श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्थः सर्गः
सुग्रीवेणरामचोदनयातदुक्तप्रकारेणवानर सैन्यानांसुमुहूर्तेलङ्कांप्रतिप्रस्थानायाज्ञापनम् ॥ १ ॥ सुग्रीवादिभिर्हनुमदङ्गदारूढाभ्यांरामलक्ष्मणाभ्यांसहरामोक्तप्रकारेण सर्वतः सेनारक्षण- पूर्वकंलङ्कांप्रतिप्रस्थानम् ॥ २ ॥ प्रयाणसमयेलक्ष्मणेनरामंप्रति स्वपरजयापजयसूचक -शुभाशुभशकुनप्रदर्शनपूर्वकंसमाश्वासनम् ॥ ३ ॥ रामेणसुग्रीवादिभिःसह क्रमेणमलयाद्यति -क्रमेण महेन्द्रगिरिमेत्यतच्छिखरारोहणेनसागरावलोकनम् ॥ ४ ॥ हनुमदंसादवतीर्यसमुद्र -वेलावनमुपगतेनरामेणसुग्रीवं प्रतिसेनासंनिवेशन नियोजनपूर्वकं -सागरतरणोपाय निर्धारणायमन्त्रचोदना ॥ ५ ॥
श्रुत्वा हनुमतो वाक्यं यथावदनुपूर्वशः ।
ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः ।। १ ।।
एवं लङ्काया दुर्गकर्मबलपरिमाणादौ हनुमता कथिते रामः कियन्मात्रमिदमिति न्यकृत्य तदानीमेव दण्डयात्रामाज्ञापयति- श्रुत्वेति ॥ महातेजाः महाबलः । सत्यपराक्रमः अमोघविक्रमः । आभ्यां निर्भयले हेतुरुक्तः । अब्रवीत् सुप्रीवमिति शेषः ॥ १ ॥
यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः ।
क्षिप्रमेनां वधिष्यामि सत्यमेतद्ब्रवीमि ते ।। २ ।।
निवेदयसे हनुमन्मुखेन निवेदयसि । मथिष्यामि शरैर्ध्वंसयिष्यामि ॥ २ ॥
अस्मिन्मुहूर्ते सुग्रीव प्रयाणमभिरोचये ।
युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः ।। ३ ।।
कुत इत्यत्राह – युक्त इति । युक्तः यात्रार्हः । तत्र हेतुः । विजय: विजयावहः । विजयावहत्वे हेतुमाह – दिवाकरः । मध्यं दिने मध्यं प्राप्तः । अभिजिन्मुहूर्त इत्यर्थः । तदुक्तं विद्यामाधवीये—आर्द्रोरगमित्रमखावसुजलविश्वाभिजिद्विरिञ्चेन्द्राः । ऐन्द्राग्निमूलवरुणार्यमभगतारा दिवा मुहूर्ताः स्युः इति ॥ नन्वभिजिन्मुहूर्ता दक्षिणयात्रासु निषिद्धाः । यथा ज्यौतिष्क रत्नाकरे – भुक्तौ दक्षिणयात्रायां प्रतिष्ठायां द्विजन्मनि । आधाने च ध्वजारोहे मृत्युदः स्यात्सदाभिजित् इति ॥ उच्यते । लङ्का हि दक्षिणपूर्वस्यां किष्किन्धायाः । अतो नेयं दक्षिणयात्रेति नोक्तदोषः ॥ ३ ॥
अस्मिन्मुहूर्ते विजये प्राप्ते मध्यं दिवाकरे ।
सीतां हृत्वा तु मे क्कासौ यास्यति यास्यतः ।। ४ ।।
मुहूर्तविशेषे प्रयाणस्य फलं दर्शयति — अस्मिन्निति ।। दिवाकरे मध्यं प्राप्ते विजयाख्ये अस्मिन्मुहूर्ते यास्यतो मे यास्यति मयि । असौ रावणः । सीतां हृत्वा जातु कदाचित् क्व यास्यति । यत्र कुत्रापि यान्तं तं हनिष्यामीत्यर्थ: । सीतां हृत्वा तु मे यात्विति पाठे यातु राक्षस: नैर्ऋतो यातुरक्षसी इत्यमरः । यद्वा यातु गच्छतु । के यास्यतीत्यन्वयः ॥ ४ ॥
सीता श्रुत्वाभियानं मे आशामेष्यति जीविते ।
जीवितान्तेमृतं स्पृष्ट्वा पीत्वा विषमिवातुरः ।। ५ ।।
अद्यैव सागर तरणोपायचिन्तां विना निर्गमस्य फलमाह -सीतेति ॥ मे अभियानं प्रस्थानं । सीता श्रुत्वा जीविते आशामेष्यति । श्रवणं च त्रिजटादिभ्य इति ज्ञेयं । निर्गमं विना केवलं विचाराकुलेष्वस्मासु जीविते सा निराशा स्यादिति भावः । कथमिव । विषं पीत्वा आतुरः पीडितः । पुरुषः जीवितान्ते प्राणात्यये प्राप्ते । अमृतं स्पृष्ट्वेव ॥ ५ ॥
उत्तरा फल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते ।
अभिप्रयाम सुग्रीव सर्वानीकसमावृताः ।। ६ ।।
तर्हि कदाऽस्माभिः प्रस्थाप्यं तत्राह – उत्तरेति ॥ अद्य दिने उत्तराफल्गुनीनक्षत्रं वर्तते । श्वः उत्तरदिने । हस्तेन योक्ष्यते । चन्द्र इति शेषः । हस्तो रामस्य निधनतारा । उत्तराफल्गुनी तु साधनतारा । अतोऽद्यैव सर्वानीकसमावृताः सन्तः अभिप्रयाम गच्छेम । अत्रोत्तराफल्गुनीत्यनेन स दिवसः फाल्गुनपौर्णमासीत्यवगम्यते । इदमुत्तरत्र प्रतिपादयिष्यते ॥ ६ ॥
[मुहूर्तेन च युक्तेन प्रस्थानमभिरोचय] ।
निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति मे ।
निहत्य रावणं सीतामानयिष्यामि जानकीम् ।। ७ ।।
यानि निमित्तानि धन्यानि तानि प्रादुर्भवन्ति । अतो रावणं निहत्य सीतामानयिष्यामि । जानकीमिति विशेषणेन जनकप्रीत्यर्थं चावश्यं सा आनेतव्येति व्यज्यते ॥ ७ ॥
उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम ।
विजयं समनुप्राप्तं शंसतीव मनोरथम् ।। ८ ।।
उपरिष्टात् उपरि । स्फुरमाणमिदं मम नयनं । मनोरथं मनोरथविषयभूतं जयं । समनुप्राप्तं सम्यक्समीपे प्राप्तं । शंसतीव । स्पष्टं बोधयतीत्यर्थः । तथोक्तं ज्योतिश्शास्त्रे नेत्रस्याधरस्फुरणमसकृत्सङ्गरे भङ्गहेतुर्नेत्रोपान्ते हरति नयनं नेत्रमूले च मृत्युः । नेत्रस्योर्ध्वं हरति सकलं मानसं दुःखजातं वामे चैवं फलमविकलं दक्षिणे वैपरीत्यं इति ॥ एवं वचने विद्यमाने दक्षिणनयनमिति व्याख्यानं चिन्त्यं ॥ ८ ॥
ततो वानरराजेन लक्ष्मणेन च पूजितः ।
उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः ।। ९ ।।
पूजितः युक्तमिति श्लाघितः । अर्थकोविदः नीतिशास्त्रनिपुणः – ॥ ९ ॥
अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् ।
वृतः शतसहस्रेण वानराणां तरस्विनाम् ।। १० ।।
नीतिशास्त्रमनुस्मरन् सेनासंविधानं दर्शयति — अग्र इति ॥ १० ॥
फलमूलवता नील शीतकाननवारिणा ।
पथा मधुमता चाशु सेनां सेनापते नय ।। ११ ।।
मार्गमवेक्षितुं यात्विति सुग्रीवं प्रत्युक्तमात्रेण सन्निहितं नीलं प्रत्याह – फलेति ॥ ११ ॥
दूषयेयुर्दुरात्मानः पथि मूलफलोदकम् ।
राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः ।। १२ ।।
मार्गशोधनप्रकारमाह दूषयेयुरिति । विषादिनेति शेषः । परिरक्षेथा इत्यात्मनेपदमार्षं । उद्यत: सावधान इत्यर्थः ॥ १२ ॥
निम्नेषु वनदुर्गेषु वनेषु च वनौकसः ।
अभिप्लुत्याभिपश्येयुः परेषां निहतं बलम् ।। १३ ।।
शोधनान्तरमाह – निम्नेष्विति ॥ निम्नेषु गर्तप्रदेशेषु वनदुर्गेषु वनैःजलै: दुर्गेषु दुर्गमप्रदेशेषु । जीवनं भुवनं वनं इत्यमरः । वनेषु काननेषु च । निहितं रन्ध्रे प्रहारार्थं स्थापितं । बलं परसैन्यं । वनौकसः वानराः । अभिप्लुत्य अभित उत्प्लुत्य । पश्येयुः ॥ १३ ॥
यच्च फल्गु बलं किंचित्तदत्रैवोपयुज्यताम् ।
एतद्धि कृत्यं धोरं नो विक्रमेण प्रयुध्यताम् ।। १४ ।।
शोधमान्तरमाह – यदिति ॥ यत्किंचिद्बलं फल्गु असारं । तत् अत्रैव किष्किन्धायामेव । उपयुज्यतां स्थाप्यतां । किंचिदित्यनेन तादृशं बलमत्र दुर्लभमिति सूचितं । अत्र युक्तिंवक्ति – एतदिति । एतत् घोरं कृत्यं विक्रमेण प्रयुध्यतां । आर्षः शतृप्रत्ययः । विक्रमेण शक्त्या । ये युध्यन्ते तेषामेव नान्येषामित्यर्थः । विक्रमेणोपयुज्यतामिति पाठे विक्रमेणोपयुज्यमानानां । विक्रमयुक्तानामित्यर्थः । क्रियापदत्वे संप्रधारणायां लोड्वेदितव्यः ॥ १४ ॥
सागरौघनिभं भीममग्रानीकं महाबलाः ।
कपिसिंहाः प्रकर्षन्तु शतशोऽथ सहस्रशः ।। १५ ।।
अथ ” यतश्च बलमाशङ्की ततो विस्तारयेद्बलं ” इत्युक्तरीत्या बहवो बलिनो सेनां कर्षन्त्वित्याह – सागरेति ॥ सागरौघनिभं सागरस्य प्रवाहो यदि भवेत्तत्तुल्यमित्यर्थः । शतशोथ सहस्रशः । शतशः सहस्रशश्च संधीभूयेत्यर्थः ॥ १५ ॥
गजश्च गिरिसङ्काशो गवयश्च महाबलः ।
गवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः ।। १६ ।।
अथ सेनाबलाध्यक्षौ सर्वदिक्षु निवेशयेत् इत्युक्तरीत्या निवेशयति — गज इति ॥ गवामग्रे दृप्ता: वृषभा इवेति संबन्धः ॥ १६ ॥
यातु वानरवाहिन्या वानरः प्लवतां पतिः ।
पालयन्दक्षिणं पार्श्वमृषभो वानरर्षभः ।। १७ ।।
दक्षिण पश्चिमपार्श्वमित्यर्थः । यतश्च भयमाशङ्कि तां प्राचीं परिकल्पयेत् इति कामन्दकोक्तेः । प्लवतां वानराणां ॥ १७ ॥
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः ।
यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः ।। १८ ।।
गन्धहस्ती मत्तगज: । तरस्वी बलवान् । सव्यं प्राचीभागं । अधिष्ठितः अधिष्ठाता । कर्तरिक्तः ॥ १८ ॥
यास्यामि बलमध्येऽहं बलौघमभिहर्षयन् ।
अधिरुह्य हनूमन्तमैरावतमिवेश्वरः ।। १९ ।।
मध्यगमनप्रयोजनमाह – अभिहर्षयन्निति । प्रहर्षयेद्बलं व्यूह्य इत्युक्तेः । ईश्वरः इन्द्रः । तथैवौचित्यात् । गवां पतिमिवेश्वर इति वा पाठः ॥ १९ ॥
अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः ।
सार्वभौमेण भूतेशो द्रविणाधिपतिर्यथा ।। २० ।।
अङ्गदेन संयातु अङ्गदमारुह्य संयात्वित्यर्थः । सार्वभौमेन उत्तर दिग्गजेन । भूतेश: यक्षेशः । द्रविणाधिपतिः धनाधिपतिः । अत्र त्वं च शिविकामारुह्य आवाभ्यामा गच्छेति सिद्धम् ।। २० ।।
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः ।
ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः ।। २१ ।।
[ पश्चार्धमिव लोकस्य प्रचेतास्तेजसा वृतः ।
जघनं कपिसेनायाः कपिराजोऽभिरक्षतु ] ।। २२ ।।
ऋक्षराज: जाम्बवन्द्भ्राता । कुक्षि पश्चाद्भागं । जाम्बवान् सुषेण: वेगदर्शी चेति त्रयः महासत्त्वः ऋक्षराजश्च कुक्षि रक्षन्त्वित्यन्वयः ।। २१ – २२
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः ।
व्यादिदेश महावीर्यान्वानरान्वानरर्षभः ।। २३ ।।
व्यादिदेश रामोक्तं सर्वं कुरुतेत्या ज्ञापयामास ।। २३ ।।
ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः ।
गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा ।। २४ ।।
पुप्लुविरे प्लुतगतिं चक्रिरे ॥ २४ ॥
ततो वानरराजेन लक्ष्मणेन च पूजितः ।
जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ।। २५ ।।
पूजितः पुरस्कृत इत्यर्थः । धर्मात्मा नीतिरूपधर्मज्ञ इत्यर्थः ॥ २५ ॥
शतैः शतसहस्रैश्च कोटीभिरयुतैरपि ।
वारणाभैश्च हरिभिर्ययौ परिवृतस्तदा ।
तं यान्तमनुयाति स्म महती हरिवाहिनी ।। २६ ।।
ययौ राम इतिशेषः । हरिवाहिनी पूर्वोक्तबलवानरभिन्ना ॥ २६ ॥
हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः ।
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
क्ष्वेलन्तो निनदन्तस्ते जग्मुर्वै दक्षिणां दिशम् ।। २७ ।।
भक्षयन्तः सुगन्धीनि मधूनि च फलानि च ।
