत्सुकेत्यर्थः ॥ १४-१५ ॥
एतदेव हि काव्यं ते काव्यानामुत्तमं श्रुतम् ।
सर्व विस्तरतो राम व्याख्यास्यति न संशयः ॥ १६ ॥
एतत्काव्यमेवोत्तमं श्रुतं तत्सर्वं ज्ञापनीयं । विस्तरतो व्याख्यास्यति ज्ञापयिष्यति ॥ १६ ॥
जन्मप्रभृति ते वीर सुखदुःखोपसेवनम् ।
भविष्यत्युत्तरं चेह सर्वं वाल्मीकिना कृतम् ॥ १७ ॥
तदेवाह-जन्मप्रभृतीत्यादि ॥ भविष्यत्युत्तरं चेति । सीतोपसंहारादुत्तरं च यत्ते चरितं भविष्यति तत्सर्वमपि मदनुग्रहात् त्रिकालज्ञेन वाल्मीकिना कृतं कृतनिबन्धनं इह काव्ये । भविष्यत्युत्तरं चेति च पाठः ॥ १७ ॥
आदिकाव्यमिदं राम त्वयि सर्वं प्रतिष्ठितम् ।
न ह्यन्योऽर्हति काव्यानां यशोभाग्राघवादृते ।। १८ ।।
त्वयि त्वच्चरितविषये । राघवादृतेन्यः काव्यप्रकाशितयशोभाक् कश्चिदपि काव्यनायकतां नार्हति । अत-एवाद्यापि सर्वे कवयो रामचरितमेव प्रायेणाश्रयन्ते ॥ १८ ॥
श्रुतं ते पूर्वमेतद्ध मया सर्वं सुरैः सह ।
दिव्यमद्भुतरूपं च सत्यवाक्यमनावृतम् ॥ १९ ॥
अनावृतं अज्ञानावरणरहितं ॥ १९ ॥
स त्वं पुरुषशार्दूल धर्मेण सुसमाहितः ।
शेषं भविष्यं काकुत्स्थ काव्यं रामायणं शृणु ॥ २० ॥
भविष्यं भविष्यद्विषयं ॥ २० ॥
उत्तरं नाम काव्यस्य शेषमत्र महायशः ।
तच्छृणुष्व महातेज ऋषिभिः सार्धमुत्तमम् ॥ २१ ॥
उत्तरं नामेति उत्तरकाण्डाख्यकाव्यं शेषभूतं ॥ २१ ॥
न खल्वन्येन काकुत्स्थ श्रोतव्यमिदमुत्तमम् ।
परमं ऋषिणा वीर त्वयैव रघुनन्दन ॥ २२ ॥
एतावदुक्त्वा वचनं ब्रह्मा त्रिभुवनेश्वरः ।
जगाम त्रिदिवं देवो देवैः सह सबान्धवैः ॥ २३ ॥
परमर्षिणा परमराजर्षिणा ॥ २२-२३ ।।
ये च तत्र महात्मान ऋषयो ब्राह्मलौकिकाः ।
ब्रह्मणा समनुज्ञाता न्यवर्तन्त महौजसः ।
उत्तरं श्रोतुमनसो भविष्यं यच्च राघवे ॥ २४ ॥
ततो रामः शुभां वाणीं देवदेवेन भाषिताम् ।
श्रुत्वा परमतेजस्वी वाल्मीकिमिदमब्रवीत् ॥ २५ ॥
भगवञ्श्रोतुमनस ऋषयो ब्राह्मलौकिकाः ।
भविष्यदुत्तरं यन्मे श्वोभूते संप्रवर्तताम् ॥ २६ ॥
ये च तत्रेति । यज्ञसदसीत्यर्थः । ब्राह्मलौकिकाः ब्रह्मलोकार्हाः ॥ २४-२६ ॥
एवं विनिश्चयं कृत्वा संप्रगृह्य कुशीलवौ ।
तं जनौघं विसृज्याथ पर्णशालामुपागमत् ।
तामेव शोचतः सीतां सा व्यतीयाय शर्वरी ॥ २७ ॥
पर्णशालामुपागमदिति । यज्ञावसान एव सीतान्तर्धानात् ततः परं दीक्षाराहित्येन स्थलान्तरस्य सुगमत्वात् पुत्राभ्यां सह वाल्मीकिपर्णशालामेव रामः प्राप्तवानित्यर्थः ॥ २७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टनवतितमः सर्गः ॥ ९८ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टनवतितमः सर्गः ॥ ९८ ॥