श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे दशोत्तरशततमः सर्गः
रामेण रावणस्यैकैकशिरश्छेदे पुनः पुनः शिरोन्तरप्ररोहे एकोत्तरशतवारं तावच्छिरसांछेदनम् ॥ १ ॥
तौ तदा युध्यमानौ तु समरे रामरावणौ ।
ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना ॥ १ ॥
अथ रावणशिरश्छेदः – तौ तदेत्यादि ॥ समरे युद्धभूमौ । तदा उत्पातकाले । अन्तरात्मना अन्तःकरणेन उपलक्षितानि ॥ १ ॥
अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ ।
परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ ॥
परस्परवधे युक्तौ घोररूपौ बभूवतुः ॥ २ ॥
मण्डलानि च वीथीश्च गतप्रत्यागतानि च ।
दर्शयन्तौ बहुविधां मृतसारथ्यजां गतिम् ॥ ३ ॥
अर्दयन्तावित्यादिसार्धश्लोकद्वय मेकान्वयं ।। अर्दयन्तौ परस्परं पीडयन्तौ । रथयोः क्रोधादिकं रथिकद्वारा । मण्डलानि मण्डलगतीः । गतप्रत्यागतानि शत्रुरथं प्रति गमनं गतं पुनः स्थानं प्रत्यागमनं प्रत्यागतं तयोरावृत्त्या बहुवचनं । एवंप्रकारेण बहुविधां सूतसारथ्यजां सूतस्य यत् सारथ्यं सारथिकर्म तज्जां । गतिं संचारं दर्शयन्तौ तयोः रथौ घोररूपौ बभूवतुः ।। २-३ ।।
अर्दयन्रावणं रामो राघवं चापि रावणः ।
गतिवेगं समापन्नौ प्रवर्तननिवर्तने ॥ ४ ॥
रावणमर्दन् रामो राघवमर्दयन् रावणश्चोभौ प्रवर्तननिवर्तने तद्रूपं गतिवेगं समापन्नौ । बभूवतुरिति शेषः ॥ ४ ॥
क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ ।
चेरतुः संयुगमहीं सासारौ जलदौ यथा ॥ ५ ॥
सासारौ सजलधारौ ॥ ५ ॥
दर्शयित्वा तथा तौ तु गतिं बहुविधां रणे ।
परस्परस्याभिमुखौ पुनरेवावतस्थतुः ॥ ६ ॥
तथा गतिं पूर्वोक्तगतिभेदं ॥ ६ ॥
धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम् ।
पताकाश्च पताकाभिः समेयुः स्थितयोस्तदा ॥ ७ ॥
धुरं युगं । धुरेण । अकारान्तत्वमार्षं । स्थितयोः युद्धे गतिं बिना स्थितयोः । तयोरिति शेषः ॥ ७ ॥
रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः ।
चतुर्भिश्चतुरो दीप्तैर्हयान्प्रत्यपसर्पयत् ॥ ८ ॥
प्रत्यपसर्पयत् न्यवर्तयत् ॥ ८ ॥
स क्रोधवशमापन्नो हयानामपसर्पणे ।
मुमोच निशितान्बाणान्राघवाय निशाचरः ॥ ९ ॥
अपसर्पणे विषये ।। ९ ।।
सोतिविद्धो बलवता दशग्रीवेण राघवः ।
जगाम न विकारं च न चापि व्यथितोऽभवत् ॥ १० ॥
विकारं वेदनासूचकमुखविकारं ॥ १०॥
चिक्षेप च पुनर्बाणान्वज्रपातसमस्वनान् ।
सारथिं वज्रहस्तस्य समुद्दिश्य निशाचरः ॥ ११ ॥
वज्रपातोशनिपातः ॥ ११ ॥
मातलेस्तु महावेगाः शरीरे पतिताः शराः ।
न सूक्ष्ममपि संमोहं व्यथां वा प्रददुर्युधि ॥ १२ ॥
सूक्ष्मं अल्पं ॥ १२ ॥
तया धर्षणया क्रुद्धो मातलेर्न तथाऽऽत्मनः ।
चकार शरजालेन राघवो विमुखं रिपुम् ॥ १३ ॥
यथा मातले: तया धर्षणया क्रुद्धः तथा आत्मनो धर्षणया न क्रुद्धः । एवं क्रुद्धो रिपुं विमुखं चकार ॥ १३ ॥