उद्वहन्तो महावृक्षान्मञ्जरीपुञ्जधारिणः ।। २८ ।।
गच्छतथाविशेषान् दर्शयति- दृप्ता इत्यादिना ॥ दृप्ता: गर्विता: । आप्लवन्त: मण्डलाकारं भ्रमन्त इत्यर्थः । गर्जन्तः मेघध्वनिं कुर्वन्त: । घनगर्जितमिति प्रसिद्धि: । क्ष्वेलन्तः सिंहनादं कुर्वन्तः । क्ष्वेला तु सिंहनादः स्यात् इत्यमरः । निनदन्तः अव्यक्तं शब्दायमानाः । णद अव्यक्ते शब्दे इति धातुः । भक्षयन्तः पिबन्तः । उद्वहन्त: विलासार्थं हस्ते धारयन्तः ॥ २७ – २८ ॥
अन्योन्यं सहसा दृष्टा निर्वहन्ति क्षिपन्ति च ।
पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान् ।। २९ ।।
सहसा । तरसा । निर्वहन्ति उद्वहन्ति । क्षिपन्ति पातयन्ति । अन्ये पतन्तः सन्तः । परान् पातयितॄन् । आक्षिपन्ति । प्रतीकारकरणासामर्थ्येन परिभाषणं कुर्वन्तीत्यर्थः । अपरे शक्ताः । परान् पातयितॄन् । पातयन्ति ॥ २९ ॥
रावणो नो निहन्तव्यः सर्वे च रजनीचराः ।
इति गर्जन्ति हरयो राघवस्य समीपतः ।। ३० ।।
नः अस्माभिरित्यर्थः ॥ ३० ॥
पुरस्तादृषभो वीरो नीलः कुमुद एव च ।
पन्थानं शोधयन्ति स्म वानरैर्बहुभिः सह ।। ३१ ।।
अत्र पूर्वं रामेण मार्गरक्षणाय ये नीलादयो नियुक्ताः ततोन्ये कुमुदादयस्तु रामभक्त्युत्साहेन स्वयमेव प्रवृत्ता इति ज्ञेयं । ऋषभोदक्षिणपार्श्वरक्षणाय नियुक्तो भक्त्या पराक्रमातिशयेन च अत्रापि रक्षणं कृतवानिति ज्ञेयं ॥ ३१ ॥
मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च ।
बहुभिर्बलिभिर्भीमैर्वृताः शत्रुनिबर्हणः ।। ३२ ।।
मध्ये त्विति । जग्मुरिति शेषः ॥ ३२ ॥
हरिः शतबलिर्वीरः कोटीभिर्दशभिर्वृतः ।
सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम् ।। ३३ ।।
अवष्टभ्य अधिष्ठाय ॥ ३३ ॥
कोटीशतपरीवारः केसरी पनसो गजः ।
अर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति ।। ३४ ।।
गजस्याग्रभागनियुक्तस्यापि पार्श्वरक्षणं भक्त्यतिशयात् । अत्र कार्यकरणात्कसर्यादयश्च पूर्वं नियुक्ता एवेत्याहुः । अत्र पूर्वनियुक्तानां गन्धमादनादीनामप्युपलक्षणं । एकं पार्श्वं सव्यं पार्श्वं । अभिरक्षतीत्यस्य प्रत्येकममिसंबन्धः । व्यत्ययेनलट् ॥ ३४ ॥
सुषेणो जाम्बवांश्चैव ऋक्षैश्च बहुभिर्वृतौ ।
सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः ।। ३५ ।।
ऋक्षैरावृतत्वं जाम्बवत एव । तत्संबन्धात् सुषेणस्यापि । जघनं पश्चाद्भागम् ।। ३५ ।।
तेषां सेनापतिर्वीरो नीलो वानरपुङ्गवः ।
सम्पतन्पततां श्रेष्ठस्तद्बलं पर्यपालयत् ।। ३६ ।।
दरीमिखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः ।
सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवङ्गमान् ।। ३७ ।।
संपतन् । मार्गशोधनाय पुरो गच्छन्नपि पर्यपालयत् । सेनापतित्वात्सर्वतो ररक्षेत्यर्थः ॥ ३६-३७ ॥
एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः ।
अपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमलतायुतम् ।
सरांसि च सुफुल्लानि तटकानि वनानि च ।। ३८ ।।
अपश्यन् दूरादिति शेषः । सुफुल्लानि सुफुल्लपद्मकह्लाराणि ॥ ३८ ॥
रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत् ।
वर्जयन्नगराभ्याशांस्तथा जनपदानपि ।। ३९ ।।
सागरौघनिभं भीमं तद्वानरबलं महत् ।
उत्ससर्प महाघोषं भीमघोष इवार्णवः ।। ४० ।।
भीतवत् भीतं । कर्तरि क्तप्रत्ययः । वर्जयत् दूरतः परिहरत् । उत्ससर्प जगामेति संबन्ध: । सागरौघनिभमिति विपुलतायां साम्यं । भीमघोष इवार्णव इति घोषे ॥ ३९-४० ॥
तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः ।
तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः ।। ४१ ।।
दाशरथेः पार्श्व इति । तन्मुखोल्लासायेति भावः ॥ ४१ ॥
कपिभ्यामूह्यमानौ तौ शुशुभाते नरोत्तमौ ।
महद्भ्यामिव संस्पृष्टौ ग्राहाभ्यां चन्द्रभास्करौ ।। ४२ ।।
हनुमदङ्गदाभ्यामूह्यमानौ रामलक्ष्मणौ । महाग्रहाभ्यां शुक्रबृहस्पतिभ्यां । संस्पृष्टौ संयुक्तौ । चन्द्रसूर्याविव । शुशुभाते । अत्र उपमाने चतुर्ग्रहसंयोगस्य बहुजनविनाशहेतुत्वात् हनुमदङ्गदाभ्यां रामलक्ष्मणयोगस्य महासेनाविनाशकत्वं गम्यत इत्यलंकारेण वस्तुध्वनिः । संस्पृष्टपदेन हनुमदङ्गदयोर्लाघवातिशयकथनात् पदगतवस्तुना वस्तुध्वनिः ॥ ४२ ॥
ततो वानरराजेन लक्ष्मणेन च पूजितः ।
जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ।। ४३ ।।
पुनः सुदूरगमनसूचनायाह -तत इति ॥ ४३ ॥
तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा ।
उवाच प्रतिपूर्णार्थः स्मृतिमान्प्रतिभानवान् ।। ४४ ।।
परिपूरणार्थ: परिपूर्णमनोरथः । स्मृतिमान् निमित्तशास्त्रार्थस्मरणवान् । प्रतिभानवान् तात्कालिकबुद्धिमान् ॥ ४४ ॥
हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम् ।
समृद्धार्थः समृद्धार्थामयोध्यां प्रति यास्यसि ।। ४५ ।।
वक्ष्यमाणनिमित्तश्रवणे श्रद्धामुत्पादयितुं प्रथमं तत्फलं दर्शयति — हृतामिति ॥ रावणं हत्वा वैदेहीमवाप्स्यसीतिक्रमः ॥ ४५ ॥
