।। श्रीः ।।
श्रीमद्वाल्मीकियरामायणम् ।
श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम्
श्रीरामचन्द्राय नमः
॥ युद्धकाण्डः॥
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे प्रथमः सर्गः
हनुमन्मुखादवगतसीतावृत्तान्तेनश्रीरामेणहनुमन्तंप्रतिप्रशंसनपूर्वकं तस्कृतसीतान्वेषणा -युपकारप्रत्युपकारतयासर्वस्वदानप्रतिनिधिभूत स्वात्मप्रदानरूपपरिष्वङ्ग करणम् ॥ १ ॥
तथा सुग्रीवसंनिधौहनुमन्तंप्रति सागरस्यदुस्तरतयासीताम्वेषणा दिप्रयासस्यनिष्फलत्योत्त्या सागरतरणोपायानधिगमेनपरिचिन्तनम् ॥ २ ॥
श्रुत्वा हनुमतो वाक्यम् यथावदभिभाषितम् ।
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥ १ ॥
श्रीरामचन्द्राय नमः ॥ आचार्यं शठकोपदेशिकवरं प्राचार्यपारंपरीमप्यानम्य सनारदं कुशलवाचार्यं । मुनीनां वरम् । पूर्वाचार्यकृता विलोक्य बहुधा व्याख्याः सतां प्रीतये कुर्वे संप्रति युद्धकाण्डविवृतिं श्रीमत्किरीटाभिधाम् ॥ उक्तं पुरुषकारभूताया लक्ष्म्याः कृत्यं सुन्दरकाण्डे । अथोपायकृत्यं वक्तुं षष्ठः काण्ड आरभ्यते । तत्र स्वामिना कृतकार्ये नृत्ये एवं वर्तितव्यमित्यमुमर्थमुपदेष्टुं सुग्रीवादीनामुत्साहं वर्धयन् समाहृतसीतावृत्तान्तं हनुमन्तं रामः सत्करोति प्रथमे सर्गे – श्रुत्वेति । अत्र गायत्र्यक्षरं – मकारः । यथावत् यथावस्थितप्रकारेण । अभिभाषितं उक्तं । उत्तरं प्रियश्रवणोत्तरकालार्हं ॥ १ ॥
कृतम् हनुमता कार्यम् सुमहद्भुवि दुर्लभम् ।
मनसापि यदन्येन न शक्यम् धरणीतले ॥ २ ॥
अथ प्रत्यक्षे गुरवः स्तुत्याः परोक्षे मित्रबान्धवाः । कर्मान्ते दासभृत्याश्च न कदाचन पुत्रका: इति वचनात्कर्मान्ते दासं स्तौति – कृतमित्यादिना । अत्र महदित्यनेन सागरतरणमुच्यते । सुमहदित्यनेन लङ्काप्रवेशः । दुर्लभमित्यनेन लङ्काधर्षणं । मनसापि न शक्यमित्यनेन पुनर्निर्गमः । प्रथमं सागर एव न तर्तुं शक्यः । तीर्त्वापि तं लङ्का न प्रवेष्टुं । प्रविश्यापि न धर्षयितुं । धर्षयित्वापि न ततो निर्गन्तुमिति भावः ॥ २ ॥
न हि तम् परिपश्यामि यस्तरेत महार्णवम् ।
अन्यत्र गुरुडाद्वायोरन्यत्र च हनूमतः ॥ ३ ॥
महत्त्वमुपपादयति — न हीति ॥ गरुडवायू मिलित्वा तरेतां । अयं त्वेक एवातरदित्यर्थः ॥ ३ ॥
देवदानवयक्षाणाम् गन्धर्वोरगरक्षसाम् ।
अप्रधृष्याम् पुरीम् लङ्काम् रावणेन सुरक्षिताम् ॥ ४ ॥
[यो वीर्यबलसंपन्नो द्विषद्भिरनिवारितः] ।
प्रविष्टः सत्त्वमाश्रित्य श्वसन्को नाम निष्क्रमेत् ॥ ५ ॥
