[highlight_content]

113 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोदशोत्तरशततमः सर्गः

रावणान्तः पुराङ्गनाभीरणाङ्गणमेत्य तदङ्गपरिष्वङ्गेणबहुधाविलापः ॥ १ ॥

 

रावणं निहतं श्रुत्वा राघवेण महात्मना ।

अन्तःपुराद्विनिष्पेतू राक्षस्यः शोककर्शिताः ॥ १ ॥

वार्यमाणाः सुबहुशो वेष्टन्त्यः क्षितिपांसुषु ।

विमुक्तकेश्यो दुःखार्ता गावो वत्सहता इव ॥ २ ॥

अथ रावणान्तः पुरस्त्रीविलापःरावणमित्यादिश्लोकद्वयमेकान्वयं ॥ वत्सहताः हृतवत्साः ॥ १-२ ॥

 

उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः ।

प्रविश्यायोधनं घोरं वििन्वन्त्यो हतं पतिम् ॥ ३ ॥

राजपुत्रेतिवादिन्यो हा नाथेति सर्वशः ।

परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम् ।। ४ ।।

उत्तरेणेत्यादिश्लोकद्वयमेकान्वयं ॥ शोणितैः कर्दमो यस्यास्तां शोणितकर्दमां ॥ ३-४ ॥

 

ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः ।

करेण्व इव नर्दन्त्यो विनेदुर्हतयूथपाः ॥ ५ ॥

ददृशुस्तं महावीर्ये महाकायं महाद्युतिम् ।

रावणं निहतं भूमौ नीलाञ्जनयोपमम् ॥ ६ ॥

ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु ।

निपेतुस्तस्य गात्रेषु ्छिन्ना वनलता इव ॥ ७ ॥

हतयूथपा इति । करेणुविशेषणं । अतएव नर्दन्त्यः करेण्व इव विनेदुरित्यन्वयः ॥ ५-७ ।।

 

बहुमानात्परिष्वज्य कािदेनं रुरोद ह ।

रणौ कािदालिङ्ग्य काित्कण्ठेऽवलम्ब्य ॥ ८ ॥

उद्धृत्य भुजौ कािद्भूमौ स्म परिवर्तते ।

हतस्य वदनं दृष्ट्वा कािन्मोहमुपागमत् ॥ ९ ॥

कािदङ्के शिरः कृत्वा रुरोद मुखमीक्षती ।

स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम् ॥ १० ॥

बहुमानादित्यादिश्लोकत्रयमेकान्वयं ॥ परिवर्तते वेष्टते । ईक्षती ईक्षमाणा ॥ ८-१० ।।

 

एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि ।

ुक्रुशुर्बहुधा शोकाद्भूयस्ताः पर्यदेवयन् ॥ ११ ॥

येन वित्रासितः शक्रो येन वित्रासितो यमः ।

येन वैश्रवणो राजा पुष्पकेण वियोजितः ॥ १२ ॥

गन्धर्वाणामृषीणां सुराणां महात्मनाम् ।

भयं येन महद्दत्तं सोयं शेते रणे हतः ॥ १३ ॥

ुक्रुशुरिति । क्रोशः निरक्षरध्वनिः । परिदेवनं साक्षरशब्दः ॥ ११-१३ ॥

 

असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योपि वा तथा ।
न भयं यो विजानाति तस्येदं मानुषाद्भयम् ॥ १४ ॥

अवध्यो देवतानां यस्तथा दानवरक्षसाम् ।

हतः सोयं रणे शेते मानुषेण पदातिना ॥ १५ ॥

मानुषाद्भयं । जातमिति शेषः ॥ १४-१५ ॥

 

यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा ।

सोयं कश्िदिवासत्त्वो मृत्युं मर्सेन लम्भितः ॥ १६ ॥

एवं वदन्त्यो बहुधा रुरुदुस्तस्य ताः स्त्रियः ।

भूय एव दुःखार्ता विलेपुश् पुनः पुनः ॥ १७ ॥

कश्िदि वयः कश्ित्पुरुष इव लम्भितः प्रापितः ॥ १६-१७ ॥

 

अशृण्वता सुहृदां सततं हितवादिनाम् ।

मरणायाहृता सीता घातिताश् निशाराः ॥ १८ ॥

सुहृदां सुहृद्भ्यः । पञ्म्यर्थे षष्ठी । वनमितिवाशेषः । अश्रृण्वता त्वया ॥ १८ ॥

 

एताः सममिदानीं ते वयमात्मा पातिताः ।

ब्रुवाणोपि हितं वाक्यमिष्टो आता विभीषणः ॥

धृष्टं परुषितो मोहान्त्वयाऽऽत्मवधकाङ्क्षिणा ॥ १९ ॥

एताः वयं ते राक्षसा: आत्मा समं युगपत् इदानीं पातिताः । मारिताइत्यर्थः । इष्टः प्रीतिमान् ॥ १९ ॥

 

यदि निर्यातिता ते स्यात्सीता रामाय मैथिली ।

ननः स्याद्व्यसनं घोरमिदं मूलहरं महत् ॥ २० ॥

वृत्तकामो भवेद्भ्राता रामो मित्रकुलं भवेत् ।

वयं ाविधवाः सर्वाः सकामा न शत्रवः ॥ २१ ॥

यदीत्यादिश्लोकद्वयमेकान्वयं ॥ ते त्वया । निर्यातिता प्रत्यर्पिता । मूलहरं मूलभूतत्वत्पर्यन्तहरं । यदि सीता निर्यातिता स्यात्तदा भ्राता विभीषणो वृत्तकामः निष्पन्नमनोरथः भवेत् । स्ववाक्यकरणादिति भावः । तथा रामः मित्रकुलं कुलमित्रं । शत्रवः देवादयः ॥ २०-२१ ॥

 

त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात् ।

राक्षसा वयमात्मा त्रयं तुल्यं निपातितम् ।। २२ ।।

तुल्यमिति । युगपदित्यर्थः ॥ २२ ॥

 

न कामकारः कामं वा तव राक्षसपुङ्गव ।

दैवं ेष्टयते सर्वे हतं दैवेन हन्यते ॥ २३ ॥

वानराणां विनाशोऽयं रक्षसां महाहवे ।

तव ैव महाबाहो दैवयोगादुपागतः ॥ २४ ॥

एवं रावणस्वे्छारणस्य राक्षसनाशहेतुतामभिधाय संप्रति तन्निरासपूर्वकं दैवकारितत्वं दर्शयति-न कामकार इति ॥ कामकारः स्व्छन्दकरणं कामं प्रकामं । नास्ति । कुतः दैवं ेष्टयते सर्वं हतं दैवेन हन्यते । दैवेन हतमन्येन हन्यते ॥ २३-२४ ॥

 

नैवार्थेन न कामेन विक्रमेण न ाज्ञया ।

शक्या दैवगतिर्लोके निवर्तयितुमुद्यता ॥ २५ ॥

उद्यता कार्योन्मुखी दैवगतिः अर्थादिना न निवर्तयितुं शक्या । कामेन स्वे्छया ॥ २५ ॥

 

विलेषुरेवं दीनास्ता राक्षसाधिपयोषितः ।

कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः ॥ २६ ॥

कुरर्यः क्रौञ््यः ॥ २६ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोदशोत्तरशततमः सर्गः ॥ ११३ ॥

इति श्रीगोविन्दराजविरिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रयोदशोत्तरशततमः सर्गः ॥ ११३ ॥

Languages

Related Parts

error: Content is protected !!