महान्ति च निमित्तानि दिवि भूमौ च राघव ।
शुभानि तव पश्यामि सर्वाण्येवार्थसिद्धये ।। ४६ ।।
कुतोयं निश्चय इत्यत्राह – महान्तीति ॥ महान्ति दुर्लभानि । दिवि भूमौ च यानि शुभानि निमित्तानि सर्वाणि तवार्थसिद्धये पश्यामि । अर्थसिद्धिकराणि पश्यामीत्यर्थः ॥ ४६ ॥
अनु वाति शुभो वायुः सेनां मृदुहितः सुखः ।
पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः ।। ४७ ।।
सुखःसुखकरः । शीत इत्यर्थः । मृदुहितः मृदुः मार्दवयुक्तः । हित अनुकूल इत्यर्थः । शुभः भाविशुभसूचकः वायुः सेनां अनुवाति अनुसृत्य वाति । पूर्णवल्गुस्वरा: अन्यूनापरुषस्वराः सन्तः प्रवदन्ति ॥ ४७ ॥
प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः ।
उशनाश्च प्रसन्नार्चिरनु त्वां भार्गवो गतः ।। ४८ ।।
भौमनिमित्तान्युक्त्वा दिव्यनिमित्तान्याह – त्वामनु- गतः । तवानुकूलदिशि स्थित इत्यर्थः । यद्वा अनुगतः पश्चाद्भागं गतः । पुरः शुक्रस्य यात्रासु प्रतिषेधादिति भावः । तथोक्तं ज्योतिषे — प्रतिशुक्रं प्रतिबुधं प्रतिभौमं गतो नृपः । अपि शक्रेण सदृशो हतसैन्यो निवर्तते इति ॥ उशनाश्च प्रसन्नार्चिरनु त्वां भार्गवो गत इत्यनेनावतारकाले जातकफलसूचनवद्रामस्यानुकूलं गोचारफलं दर्शयति विपरीतफलं राक्षसानां च । तथाहि किष्किन्धात: आग्नेयदिग्वर्तिनीं लङ्कां प्रति गच्छतो रामस्यानुकूल: शुक्र इत्युच्यते । सूर्यस्थराशेः पुरोराशिस्थो हि भवति शुक्रः । सूर्यश्च तदानीं मीनस्थः । उत्तराफल्गुनी ह्यद्येति प्रयाणदिनकथनात् । फाल्गुनपौर्णमास्यां हि रामस्य दण्डयात्रेति पूर्वमुक्तं । तदाच शुक्रो मेषस्थ: । अतो रामस्य कर्कटराशेर्मेषो हि दशमोनुकूलः । पूर्वोक्तदिग्वर्तिनीं लङ्कां प्रति गच्छतो रामस्य पञ्चात्स्थितत्वाच्च शुक्रोऽनुकूल एव । शुक्रानुकूल्योक्तिर्बृहस्पत्याद्यानुकूल्योपलक्षणं । सह्यवतारकाले कर्कटकस्थः । तदपेक्षयाष्टत्रिंशद्वर्षयुद्धयात्राकालः । तथाच त्रिरावृत्त्या षट्- त्रिंशद्वर्षेषु गतेषु रामस्याष्टत्रिंशद्वर्षे युद्धारम्भे गुरोः सिंहस्थितिः सिद्धा । गुरुद्वितीयता रामस्यानुकूला । शनिश्चावतारकाले तुलावर्गोत्तमस्थः । द्वितीयावृत्तौ तुलावृश्चिकयोः पञ्चवर्षेण गतयोः सार्धवर्षद्वयेनाती- तेन धनुरतीत्य तदानीं मकरस्थितियोग्योपि कथंचिद्ध- नुर्वर्गोत्तमस्थ एव शनिः । राहुस्तु अवतारकाले । सिंहस्थ: । ततोष्टत्रिंशद्वर्षेस्मिन्कटकस्थितियोग्योप्यतिचारादिमिर्मिथुनस्थः । तत्सप्तमे धनुषि केतुः । उक्तं चात्रापि – मूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना इति । धूमाकारः केतुर्धूमकेतुः । तथाच धनुषि शनिकेतू रामस्य षष्ठस्थावनुकूलौ । अङ्गारकस्तु रामरावणयुद्धप्रसङ्गे, आक्रम्याङ्गारकस्तस्थौ विशाखे अपि चाम्बरे इत्युक्त्या विशाखाचतुर्थपादे वृश्चिकराशौ तिष्ठति । रामस्य पञ्चमाङ्गारकत्वफलमिदं । यदेतद्ब्रह्मास्त्रबन्धरुधिरमोहादि, बुधस्य प्रतिभासं रोहिणीस्थत्वयोगेपि रामरावणयुद्धप्रसङ्गे, प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् । समाक्रम्य बुधस्तस्थौ प्रजानामशुभावहः इत्युक्तं प्रजानामशुभावहत्वमतिचारवशादेव । स च रामस्य दशमस्थोऽनुकूल: । चन्द्रश्च उत्तराफल्गुनीस्थत्वात्कन्यास्थः । अतस्तृतीयचन्द्रो रामस्यानुकूल: । सूर्यो नवमस्थो रामस्यानुकूल: । राहुस्तु मिथुनस्थत्वाद्वादशस्थ इति किंचिद्बाधकः । राक्षसानामिदं सर्वं विपरीतं । तथाहिराक्षसानां हि नक्षत्रं मूलं । तथाच धनू राशिः । तदपेक्षया पञ्चमस्थः शुक्रः प्रतिकूलः । जन्मराशिस्थौ शनिकेतू च प्रतिकूलौ । राहुस्तु सप्तमस्थ: किंचिदनुकूल: । द्वादशस्थाङ्गारकश्च प्रतिकूलः । गुरुस्तु नवमस्थोनुकूलः । चतुर्थस्थ: सूर्य: पञ्चमस्थो बुधश्च नानुकूलौ । दशमस्थश्चन्द्र: किंचिदनुकूलः । एवं प्रायेण ग्रहगोचारफलं राक्षसानां विपरीतमेवेति ॥ ४८ ॥
ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः ।
अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् ।। ४९ ।।
ब्रह्मराशिः अधीतसर्ववेद इत्यर्थः । विशुद्धः पापग्रहासंयुक्तः । इदं द्वयमपि भार्गवविशेषणं । परमर्षय: सप्तर्षयः । दक्षिणां दिशं प्रति गताः । प्रदक्षिणं तिष्ठद्गुप्रभृतित्वात्साधुः । आवर्तमाना इति शेष : ॥ ४९ ॥
त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः ।
पितामहवरोऽस्माकमिक्ष्वाकूणां महात्मनाम् ।। ५० ।।
पुरोहितः विश्वामित्रः । सृजन्दक्षिणमार्गस्थान्सप्तर्षीनपरान्पुनः इति बालकाण्डोक्तरीत्या विश्वामित्रसृष्टसप्तर्ष्यन्तर्गतवसिष्ठो वा । पितामहवर: पितामहेषु कूटस्थेषु श्रेष्ठ: । इक्ष्वाकूणां प्रधानकूटस्थ इत्यर्थः ॥ ५० ॥
विमले च प्रकाशेते विशाखे निरुपद्रवे ।
नक्षत्रं परमस्माकमिक्ष्वाकूणां महात्मनाम् ।। ५१ ।।
निरुप्लवे क्रूरग्रहानाक्रान्ते । विशाखे इति द्विवचनं नक्षत्रद्वयात्मकत्वात् । विशाखाख्यं नक्षत्रवरमित्यर्थः । विशाखाया इक्ष्वाकुनक्ष- त्रत्वंज्यौतिषदर्पणे दर्शितं — अश्विन्यां यदि केतुः इत्यारभ्य इक्ष्वाकुकुलनाथस्तु ह्यन्यतो यदि भनेद्विशाखास्थस्तु इति ॥ ५१ ॥