सुमहत् मनसापि न शक्यमित्येतद्वयमप्युपपादयति – देवदानवेत्यादिना सार्धश्लोकेन ॥ सत्त्वं बलं । आश्रित्य श्वसन् जीवन् । निष्क्रमेत् निष्क्रामेत् । लङ्कां प्रविश्य स्वबलेन पुनर्निर्गच्छन् हनुमतोऽन्यः कोपि नास्तीत्यर्थः ।। ४–५ ।।
को विशेत्सुदुराधर्षाम् राक्षसैश्च सुरक्षिताम् ।
यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः ।। ६ ॥
दुर्लभ त्वमुपपादयति — को विशेदिति ॥ ६ ॥
भृत्यकार्यम् हनुमता सुग्रीवस्य कृतम् महत् ।
एवम् विधाय स्वबलम् सदृशम् विक्रमस्य च ॥ ७ ॥
न केवलं स्वामिनियुक्त कार्यकरणेन भृत्यकार्यं निर्व्यूडमनेन किन्त्वनियुक्त प्रकृतकार्यानुकू लकार्यान्तरकरणेनापि महत्कार्यं संसाधितमित्याह – भृत्येति ॥ विक्रमः अतिशक्तिः । विक्रमस्त्वतिशक्तिता इत्यमरः । विक्रमस्य सदृशं स्वबलं अशोक वनिकाभङ्गादिकं पौरुषं । स्वयं आत्मना स्वामिनि- योगं विना । विधाय सुग्रीवस्य भृत्यकार्यं भृत्येन कर्तव्यं । महत् अधिकं कृतमित्यर्थः ॥ ७ ॥
यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे ।
कुर्यात्तदुनुरागेण तमाहुः पुरुषोत्तमम् ॥ ८ ॥
हनुमत उत्तमभृत्यत्वं दर्शयितुमुत्तममध्यमाधमभृत्यानां क्रमेण लक्षणमाह – यो हीत्यादिना ॥ यो भृत्यः भर्त्रा स्वामिना । दुष्करे कर्मणि नियुक्तः तत् कृत्वा । अनुरागेण स्वामिभक्त्यतिशयेन । तदपेक्षितमनियुक्तमपि कार्यं कुर्यात् । तं पुरुषोत्तमं उत्तमभृत्यं । आहुः ॥ ८ ॥
नियुक्तो यः परम् कार्यम् न कुर्यान्नृपतेः प्रियम् ।
भृत्यो युक्तः समर्थश्च तमाहुर्मध्यम् नरम् ॥ ९ ॥
भर्त्रा नियुक्तः यो भृत्यः युक्तः उत्साहयुक्तः समर्थश्च । नृपतेः स्वामिनः । प्रियं परं कार्यं स्वामिनिर्दिष्टाधिकं कार्यं । न कुर्यात् । तं मध्यमं नरं मध्यमभृत्यं । आहुः । भृत्यस्तु यः परं । कार्यं न कुर्यान्नृपतेः प्रियम् । भृत्योऽभृत्यस्समर्थोपि तमाहुर्मध्यमं नरं इति पाठान्तरं । तत्र त्वयमर्थः । यस्तु भृत्यस्समर्थोपि परं कार्यं नकुर्यात् उक्तमात्रमेव कुर्यात्स भृत्योऽभृत्यः उक्तानुष्ठानात् भृत्यः अधिकाकरणादभृत्यः । ततस्तं मध्यममाहुरिति ॥ ९ ॥
नियुक्तो नृपतेः कार्यम् न कुर्याद्यः समाहितः ।
भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम् ॥ १० ॥
समाहितः कार्यान्तराव्यग्रः । युक्तः समर्थश्च यो भृत्यो नियुक्तोपि नृपतेः कार्यं नृपतेः उक्तमात्रमपि कार्यं । सम्यङ्ग कुर्यात् तं पुरुषाधमं अधमभृत्यं । आहुः ॥ १० ॥
तन्नियोगे नियुक्तेन कृतम् कृत्य हनूमता ।
