श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पडुत्तरशततमः सर्गः
अपवाहितरथंसारथिंप्रति क्रूद्धेनरावणेनभर्त्सनम् ॥ १ ॥ सारथिना तंप्रति रथापवहनस्य सहेतुकत्वोक्त्त्यासमाश्वासनपूर्वकं तदाज्ञया पुनारामाग्रतोरथानयनम् ॥ २ ॥
स तु मोहात्सुसंक्रुद्धः कृतान्तबलचोदितः ।
क्रोधसंरक्तनयनो रावणः सुतमब्रवीत् ॥ १ ॥
अथ रावणरथप्रत्यानयनं षट्शततमे स तु मोहादित्यादि ।। मोहात् अविवेकात् ॥ १ ॥
हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम् ।
भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा ॥ २ ॥
विमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम् ।
मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे ॥ ३ ॥
हीनवीर्यमिवेत्यादिश्लोकद्वयमेकान्वयं । यत्र यत्र इवशब्दो नास्ति तत्र तत्रानुषज्जनीयः । हीनवीर्यमिव हीनबलमिव । अशक्तमिव निरुत्साहमिव । असत्त्वमिव अधीरमिव । तेजसा परिभवासहनेन ॥ २-३ ॥
किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च ।
त्वया शत्रोः समक्षं मे रथोऽयमपवाहितः ॥ ४ ॥
मच्छन्दं मदभिप्रायं । वशाभिप्राययोश्छन्दः इत्यमरः ।। ४ ।।
त्वयाऽद्य हि ममानार्य चिरकालसमार्जितम् ।
यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः ॥ ५ ॥
प्रत्ययः रावणस्य युधि पलायनं नास्तीति सर्वेषां विश्वासः । विनाशित इत्यस्य यशआदिषु लिङ्गविपरिणामः ॥ ५ ॥
शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः ।
पश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया ॥ ६ ॥
शत्रोः पश्यतः शत्रौ पश्यति ॥ ६ ॥
यस्त्वं रथमिमं मोहान्न चोद्वहसि दुर्मते ।
सत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः ॥ ७ ॥
यः नोद्वहसि अभिमुखं न प्रापयसि किं त्वपवाहयसि । स त्वं उपस्कृतः परेणोत्कोचादिना वशीकृत इत्ययं प्रतितर्कः सत्यः प्रतिभाति ॥ ७ ॥
न हि तद्विद्यते कर्म मुहृदो हितकाङ्क्षिणः ।
रिपूणां सदृशं चैतन्न त्वयैतत्स्वनुष्ठितम् ॥ ८ ॥
न त्वयैतत् स्वनुष्ठितमिति । त्वयानुष्ठितमेतत् नतु स्वनुष्ठितं तत् ॥ ८ ॥
निवर्तय रथं शीघ्रं यावन्नोपैति मे रिपुः ।
यदि वाऽध्युषितो वाऽसि स्मर्यन्ते यदि वा गुणाः ॥ ९ ॥
एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना ।
अब्रवीद्रावणं सूतो हितं सानुनयं वचः ।। १० ।।
अध्युषितः सहवासी । सुहृदिति यावत् । उपधयोपसर्पितो वा । गुणाः सत्काराः ॥ ९–१० ॥
न भीतोस्मि न मृढोस्मि नोपजप्तोस्मि शत्रुभिः ।
न प्रमत्तो न निस्नेहो विस्मृता न च सत्क्रिया ॥ ११ ॥
मया तु हितकामेन यशश्च परिरक्षता ।
स्नेहप्रस्कन्नमनसा प्रियमित्यप्रियं कृतम् ॥ १२ ॥
नोपजतः उपजापं भेदं न गमितः । भेदोपजापौ इत्यमरः ॥ ११ -१२ ।।
नास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम् ।
कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि ॥ १३ ॥
अस्मिन्नर्थे रथापवाहनरूपेर्थे कश्चित् कुत्रापि कुले जातः । लघुः अल्पबुद्धिः । अनार्य : दुष्टहृदय इव । मा दोषतः गन्तुं ज्ञातुं । नार्हसि । गत्यर्था ज्ञानार्थाः ॥ १३ ॥
श्रूयतां त्वभिधास्यामि यन्निमित्तं मया रथः ।
नदीवेग इवाभोगे संयुगे विनिवर्तितः ॥ १४ ॥
यन्निमित्तं । यत्कारणात् । निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम् इति प्रथमा । आभोगे उन्नतप्रदेशे । आभोगान्नदीवेग इव रथः संयुगाद्विनिवर्तित इत्यर्थः । आभोगे संयुग इत्यत्र विभक्तिव्यत्ययः ॥ १४ ॥