नैर्ऋतं नैर्ऋतानां च नक्षत्रमभिपीड्यते ।
मूलं मूलवता स्पृष्टो धूप्यते धूमकेतुना ।। ५२ ।।
स्वानुकूल्यमुक्त्वा परप्रातिकूल्यमाह-नैर्ऋतमिति ॥ नैर्ऋतं नैर्ऋतदैवतं । नैर्ऋतानां राक्षसानाम् । किं तन्नैर्ऋतं तस्य पीडा केनेत्याकाङ्क्षायामाह – मूल इति । मूलवता अन्तिकवता । मूलं वशीकृतौ स्वीये शीर्षे तारान्तिकादिषु इति वैजयन्ती । तेन धूमकेतुना स्पृष्टो मूलः मूलनक्षत्रं । धूप्यते संताप्यते । धूप संतापे इति धातुः ॥ ५२ ॥
सर्वं चैतद्विनाशाय राक्षसानामुपस्थितम् ।
काले कालगृहीतानां नक्षत्रं ग्रहपीडितम् ।। ५३ ।।
ततः किमित्यत्राह – सर्वमिति ॥ एतन्नक्षत्रपीडनमेव राक्षसानां विनाशाय सर्वं अशु- भसूचकनिमित्तजातं । समुपस्थितमित्यर्थः । तदेवोपपादयति-काल इति । कालगृहीतानां मृत्युगृहीतानां नक्षत्रं । काले अन्तकाले । ग्रहपीडितं भवति ॥ ५३ ॥
प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च ।
प्रवान्त्यभ्यधिकं गन्धान्यथर्तुकुसुमा द्रुमाः ।। ५४ ।।
पुनरपि विजयसूचकान्याह – प्रसन्ना इत्यादिना ॥ द्रुमाः यथर्तुकुसुमाः ऋतुमनतिक्रम्य जातानि कुसुमानि येषां ते तथोक्ताः । अकालकुसुमोत्पत्तिर्ह्युत्पातः । स इदानीं नास्तीत्यर्थः । तथोक्तं वराहमिहिरेण शीतोष्णानां विपर्यास: फलपुष्पमकालजम् । अशोष्याणां विशोषश्च फलं षाण्मासिकं भवेत् इति ॥ ५४ ॥
व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो ।
देवानामिव सैन्यानि सङ्ग्रामे तारकामये ।। ५५ ।।
व्यूढानि कृतव्यूहानि । तारकस्य तारकासुरस्य आमयो बधो यस्मिन् सः तारकामयः तस्मिन् । यद्वा तारकाया: बृहस्पतिपत्नया: आमयो । मनोव्याधिः यस्मिन् । तादृशसंग्रामसंज्ञेयं । तथोक्तं श्रीविष्णुपुराणे – एवंच तयोरतीवोग्रः संग्रामस्तारकानिमित्तस्तारकामयो नामाभवदिति ॥ ५५ ॥
एवमार्य समीक्ष्यैतान्प्रीतो भवितुमर्हसि ।
इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत् ।। ५६ ।।
आश्वास्याब्रवीत् आश्वासनपूर्वकमब्रवीत् । अनेन प्रथमसर्गान्तोक्त: श्लोकोनुवृत्त इति ज्ञायते ॥ ५६ ॥
अथावृत्य महीं कृत्स्नां जगाम महती चमूः ।
ऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैर्वृता ।। ५७ ।।
पुनरपि सेनायाः दूरगमनमाह – अथेति ॥ ऋक्षवानरशार्दूलै: ऋक्षशार्दूलैः वानरशार्दूलश्च । शार्दूलशब्दः श्रेष्ठवाची ॥ ५७ ।।
कराग्रैश्चरणाग्रैश्च वानरैरुत्थितं रजः ।
भौममन्तर्दधे लोकं निवार्य सवितुः प्रभाम् ।। ५८ ।।
अन्तर्दघे आच्छादयामास ॥ ५८ ॥
सपर्वतवनाकाशां दक्षिणां हरिवाहिनी ।
छादयन्ती ययौ भीमा द्यामिवाम्बुदसंततिः ।। ५९ ।।
हरिवाहिनी दक्षिणां महीं अम्बुदसंततिर्द्यामिव छादयन्ती यथाविति संबन्धः ॥ ५९ ॥
उत्तरन्त्यां च सेनायां संततं बहुयोजनम् ।
नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत् ॥ ६० ॥
संततं निरन्तरं यथा भवति तथा उत्तरन्त्यां । विपरीतवत् वैपरीत्यवत् । भावप्रधानो निर्देश: । बहुयोजनं च यथा भवति तथा सस्यन्दुः ॥ ६० ॥
सरांसि विमलाम्भांसि द्रुमाकीर्णांश्च पर्वतान् ।
समान्भूमिप्रदेशांश्च वनानि फलवन्ति च ।
मध्येन च समन्ताच्च तिर्यक्चाघश्च साऽविशत् ॥ ६१ ॥
सरांसीत्यादिसार्धश्लोक एकान्वयः ॥ यथायोग्यं च संबन्धः । सरांसि शीतलसलिलतया मध्येनाविशत् । पर्वतान् द्रुमाकीर्णतया तिर्यगाविशत् । समान् भूमिप्रदेशान् समन्तादाविशत् । वनानि फलवत्तया अध आविशत् ।। ६१ ॥
समावृत्य महीं कृत्स्नां जगाम महती चमूः ॥ ६२ ॥
समावृत्यर्धं ।। ६२ ।।
ते हृष्टमनसः सर्वे जम्मुर्मारुतरंहसः ।
हरयो राघवस्यार्थे समारोपितविक्रमाः ॥ ६३ ॥
हर्षवीर्यबलोद्रेकान्दर्शयन्तः परस्परम् ।
यौवनोत्सेकजान्दर्पान्विविधांचक्रुरध्वनि ॥ ६४ ॥
मारुतरंहसः वायुवेगा: । समारोपितविक्रमा: अभिवृद्धविक्रमा इत्यर्थः । उद्रेकशब्दोतिशयवाची । दर्पान् दर्पजव्यापारान् ॥ ६३-६४ ॥
तत्र केचिद्रुतं जग्मुरुत्पेतुश्च तथाऽपरे ।
केचित्किलकिलां चक्रुर्वानरा वनगोचराः ॥ ६५ ॥
तान्विवृणोति — तत्रेत्यादिना ॥ किलकिलेति वानरशब्दानुकरणं ॥ ६५ ।।
प्रास्फोटयंच पुच्छानि सन्निजघ्नुः पदान्यपि ।
भुजान्विक्षिप्य ‘शैलांश्च द्रुमानन्ये बभञ्जिरे ॥ ६६ ॥
प्रास्फोटयन् भूमावनास्फालयन् । सन्निजघ्नुः । भूमाविति शेषः । भुजान् विक्षिप्य प्रसार्य द्रुमान् शैलांश्च बभञ्जिरे । ६६ ।।
आरोहन्तश्च शृङ्गाणि गिरीणां गिरिगोचराः ।
महानादान्विमुञ्चन्ति क्ष्वेलामन्ये प्रचक्रिरे ॥ ६७ ॥
गिरिगोचराः गिरिचराः । क्ष्वेलां सिंहनादं ॥ ६७ ॥
ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः ।
जृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाद्रुमैः ॥ ६८ ॥
ममृदुः मर्दनं चक्रुः ॥ ६८ ॥
शतैः शतसहस्रैश्च कोटीभिश्च सहस्रशः ।
वानराणां तु घोराणां श्रीमंत्परिवृता मही ॥ ६९ ॥
श्रीमद्यथा भवति तथा परिवृता आसीदिति संबन्ध: ॥ ६९ ॥