विंशतं त्रिंशतं षष्टिं शतशोथ सहस्रशः ।
मुमोच राघवो वीरः सायकान्स्यन्दने रिपोः ॥ १४ ।।
विंशतमिति ॥ इकारलोपश्छान्दसः ॥ १४ ॥
रावणोपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ।
गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ॥ १५ ॥
रथस्थः रथे निश्चलतया स्थित इत्यर्थः ॥ १५ ॥
तेत्प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् ॥ १६ ॥
तत्प्रवृत्तमित्यर्धमेकं वाक्यं ॥ १६ ॥
गदानां मुसलानां च परिघाणां च निस्वनैः ।
शराणां पुङ्खपातैश्च क्षुभिताः सप्त सागराः ॥ १७ ॥
निस्वनैः वेगजैरिति शेषः ॥ १७ ॥
क्षुब्धानां सागराणां च पातालतलवासिनः ।
व्यथिताः पन्नगाः सर्वे दानवाश्च सहस्रशः ॥ १८ ॥
चकम्पे मेदिनी कृत्स्ना सशैलवनकानना ।
भास्करो निष्प्रभश्चासीन्न ववौ चापि मारुतः ॥ १९ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
चिन्तामापेदिरे सर्वे सकिन्नर महोरगाः ॥ २० ॥
स्वस्ति गोब्राह्मणेभ्यस्तु लोकास्तिष्ठन्तु शाश्वताः ।
जयतां राघवः सङ्ख्ये रावणं राक्षसेश्वरम् ॥२१॥
एवं जपन्तोपश्यंस्ते देवाः सर्षिगणास्तदा ।
रामरावणयोर्युद्धं सुघोरं रोमहर्षणम् ॥ २२ ॥
क्षुब्धानामिति ॥ क्षुब्धेषु सागरेष्वित्यर्थः ॥ १८-२२ ॥
गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्धमनूपमम् ॥ २३ ॥
गगनं गगनाकारं सागरः सागरोपमः ।
रामरावणयोर्युद्धं रामरावणयोरिव ॥
एवं ब्रुवन्तो ददृशुस्तद्युद्धं रामरावणम् ॥ २४ ॥
गन्धर्वेति ॥ गन्धर्वाप्सरसामित्यर्धानन्तरं गगनं गगनाकारमिति श्लोकः । तदनन्तरं एवं ब्रुवन्त इत्यर्धं । गन्धर्वाप्सरसां संघा: अनूपमं अनुपमं युद्धं दृष्ट्वा गगनं गगनाकारमित्येवं ब्रुवन्तः सन्तः पुनर्ददृशुरित्यन्वयः । अनुपमत्वमेवाह-गगनमिति ॥ यथा गगनसागरयोः सदृशवस्त्वन्तराभावः तथा रामरावणयुद्धस्य सदृशं युद्धं किंचिन्नास्तीत्यर्थः । सदृशान्तरनिवृत्तिफलकोनन्वयालंकारः । रामरावणं रामरावणसंबन्धि ॥ २३-२४ ॥
ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनः ।
संधाय धनुषा रामः क्षुरमाशीविषोपमम् ॥ २५ ॥
रावणस्य शिरोच्छिन्दच्छ्रीमज्वलितकुण्डलम् ।
तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिस्तदा ॥ २६ ॥
तस्यैव सदृशं चान्यद्रावणस्योत्थितं शिरः ।
तत्क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा ॥ २७ ॥
द्वितीयं रावणशिरश्छिन्नं संयति सायकैः ।
छिन्नमात्रं तु तच्छीर्षं पुनरन्यत्स्म दृश्यते ॥ २८ ॥
तदप्यशनिसंकाशैश्छिन्नं रामेण सायकैः ।
एवमेकशतं छिन्नं शिरसां तुल्यवर्चसाम् ॥ २९ ॥
न चैव रावणस्यान्तो दृश्यते जीवितक्षये ॥ ३० ॥
ततः सर्वास्त्रविद्वीरः कौसल्यानन्दवर्धनः ।
मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः ॥ ३१ ॥