न चात्मा लघुताम् नीतः सुग्रीवश्चापि तोषितः ॥ ११ ॥
उक्तेषु त्रिविधभृत्येषूत्तमभृत्योयमित्याहतदिति ॥ तत् उत्तमभृत्यलक्षणलक्षितत्वात् । नियुज्यतेस्मिन्निति नियोगः कार्यं तस्मिन्नियुक्तेन उत्तमभृत्येन कृत्यं कर्तव्यं कार्यं हनुमता कृतं । किंचात्मा स्वयं लघुतां न नीतः । राक्षसैरपराजितत्वात् । सुग्रीवश्चापि तोषितः उक्तकार्यातिरिक्त कार्यकरणात् ॥ ११ ॥
अहम् च रघुवंशश्च लक्ष्मणश्च महाबलः ।
वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ॥ १२ ॥
न केवलं सुग्रीवतोषणं धर्मपरिरक्षणं चास्माकमासीदित्याह – अहमिति ॥ धर्मतः धर्मे । सप्तम्यर्थे तसिः । धर्मतः परिरक्षिताः धर्मे स्थापिताः । धर्मेस्थापनं चात्राधर्मान्मोचनं । यदि हनुमता सीता न दृश्येत तदाहं तावदात्मानं जह्यां । ततो लक्ष्मणादयश्च । तत आत्महानिरूपोऽधर्मस्सर्वेषां स्यादिति भावः । यद्वा वैदेहीदर्शनरूपेण धर्मेण उपकारेण सर्वे वयं परिरक्षिताः निरपवादा: कृताः स्मेति भावः ।। १२ ॥
इदं तु मम दीनस्य मनो भूयः प्रकर्षति ।
यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम् ।।१३ ।।
एवं निरतिशयानन्दकरं वचनं कथयतो हनुमत: तत्सदृशप्रत्युपकारालाभात् खिद्यते – इदं त्विति ॥ प्रकर्षति व्याकुलयति संतापयति वा । कुर्मि करोमि ॥ १३ ॥
एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतः ।
मया कालमिमम् प्राप्य दत्तस्तस्य महात्मनः ॥ १४ ।।
स च संतापस्सर्वस्वदानरूपेण प्रत्युपकारेण विना न शाम्यति । तस्य सर्वस्वदानस्य मया क्रियमाण: परिष्वङ्ग एव प्रतिनिधिर्भवत्वित्याह- एष इति । तुशब्दोवधारणे । इमं प्रत्युपकारार्हं कालं प्राप्य मया दत्तोयं परिष्वङ्ग एव सर्वस्वभूतोस्तु । सर्वस्वदानसदृशोस्त्विति संबन्धः । एषः स्वानुभव- सिद्धः । इच्छागृहीताभिमतोरुदेहत्वेन स्वस्य निरवधि- कभोग्यतया स्थितः । लोके स्वस्य रस्यं हि स्वाभि मताय दिशतिसर्वस्वभूतः । एतद्व्यतिरिक्तप्रदाने इदं न दत्तमिति न्यूनता स्यात् । एतत्प्रदाने तु सर्वं दत्तं । एतद्विग्रहस्य सर्वाश्रयत्वात् परिष्वङ्गो हनूमतः । अमृताशिनो हि तृणकबलादिकं न देयं । स्नेहो मे परमो राजन्नित्येतद्विग्रहे प्रेमवतः स एव दातव्यः । मया कालमिमं प्राप्य दत्तः । अयं किञ्चिदपि मत्तो- नपेक्षमाणो वर्तते । कदा मयाऽस्मै किंचिदत्तं स्यादिति सोत्कण्ठेन मया स्थितं । संप्रत्यप्रतिषेधसम – यलाभादत्तवानस्मि । तस्य महात्मनः महास्वभावस्य । महोदारस्येत्यर्थः । देहद्वयमुपकृतवतः किमेकदेहप्रदानमुचितमितिभावः । वेण्यद्रथनसमये सीतां संरक्ष्यदत्त्वा अवगाह्यार्णवं स्वप्स्य इति दशायां रामदेहं च सीतासंदेशवचनेनाजीवयद्धि । एवं देहद्वयंदत्तवतः किमेकदेहदानमुचित मितिभावः ॥१४॥
इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तम् परिषस्वजे
हनुमन्तम् कृतात्मानम् कृतकार्यमुपागतम् ॥ १५ ॥
प्रीति हृष्टाङ्गः प्रीत्या पुलकितगात्रः । महात्मानमित्यादिविशेषणानि परिष्वङ्गहेतवः ॥ १५ ॥
ध्यात्वा पुनरुवाचेदम् वचनम् रघुनन्दनः ।
हरीनामीश्वरस्यैव सुग्रीवस्योपशृण्वतः ॥ १६ ॥
एवं हनुमन्तं स्तुत्वा सागरस्य दुस्तरत्वं विचार्य विषण्णस्सन् प्रयासकृतं सीतान्वेषणं निरर्थकमितिमन्वान आह – ध्यात्वेति ॥ एवकारो भिन्नक्रमः | ध्यात्वा दुस्तरं सागरं सर्ववानरवाहिनीसहितोहं कथं संतरिष्यामीति संचिन्त्य । सुग्रीव – स्योपशृण्वतः सुग्रीवे उपशृण्वत्येव । व्यत्ययेन सप्तम्यर्थे षष्ठी ॥ १६ ॥
सर्वथा सुकृतम् तावत्सीतायाः परिमार्गणम्
सागरम् तु समासाद्य पुनर्नष्टम् मनो मम ॥ १७ ॥
सर्वथा सर्वप्रकारेण समुद्र तरणान्तःपुरप्रवेशादिना । सुकृतंतावत् सुष्टु कृतमेव । परिमार्गणं अन्वेषणं । किंतु सागरं समासाद्य सागरस्य दुस्तरत्वमालोच्य । पुनर्नष्टं मनो मम । सीतावृत्तान्तश्रवणेन हृष्टमपि मे मनः पुनर्नष्टं प्रकृतं विषादं पुनः प्राप्तमित्यर्थः ॥ १७ ॥
कथम् नाम समुद्रस्य दुष्पारस्य महाम्भसः ।
हरयो दक्षिणम् पारम् गमिष्यन्ति समाहिताः ॥ १८ ॥
विषादमेव प्रकटयति — कथमिति ॥ दुष्पारस्य दुष्प्रापतीरस्य । पार – तीर कर्मसमाप्तौ ” इत्यस्माद्धातोः खच् प्रत्ययः । महाम्भसः अगाधजलस्य । समाहिताः संगताः ।। १८ ।।
यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम ।
समुद्रपारगमने हरीणाम् किमिवोत्तरम् ॥ १९ ॥
सर्वथेति लोकोक्तं विवृणोति – यदीति ॥ वैदेया वृत्तान्त गदितो यद्यपि गदित एव । हरीणां समुद्रपारगमने उत्तरं किं उत्तरकालो- चितं साधकं किं । न किमपीत्यर्थः । इवशब्दो वाक्या- लंकारे ॥ १९ ॥
इत्युक्त्वा शोकसम्भ्रान्तो रामह् शत्रुनिबर्हणः ।
हनूमन्तम् महाबाहुस्ततो ध्यानमुपागमत् ।। २० ।।
ध्यानमुपागमत् सागरतरणोपाय- चिन्तामकरोदित्यर्थः । शत्रुनिबर्हण महाबाहुपदाभ्यां सागरशोषणादिकमेवोपायमचिन्तयदिति द्योत्यते ।। २० ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे प्रथमः सर्गः ॥ १ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने प्रथम सर्गः ॥ १ ॥