सा स्म याति दिवारात्रं महती हरिवाहिनी ।
हृष्टप्रमुदिता सेना सुग्रीवेणाभिरक्षिता ।। ७० ।।
सेना इनेन स्वामिना सहिता ॥ ७० ॥
वनरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दिनः ।
मुमोक्षयिषवः सीतां मुहूर्तं क्वापि नासत ।। ७१ ।।
प्रमोक्षयिषवः मोचयितुमिच्छवः । सनि द्विर्वचनाभाव आर्ष: । मोक्ष निरसने ” इत्यस्माद्धातोः सन् ॥ ७१ ॥
ततः पादपसम्बाधं नानामृगसमायुतम् ।
सह्यपर्वतमासेदुर्मलयं च मही धरम् ।। ७२ ।।
ततः दिवारात्रान्ते ॥ ७२ ॥
काननानि विचित्राणि नदीप्रस्रवणानि च ।
पश्यन्नति ययौ रामः सह्यस्य मलयस्य च ।। ७३ ।।
सह्यस्य मलयस्य च काननानीत्यन्वयः । सामलयौ नाम मार्गवर्तिनौ कौचित्पर्वतौ ।।७३।।
बंकुलांस्तिलकांश्चूतानशोकान्सिन्दुवारकान् ।
करवीरांश्च तिमिशान्भञ्जन्ति स्म प्लवङ्गमाः ।। ७४ ।।
बकुलान् केशरवृक्षान् । तिलकान् क्षुरकवृक्षान् । चूताः प्रसिद्धाः अशोकाश्च । सिन्धुवा- रकान् निर्गुण्डीवृक्षान् । करवीराः प्रसिद्धाः । तिमिशान् नेमिवृक्षान् ॥ ७४ ॥
अंकोलांश्च करञ्जांश्च प्लक्षन्यग्रोधतिन्दुकान् ।
जम्बूकामलकान्नीपान्भञ्जन्ति स्म प्लवङ्गमाः ॥ ७५ ॥
अङ्कोलान् निकोचकवृक्षान् । करञ्जान् नक्तमालवृक्षान् । प्लक्षान् जटीवृक्षान् । न्यग्रोधान् वटान् । तिन्दुकान् स्फूर्जकवृक्षान् । जम्बूकामलकाः प्रसिद्धाः । नीपाः कदम्बाः ॥ ७५ ॥
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः ।
वायुवेगप्रचलिताः पुष्पैरव किरन्ति तान् ।। ७६ ॥
मारुतः सुखसंस्पर्शो वाति चन्दनशीतलः ।
षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥ ७७ ॥
प्रस्तरेषु शिलासु । स्थिता इति शेषः । वायुवेग: वानरसेनावेगजवायुवेगः ॥ ७६-७७ ॥
अधिकं शैलराजस्तु धातुभिः सुविभूषितः ॥ ७८ ॥
वानराणां धातुरेणुरूपितत्वं वक्तुं पर्वतस्य धातुमत्तामाह – अधिकमिति ॥ अर्धमेकं वाक्यं । शैलराज: सह्यः ॥ ७८ ॥
धातुभ्यः प्रसृतो रेणुर्वायुवेगविघट्टितः ।
सुमहद्वानरानीकं छादयामास सर्वतः ॥ ७९ ॥
विघट्टितः उत्थापितः ॥ ७९ ॥
गिरिप्रस्थेषु रम्येषु सर्वतः संप्रपुष्पिताः ।
केतक्यः सिन्धुवाराश्च वासन्त्यश्च मनोरमाः ॥ ८० ॥
माधव्यो गन्धपूर्णाश्च कुन्दगुल्माच पुष्पिताः ।
चिरिबिल्वा मधूकाश्च बकुलाः प्रियकास्तथा ॥ ८१ ॥
गिरिप्रस्थे- त्यादिसार्धपञ्चश्लोक्येकान्वया ॥ पुष्पिता इत्येतत्सर्वविशेषणं । अतस्तस्य बहुश: प्रयोगः । वसन्ते पुष्पयन्तीति वासन्त्यः । इदं माधवीविशेषणं । कालात्साधुपुष्प्यत्पच्यमानेषु इत्यण् । गन्धैः पूर्णाः गन्धपूर्णाः । कुन्दाः । चिरिबिल्वाः नक्तमालाः । मधूका: गुडपुष्पाः । वञ्जुलाः वानीराः । प्रियकाः बन्धूकाः ॥ ८०-८१ ॥
स्फूर्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः ।
चूताः पोटलयश्चैव कोविदाराश्च पुष्पिताः ॥ ८२ ॥
स्फूर्जका तिन्दुकवृक्षाः । नागवृक्षाः नागकेसराः । पाटलयः पाटलाः । कोविदाराः चमरकाः ॥ ८२ ॥
मुचुलिन्दार्जुनाश्चैव शिंशुपाः कुटजास्तथा ।
धवाः शाल्मलयश्चैव रक्ताः कुरवकास्तथा ॥ ८३ ॥
मुचुलिन्दाः खर्जूरविशेषाः । अर्जुनाः ककुभाः । शिंशुपाः पिच्छिला: । कुटजा: जयवृक्षाः । धवाः धुन्धुरवृक्षाः । शाल्मलय: मोचा: । पिच्छिला पूरणी मोचा चिरायुः शाल्मलिर्द्वयोः इत्यमरः ॥ ८३ ।।
हिन्तालास्तिमिशाश्चैव चूर्णका नीपकास्तथा ।
नीलाशोकाश्च वरणा अङ्कोलाः पद्मकास्तथा ।
प्लवमानैः प्लवङ्गैस्तु सर्वे पर्याकुलीकृताः ॥ ८४ ॥
हिन्तालाः तालविशेषाः । चूर्णकाः आमलकविशेषाः। नीपकाः कदम्बाः। वरणाः वारुणाः । पद्मका: सुगन्धिपुष्पा वृक्षविशेषाः । एवंभूतावृक्षाः प्लवमानैः प्लवंगै : पर्याकुलीकृता इत्यन्वयः ॥ ८४ ।।
वाप्यस्तसिन्गिरौ शीताः पल्वलानि तथैव च ।
चक्रवाकानुचरिताः कारण्डवनिषेविताः ।
प्लवैः क्रौञ्चैश्च संकीर्णा वराहमृगसेविताः ॥ ८५ ॥
ऋक्षैस्तरक्षुभिः सिंहैः शार्दूलैश्च भयावहैः ।
व्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः ॥ ८६ ॥
पद्मैः सौगन्धिकैः फुल्लैः कुमुदैश्चोत्पलैस्तथा ।
वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः॥ ८७ ॥
वाप्य इत्यादि जलाशया इत्यन्तमेकं वाक्यं ॥ जलाशया: जलपूर्णा इति वापीविशेषणं । अत्रापि पर्याकुलीकृता इत्यनुषज्यते । कारण्डवा: जलकुक्कुटाः । प्लवै: जलकाकैः । क्रौच्चैः प्रसिद्धैः । तीरवनमृगानाह – वराहेत्यादिना । तरक्षुभिः मृगादनैः । व्यालैः दुष्टगजै: । सौगन्धिकैः कहारैः । वारिजैरिति । एवमिति शेषः ॥ ८५-८७ ॥
तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा ॥ ८८ ॥
तस्य सानुष्वित्यर्धमेकं वाक्यं । कूजन्ति चुकूजुः । तत्सैन्यदर्शनादिति भावः ॥ ८८ ॥
स्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः ।
अन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः ॥ ८९ ॥
अत्र जले वापीजले । प्लावयन्ति सिञ्चन्ति ॥ ८९ ॥
फलान्यमृतगन्धीनि मूलानि कुसुमानि च ।
बुभुजुर्वानरास्तत्र पादपानां मदोत्कटाः ।। ९० ।।
