श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टमः सर्गः
प्रहस्तादिभीरावणंप्रत्यास्मश्लाघनपूर्वकं रामादिवधप्रतिज्ञानेन समाश्वासनम् ॥ १ ॥
ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः ।
अब्रवीत्प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा ।। १ ।।
देवदानवगन्धर्वाः पिशाचपतगोरगाः ।
न त्वां धर्षयितुं शक्ताः किं पुनर्वानरा रणे ।। २ ।।
एवं मन्त्रिभिः सहसंमन्त्र्य भूयोभिहिते सकलसचिवप्रधानः प्रहस्तः स्वाभिमतमर्थं राज्ञे निवेदयति – तत इति ॥ १-२ ।।
सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता ।
न हि मे जीवतो गच्छेज्जीवन्स वनगोचरः ।। ३ ।।
सर्वां सागरपर्यन्तां सशैलवनकाननाम् ।
करोम्यवानरां भूमिमाज्ञापयतु मां भवान् ।। ४ ।।
हनुमतः पौरुषं प्रत्यक्षतो दृष्ट्वा कथमेवमुच्यत इत्यत्राह – सर्व इति ॥ विश्वस्ताः परिभवितुमस्मान् कोपि न शक्त इति विश्वस्ताः विस्रब्धाः । प्रामादिकशत्रुपरिभवो न न्यूनतामापादयतीतिभावः ॥ ३–४ ॥
रक्षां चैव विधास्यामि वानराद्रजनीचर ।
नागमिष्यति ते दुःखं किं चिदात्मापराधजम् ।। ५ ।।
आत्मापराधः सीताहरणरूपो व्यतिक्रमः ॥ ५ ॥
अब्रवीत्तु सुसङ्क्रुद्धो दुर्मुखो नाम राक्षसः ।
इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम् ।। ६ ।।
अयं परिभवो भूयः पुरस्यान्तःपुरस्य च ।
श्रीमतो राक्षसेन्द्रस्य वानरेण प्रधर्षणम् ।। ७ ।।
हि यस्माद्वानरेण कृतमिदं कर्म सर्वेषां नः प्रधर्षणरूपं । भूयः तदुपरि पुर स्यान्तःपुरस्य च परिभवरूपं । अथच राक्षसेन्द्रस्य प्रधर्षणरूपं । अतो न क्षमणीयमित्यर्थः ॥ ६-७ ॥
अस्मिन्मुहूर्ते हत्वैको निवर्तिष्यामि वानरान् ।
प्रविष्टान्सागरं भीममम्बरं वा रसातलम् ।। ८ ।।
ततोऽब्रवीत्सुसङ्क्रुद्धो वज्रदंष्ट्रो महाबलः ।
प्रगृह्य परिघं घोरं मांसशोणितरूपितम् ।। ९ ।।
ततः किं करिष्यसीत्यत आह–अस्मिन्निति ॥ ८-९ ॥
किं वो हनुमता कार्यं कृपणेन तपस्विना ।
रामे तिष्ठति दुर्धर्षे ससुग्रीवे सलक्ष्मणे ।। १० ।।
अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम् ।
आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम् ।। ११ ।।
कृपणेन गूढसंचार प्रकटितभयेन । तपस्विना शोच्येन ॥ १० – ११ ।।
इदं ममापरं वाक्यं शृणु राजन्यदीच्छसि ।
उपायकुशलो ह्येव जयेच्छत्रूनतन्द्रितः ॥ १२ ॥
तद्वाक्यं किमित्याकाङ्क्षायामुपायप्रतिपादकं वाक्यं वक्तुमादावुपायं प्रशंसति – उपायेति ॥ १२ ॥
कामरूपधराः शूराः सुभीमा भीमदर्शनाः ।
राक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः ॥ १३ ॥
काकुत्स्थमुपसंगम्य बिभ्रतो मानुषं वपुः ।
सर्वे ह्यसंभ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम् ॥ १४ ॥
प्रेषिता भैरतेन स्म भ्रात्रा तव यवीयसा ।
[ तवागमनमुद्दिश्य कृत्यमात्ययिकं त्विति ] ।
स हि सेनां समुत्थाप्य क्षिप्रमेवोपयास्यति ॥ १५ ॥
विवक्षितमुपायमेवाह – कामरूपेत्यादिना ॥ निश्चिताः निश्चितवन्तः । राक्षसा वा सहस्राणीति । सहस्रशब्दस्य संख्येयपरत्वेपि शब्दस्वाभाव्यान्नपुंसकत्वं । किमिति ब्रूयुस्तत्राह — प्रेषिता इति ॥ अस्यान्ते इतिकरणं द्रष्टव्यं ।। १३-१५ ।।
ततो वयमितस्तूर्णं शूलशक्तिगदाधराः ।
चापबाणासिहस्ताश्च त्वरितास्तत्र याम ह ॥ १६ ॥
आकाशे गणशः स्थित्वा हत्वा तां हरिवाहिनीम् ।
अश्मशस्त्रमहावृष्ट्या प्रापयाम यमक्षयम् ॥ १७ ॥
ते वयं तत्र समीपे याम । यामेति लोटि रूपं ॥ १६-१७ ॥
एवं चेदुपसर्पेतामनयं रामलक्ष्मणौ ।
अवश्यमपनीतेन जहतामेव जीवितम् ॥ १८ ॥
कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान् ।
अब्रवीत्परमक्रुद्धो रावणं लोकरावणम् ।। १९ ।।
एवं कृते किं स्यादित्यत्राह — एवं चेदिति ॥ राम लक्ष्मणौ अनयं अस्मत्कृतकैतवापरिज्ञानेन विश्वासं यद्युपसर्पेतां ततस्तेन अपनीतेन अपनयेन । जीवितं जहतामेव । जह्यातामेवेत्यर्थः ॥ १८- १९ ॥
सर्वे भवन्तस्तिष्ठन्तु महाराजेन सङ्गताः ।
अहमेको हनिष्यामि राघवं सहलक्ष्मणम् ।
सुग्रीवं च हनूमन्तं सर्वानेव च वानरान् ।। २० ।।
सर्व इत्यादि सार्धश्लोकमेकं वाक्यं ॥ २० ॥
ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः ।
क्रुद्धः परिलिहन्वक्त्रं जिह्वया वाक्यमब्रवीत् ।। २१ ।।
स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः ।
एकोऽहं भक्षयिष्यामि तान्सर्वान्हरियूथपान् ।। २२ ।।
तत इत्यादिसार्धश्लोकत्रयमेकान्वयं ।। २१ – २२ ।।
स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधुवारुणीम् ।। २३ ।।
अहमेको हनिष्यामि सुग्रीवं सहलक्ष्मणम्
अङ्गदं च हनूमन्तं रामं च रणकुञ्जरम् ।। २४ ।।
मधुवारुणीं मधुरूपां वारुणीं । रणकुञ्जरं रणाप्रवृष्यं । स्वःस्था इत्यमङ्गलोक्तिः ॥ २३ – २४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टमः सर्गः ॥ ८ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रा- मायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टमः सर्गः ॥ ८ ॥