श्रमं तवावगच्छामि महता रणकर्मणा ।
न हि ते वीर सौमुख्यं प्रहर्षं वोपधारये ॥ १५ ॥
सौमुख्यं सुमुखत्वं तन्मूलं प्रहर्षं ॥ १५ ॥
रथोद्वहनखिन्नाश्च त इमे रथवाजिनः ।
दीना घर्मपरिश्रान्ता गावो वर्षहता इव ॥ १६ ॥
रथेति अत्र आसन्निति शेषः ॥ १६ ॥
निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः ।
तेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम् ॥ १७ ॥
अभिपन्नेषु आविर्भूतेषु सत्सु । अप्रदक्षिणं प्रतिकूलं ।। १७ ।।
देशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च ।
दैन्यं खेदश्च हर्षश्च रथिनश्च बलाबलम् ॥ १८ ॥
स्थलनिम्नानि भूमेश्च समानि विषमाणि च ।
युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम् ॥ १९ ॥
उपयानापयाने च स्थानं प्रत्यपसर्पणम् ।
सर्वमेतद्रथस्थेन ज्ञेयं रथकुटुम्बिना ॥ २० ॥
निमित्तानिकिमर्थं त्वया विचारणीयानीत्यतआह– देशेत्यादिना ॥ श्लोकत्रयमेकान्वयं । लक्षणानि शुभाशुभनिमित्तानि । इङ्गितानि मुखप्रसादवैगुण्यादीनि । दैन्यं अनुत्साह: । स्थलानि उन्नतप्रदेशाः । निम्नानि अवनतप्रदेशा: । समानि सर्वत्र समप्रदेशा: । विषमाणि निम्नोन्नतप्रदेशा: । युद्धकाल इति पूर्वोक्तानुवादः । अन्तरदर्शनं दृश्यत इति दर्शनं द्रष्टव्यं । द्रष्टव्यं रन्ध्रमित्यर्थः । अन्तरदर्शनं रन्ध्रदर्शनं कर्तव्यमित्यध्याहारो वा । उपयानं समीपगमनं । अपयानं पार्श्वतो गमनं । स्थानं स्थैर्येणावस्थानं । प्रत्यपसर्पणं अभिमुखस्थित्या पृष्ठतोपसरणं । रथकुटुम्बिना सारथिना ।। १८-२० ।।
तव विश्रमहेतोश्च तथैषां रथवाजिनाम् ।
रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया ।
न मया स्वेच्छया वीर रथोऽयमपवाहितः ॥ २१ ॥
तवेत्यादिसार्धश्लोक एकान्वयः । तथा वाजिनां विश्रमहेतोश्चेत्यन्वयः । रौद्रं दुःसहं । वर्जयता अपनयता । हेतौ शतृप्रत्ययः । क्षमं युक्तं । स्वेच्छया अपनयननिमित्तं विना ॥ २१ ॥
भर्तृस्नेहपरीतेन मयेदं यत्कृतं विभो ॥ २२ ॥
भर्तृस्नेहेत्यर्धं । मया यकृतं तदिदं भर्तृस्नेहपरीतेनैव कृतमित्यर्थः ॥ २२ ॥
आज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन ।
तत्करिष्याम्यहं वीर गतानृण्येन चेतसा ॥ २३ ॥
संतुष्टस्तेन वाक्येन रावणस्तस्य सारथेः ।
प्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम् ॥ २४ ॥
यथातत्त्वं यत् कार्यस्वरूपं वक्ष्यसि तत्तथा गतानृण्येन आनृण्यं गतेन आनृण्यं कर्तव्यमिति कृतसंकल्पेन चेतसा मनसा । करिष्यामि ॥ २३-२४ ॥
रथं शीघ्रमिमं सूत राघवाभिमुखं कुरु ।
नाहत्वा समरे शत्रून्निवर्तिष्यति रावणः ॥ २५ ॥
एवमुक्त्वा ततस्तुष्टो रावणो राक्षसेश्वरः ।
ददौ तस्मै शुभं ह्येकं हस्तामरणमुत्तमम् ॥ २६ ॥
श्रुत्वा रावणवाक्यं तु सारथिः संन्यवर्तत ॥ २७ ॥
निवर्तिष्यति निवर्तिष्यते ।। २५–२७ ।।
ततो द्रुतं रावणवाक्यचोदितः प्रचोदयामास हयान्स सारथिः ।
स राक्षसेन्द्रस्य ततो महारथः क्षणेन रामस्य रणाग्रतोऽभवत् ॥ २८ ॥
महांश्चासौ रथश्च महारथ इति विग्रहः ॥ २८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पडुत्तरशततमः सर्गः ॥ १०६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षडुत्तरशततमः सर्गः ॥ १०६ ॥