शैलमारुह्येत्युत्तरशेषः । अमृतगन्धीनि अमृतस्वादूनि । मदोत्कटा: मदमत्ताः ॥९० ॥
द्रोणमात्रप्रमाणानि लम्बमानानि वानराः ।
ययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः ।। ९१ ।।
द्रोणमात्रप्रमाणानि द्रोणं शिवद्वयं तत्प्रमाणमधुपूर्णानि । मधूनि मधुपटलानि । मधुपिङ्गलाः मधुवत्पिङ्गलवर्णाः ॥ ९१ ॥
पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः ।
विधमन्तो गिरिवरान्प्रययुः प्लवगर्षभाः ।। ९२ ।।
विधमन्तः दहन्तः । ध्मा शब्दाग्निसंयोगयो: इति धातुः ॥ ९२ ॥
वृक्षेभ्योऽन्ये तु कपयो नर्दन्तो मधुदर्पिताः ।
अन्ये वृक्षान्प्रपद्यन्ते प्रपतन्त्यपि चापरे ।। ९३ ।।
अन्ये वृक्षेभ्यः । वृक्षेभ्योन्यत्र । अत्रापि ययुरित्यनुषज्यते ॥ ९३ ॥
बभूव वसुधा तैस्तु सम्पूर्णा हरियुथपैः ।
यथा कमलकेदारैः पक्वैरिव वसुन्धरा ।। ९४ ।।
इवशब्दो वाक्यालंकारे । अन्ये तु । तत्र तदानीं पक्वैः कलमकेदारैः पक्वशालिक्षेत्रैः । संपूर्णा वसुन्धरेव यथा भवेत् तथा तैर्हरिपुङ्गवैः संपूर्णा वसुधा बभूवेति योजयन्ति । अपरेतु कलमकेदारैर्यथा कलमकेदारसदृशैः हरिपुङ्गवै: संपूर्णा वसुधा वसुन्धरेव कलमकेदारभूरिव बभूवेत्याहु: । उपमानद्वित्वं व्यञ्जयितुमुपमावाचकद्वयं प्रयुञ्जते कवयः । यथा उद्धृत्य मेघैस्तत एव तोयमर्थं मुनीन्द्रैरिव संप्रणीताः । आलोकयामास हरिः पतन्तीर्नदी: स्मृतीर्वेदमिवाम्बुराशि इति ॥ ९४ ॥
महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः ।
अध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम् ।। ९५ ।।
ततः शिखरमारुह्य रामो दशरथात्मजः ।
कूर्ममीनसमाकीर्णमपश्यत्सलिलाकरम् ।। ९६ ।।
ते सह्यं समतिक्रम्य मलयं च महागिरिम् ।
आसेदुरानुपूर्व्येण समुद्रं भीमनिःस्वनम् ।। ९७ ।।
अथ साह्यमलयातिक्रमणानन्तरं । राजीवलोचन इति समुद्रदर्शनाय महेन्द्रशिखरारोहणकुतूहलित्वमुक्तं ॥ ९५-९७ ॥
अवरुह्य जगामाशु वेलावनमनुत्तमम् ।
रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः ।। ९८ ।।
अथ धौतोपलतलां तोयौघैः सहसोत्थितैः ।
वेलामासाद्य विपुलां रामो वचनमब्रवीत् ।। ९९ ।।
वेलावनस्योन्नतत्वादवरुह्येस्युक्तं । रमयतां श्रेष्ठ इत्यनेन समुद्रसंभ्रमप्रदर्शनेन लक्ष्मणादिरञ्जकत्वं व्यञ्जितं ॥ ९८-९९ ॥
एते वयमनुप्राप्ताः सुग्रीव वरुणालयम् ।
इहेदानीं विचिन्ता सा या न पूर्वं समुत्थिता ।। १०० ।।
चिन्ता समुद्रतरणोपायचिन्ता । ॥ १०० ॥
अतः परमतीरोऽयं सागरः सरितां पतिः ।
न चायमनुपायेन शक्यस्तरितुमर्णवः ।। १०१ ।।
अतीरः अविद्यमानतीरः । जलप्राय इतियावत् । अनुपायेन उपायं विनेत्यर्थः । प्रसज्य प्रतिषेधे नञ्समासः ॥ १०१ ॥
तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिति ।
यथेदं वानरबलं परं पारमवाप्नुयात् ।। १०२ ।।
मन्त्रः कार्यविचारः । प्रस्तूयतां आरभ्यतां । इति वक्ष्यमाणप्रकारेण ।। १०२ ।।
इतीव स महाबाहुः सीताहरणकर्शितः ।
रामः सागरमासाद्य वासमाज्ञापयत्तदा ।। १०३ ।।
सर्वाः सेना निवेश्यन्तां वेलायां हरिपुङ्गवः ।
सम्प्राप्तो मन्त्रकालो नः सागरस्यास्य लङ्घने ।। १०४ ।।
इतिवेत्यनेन सेनानिवेशनियोगे सागरतरणोपाय विचार: अहृदयो हेतुः । वस्तुतस्तु सीताहरणवेश एवं हेतुरिति व्यज्यते ॥ १०३ – १०४ ॥
स्वां स्वां सेनां समुत्सृज्य मा च कश्चित्कुतो व्रजेत् ।
गच्छन्तु वानराः शूरा ज्ञेयं छन्नं बलं च नः ।। १०५ ।।
कुतः कुतश्चिद्धेतोः । शूराः वानराः गच्छन्तु सर्वतः सञ्चरन्तु । किमर्थमित्याह – ज्ञेयमिति नः अस्माकं । भयं भयनिमित्तं । छन्नं ज्ञेयं तत्र तत्र निलीनैः शत्रुभिः प्रायशः प्रहारसंभवादिति भावः ।। १०५ ।।
रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः ।
सेनां न्यवेशयत्तीरे सागरस्य द्रुमायुते ।। १०६ ।।
द्रुमायुते द्रुमैर्युक्ते । मिश्रणार्थाद्यौतेर्निष्ठा ॥ १०६ ।।
विरराज समीपस्थं सागरस्य तु तद्बलम् ।
मधुपाण्डुजलः श्रीमान्द्वितीय इव सागरः ।। १०७ ।।
वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः ।
विनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः ।। १०८ ।।
सागरस्य समीपस्थं तद्बलं मधुपाण्डुजल: मधुवत्पिङ्गलजल: । द्वितीय: सागर इव विरराजे- व्युत्प्रेक्षा ॥ १०७ – १०८ ॥
तेषां निविशमानानां सैन्यसन्नाहनिस्वनः ।
अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ।। १०९ ।।
अन्तर्घाय स्थित इतिशेषः ॥ १०९ ॥
सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता ।
त्रिधा निविष्टा महती रामस्यार्थपराभवत् ।। ११० ।।
त्रेधा त्रिप्रकारैः वलयत्रयाकारेणेति यावत् । वानरगोपुच्छभल्लूकभेदेन त्रेधेति वा ॥ ११० ॥
सा महार्णवमासाद्य हृष्टा वानरवाहिनी ।
वायुवेगसमाधूतं पश्यमाना महार्णवम् ।। १११ ।।
पश्यमाना पश्यन्ती सती । हृष्टा अभूदिति शेषः ॥ १११ ॥
दूरपारमसम्बाधं रक्षोगणनिषेवितम्
पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः ।। ११२ ।।