ततः क्रुद्ध इत्यादिसार्धश्लोकपञ्चकमेकं वाक्यं ॥ क्षुरं क्षुराग्रबाणं । शिरः अच्छिन्दत् अच्छिनत् । एकवचनात्तदानीं रावण एकशिरा एव युद्धमकरोदिति गम्यते । अतएव वक्ष्यति- विक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितावित्यादिना । छिन्नमात्रं तु तच्छीर्षमिति । तच्छीर्षे छिन्ने तदानीमेवेत्यर्थः । एकशतं छिन्नं एकोत्तरशतवारं छिन्नमित्यर्थः । पुनः पुनः शिरश्छेदनं चिरतृषितशरतृष्णानिवृत्त्यर्थं । जीवितक्षये विषये, अन्तः अवधिः निश्चयो वा, न दृश्यते नादृश्यत ॥ २५ – ३१ ॥
मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः ।
क्रौञ्चावने विराधस्तु कबन्धो दण्डकावने ॥ ३२ ॥
[यैः साला गिरयो भग्ना वाली च क्षुधितोऽम्बुधिः ॥]
त इमे सायकाः सर्वे युद्धे प्रात्ययिका मम ॥
किंनु तत्कारणं येन रावणे मन्दतेजसः ॥ ३३ ॥
इति चिन्तापरश्चासीदप्रमत्तश्च संयुगे ।
ववर्ष शरवर्षाणि राघवो रावणोरसि ॥ ३४ ॥
रावणोपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ।
गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ॥ ३५ ॥
मारीच इत्यादिसार्धश्लोकद्वयमेकान्वयं ॥ क्रौञ्चावने कबन्धः । दण्डकावने विराध इत्यन्वयः । प्रात्ययिका: विश्वस्ताः । त इमे रावणे विषये मन्दतेजस: अल्पशक्तिकाः । अभवन् । तत्कारणं किं नु न जानामीति शेषः ॥ ३२-३५ ।।
तत्प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् ।
अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि ॥ ३६ ॥
त्रिकूटशिखरे युध्यतोस्तयोराग्रहकृतगतिवशेन अन्तरिक्षे भूमौ च पुनश्च गिरिमूर्धनि त्रिकूटशिखरे च तन्महद्युद्धं प्रवृत्तमित्यर्थः ॥ ३६ ।।
देवदानवयक्षाणां पिशाचोरगरक्षसाम् ।
पश्यतां तन्महयुद्धं सर्वरात्रमवर्तत ॥ ३७ ॥
देवदानवेति ॥ यस्य च भावेन इति भावलक्षणे षष्ठी । सर्वरात्रं अहोरात्रमित्यर्थः । सप्तरात्रमित्यपपाठः । वक्ष्यमाणदिनसंख्याविरोधात् । यद्वा सर्वरात्रमित्यपपाठः। सप्तरात्रमित्येव सम्यक्पाठः । फाल्गुन चतुर्दश्यां हनुमता लङ्कादाहः । पौर्णमास्यां रामस्य समुद्रतीरप्राप्तिः। प्रथमाद्वितीयातृतीयासु दुर्भशयनं । अष्टम्यां सुवेलारोहणं । नवम्यां युद्धारम्भ इति सप्तरात्रं रामरावणयुद्धमिति । इदं च इतस्तु नवमेहनीत्यत्र विस्तृतं ।। ३७ ।।
नैव रात्रं न दिवसं न मुहूर्तं न च क्षणम् ।
रामरावणयोर्युद्धं विराममुपगच्छति ॥ ३८ ॥
नैवरात्रमिति । कालाध्वनोरत्यन्तसंयोगे इति द्वितीया ॥ ३८ ॥
दशरथसुतराक्षसेन्द्रयोर्जयमनवेक्ष्य रणे स राघवस्य ।
सुरवररथसारथिर्महान्रणगतमेनमुवाच वाक्यमाशु ॥ ३९ ॥
दशरथेति । निर्धारणे षष्ठी । दशरथसुतराक्षसेन्द्रयोः रामरावणयोर्मध्ये । राघवस्य जयमनवेक्ष्य महान् महाबुद्धिरित्यर्थः । सुरवररथसारथिः एनं रामं उवाच ॥ ३९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे दशोत्तरशततमः सर्गः ॥ ११० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने दशोत्तरशततमः सर्गः ॥ ११० ॥