दूरं पारं यस्य दूरपारं विशालमित्यर्थः । असंबाधं संबाधरहितं । अक्षोभ्यमित्यर्थः । रक्षोगणनिषेवितं समुद्रे रक्षांसि वसन्तीति प्रसिद्धिः ॥ ११२ ॥
चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये ।
हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः ।। ११३ ।।
चण्डनक्रै: करणैः ग्रहः ग्रहणं यस्य स तथोक्तः तं । सूर्यादौ ग्रहणे युद्धे पूतनादावनुग्रहे । उपरागे च निर्बन्धे स्वर्भानौ च ग्रहः स्मृतः इति निघण्टुः ॥ दिवसक्षये क्षपादौ सन्ध्यायामित्यर्थः । घोरं वर्धमानत्वाद्भयङ्करं ।। ११३ ॥
चन्द्रोदय समद्भूतं प्रतिचन्द्रसमाकुलम् ।
चण्डानिलमहाग्राहैः कीर्णं तिमितिमिङ्गिलैः ।। ११४ ।।
समुद्भूतं उल्ललितं । प्रतिवीचि प्रतिविम्बितचन्द्रत्वात् प्रतिचन्द्रैः समाकुलं । चण्डानिलमहाग्राहैः चण्डानिलसदृशवेगमहाग्राहैरित्यर्थः । तिमय: शतयोजनायता महामत्स्याः । तानपि भक्षयितुं क्षमास्तिमिङ्गिलाः । तिमीन्निगिरतीति व्युत्पत्तेः । गृ निगरणे इति धातुः । ग्रोचि इति लत्वं । तदुक्तं पुराणे अस्ति मत्स्यस्तिमिर्नाम शतयोजनमायत: । तिमिङ्गिलगिलोप्यस्ति तद्गिलोप्यस्ति सागरे इति ।। ११४ ।।
दीप्तभोगैरिवाक्रीर्णं भुजङ्गैर्वरुणालयम् ।
अवगाढं महासत्वैर्नानाशैलसमाकुलम् ।
सुदुर्गं द्रुगममार्गं तमगाधमसुरालयम् ।। ११५ ।।
दीप्तभोगैः शिरोरत्नकान्त्या प्रकाशितफणैरिव स्थितैः । महासत्त्वैः जलगजशिंशुमारादिभिः । सुदुर्ग यादोभिः । दुर्गमार्गं दुर्गमं । नौपथसञ्चारायोग्यमित्यर्थः । योगरूढिभ्यां वरुणावासवरुणालय- पदद्वयनिर्वाहः ॥ ११५ ॥
मकरैर्नागभोगैश्च विगाढा वातलोहिताः ।
उत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः ।। ११६ ।।
तदानीं सागरमुत्प्रेक्षते- मकरैरिति ॥ नागभोगैः सर्पकायैः । विगाढा: प्रविष्टाः । वातलोलिताः वायुचलिताः । अतएव प्रवृद्धा: जलराशयः तरङ्गाः । उत्पेतुश्च निपेतुश्च । उत्पत्य निपेतुरिति भावः ॥ ११६ ॥
अग्निचूर्णमिवाविद्धं भास्कराम्बु मनोरगम् ।
सुरारिविषयं घोरं पातालविषमं सदा ।। ११७ ।।
सागरं चाम्बरप्रख्यमम्बरं सागरोपमम् ।
सागरं चाम्बरं चेति निर्विशेषमदृश्यत ।। ११८ ।।
अथ सागराम्बरयोः सर्वथा साम्यं वर्णयति – ग्निचूर्णमित्यादिना ॥ रात्रौ सागरस्य सलिलशीकरा: अग्निचूर्णा इव दृश्यन्त इति प्रसिद्धिः । अतो भाखराण्यम्बूनि शीकररूपाणि यस्य तथोक्तं । अतएवाविद्धं आकीर्णं । अग्निचूर्णमिव सागरे दृश्यते । अम्बरं च कीर्णैर्नक्षत्रैस्तथा दृश्यते । भास्वराम्बु विमलतुहिनं च । महान्त उरगा यस्मिन् तन्महोरगं । इदमप्युभयत्रापि समानं । आकाशे गन्धर्वादीनामिव नागानामपि सञ्चारसम्भवात् । राह्वादिरूपोरगसंभवाद्वा । सुरारयः असुरा राक्षसाश्च तेषां विषयं आवासभूतं । इदमप्युभयत्र तुल्यं । पातालविषमं पातालवत् गम्भीरं । इदमप्युभयत्र तुल्यं । घोरं भयङ्करं । इदमप्युभयत्र तुल्यं । एवमुक्तविशेषणविशिष्टं सागरं सागरः । अम्बरप्रख्यं अम्बरामं । उक्तविशेषणविशिष्टमम्बरं च सागरोपममदृश्यतेत्याकृष्य योजना । न केवलं साम्यं सर्वथा साम्यं चेत्याह – सागरमिति ॥ क्लीबत्वमार्षं ॥ ११७ – ११८ ॥
सम्पृक्तं नभसाप्यम्भः सम्पृक्तं च नभोऽम्भसा ।
तादृग्रूपे स्म दृश्येते तारा रत्नसमाकुले ।। ११९ ।।
प्रकारान्तरेणापि उक्तं साम्यं दर्शयति – संपृक्तमिति ॥ संपृक्त संसृष्टं । तुल्यवर्णमितियावत् । हिशब्दो हेतौ । तादृग्रूपे अन्योन्यतुल्यरूपे । तारारत्नसमाकुले सागराम्बरे दृश्येते स्म ॥ ११९ ॥
समुत्पतितमेघस्य वीचि मालाकुलस्य च ।
विशेषो न द्वयोरासीत्सागरस्याम्बरस्य च ।। १२० ।।
समुत्पतितेति । मेघवीचिमालयोर्बिम्बप्रतिबिम्बभावेनोपमानत्वं ।। १२०॥
अन्योन्यमाहताः सक्ताः सस्वनुर्भीमनिःस्वनाः ।
ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे ।। १२१ ।।
प्रथमं सक्ताः अथ आहताः इत्यन्वयः ॥ १२१ ॥
रत्नौघजलसंनादं विषक्तमिव वायुना ।
उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ।। १२२ ।।
ददृशुस्ते महोत्साहा वाताहतजलाशयम् ।
अनिलोद्धूतमाकाशे प्रवल्गतमिवोर्मिभिः ।। १२३ ।।
रत्नौघेत्यादिश्लोकद्वयं ॥ रत्नौघजलयोः सन्नादो यस्मिन् । अनेन वेगवद्वायुजनितक्षोभातिशयादन्तर्गतरत्नानामुद्गमनमवगम्यते । वायुना विषक्तमिव वायुना एकीभूतमिव । यादोगणसमाकुलं यादांसि जलजन्तवः तेषां गणेन समाकुलं । वाताहतजलाशयं जलाशय: समुद्रः वाताहतश्चासौ जलाशयश्चेति कर्मधारयः तं ऊर्मिभिः आकाशे वल्गन्तमिव स्थितं । एतन्निरूपणार्थमेव अनिलोद्धतमिति पुनरुक्तिः ॥ १२२ -१२३॥
ततो विस्मयमापन्ना ददृशुर्हरयस्तदा ।
भ्रान्तोर्मिजलसंनादं प्रलोलमिव सागरम् ।। १२४ ।।
ततइति विशेषाभिधानार्थत्वान्न पुनरुक्ति: । आन्तोर्मिजलसन्नादमिति । घूर्णिततरङ्गजलसन्नादो यस्मिन् तं प्रलोलमिव उद्धान्तमिव ॥ १२४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्थः सर्गः ॥ ४ ।।
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुर्थः सर्गः ॥ ४ ॥