श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्दशोत्तरशततमः सर्गः
मण्डोदर्या रणाङ्गणेरावणानुशोचनपूर्वकं शोकेनबहुधाविलापः ॥ १ ॥ विभीषणेन रामाज्ञया यथाविधिरावणसंस्करणम् ॥ २ ॥
तासां विलपमानानां तथा राक्षसयोषिताम् ।
ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत ॥ १ ॥
अथ मण्डोदरीप्रलापादि- तासामित्यादि ॥ विलपमानानां विलपन्तीनां । तथा विलपमानानामित्यन्वयः । दीना सती समुदैक्षत ॥ १ ॥
दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा ।
पतिं मण्डोदरी तत्र कृपणा पर्यदेवयत् ॥ २ ॥
मण्डोदरी मण्डनभूतोदरी । कृशोदरीति यावत् । मडि भूषायां इति धातोर्भावे कप् प्रत्ययः । मण्डं सारं सुन्दरमिति यावत् । तादृशोदरीत्येके । मण्डा पृथुपिपीलिका तस्या इव उदरं यस्याः सा मण्डोदरीत्यप्याहुः ॥ २ ॥
ननु नाम महाभाग तव वैश्रवणानुज ।
क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरन्दरः ॥
ऋषयश्च महीदेवा गन्धर्वाश्च यशस्विनः ॥ ३ ॥
यद्यपि समरमरणं शूराणां श्लाघ्यमिति न वीरपत्नी तच्छोचितुमर्हा, तथाप्यसमानान्मानुषात्प्राप्तमिदं लज्जावहमिति शोचति – ननु नाम तवेत्यादिना सार्धश्लोकेन ॥ नाम प्रसिद्धौ । महीदेवाः ब्राह्मणाश्च । त्रस्यन्तीत्यनुषङ्गः । स कथं मानुषेण जित इति शेषः ॥ ३ ॥
ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः ।
स त्वं मानुषमात्रेण रामेण युधि निर्जितः ॥
न व्यपत्रपसे राजन्किमिदं राक्षसर्षभ ॥ ४ ॥
ननु नामेत्यादिसार्धश्लोक एकान्वयः ॥ चारणाश्च आकाशचारिणश्च । न व्यपत्रपसे । मानुषविजयेनेति शेषः । किमिदं किमेवमवस्थानकारणमित्यर्थः ॥ ४ ॥
कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम् ।
अविषह्यं जघान त्वां मानुषो वनगोचरः ॥ ५ ॥
[ जहि वीर महावीर्यौ विस्मितौ रामलक्ष्मणौ ॥ ६ ॥ ]
वीर्येण त्रैलोक्यमाक्रम्य श्रियान्वितं त्वां मानुषस्तत्रापि वनगोचरः कथं जघान । अद्भुतमित्यर्थः ॥ ५-६ ॥
मनुषाणामविषये चरतः कामरूपिणः ।
विनाशस्तव रामेण संयुगे नोपपद्यते ॥ ७ ॥
तदेवासंभावितत्वं निरूपयति – मानुषाणामिति ॥ अविषये अगम्यदेशे ॥ ७ ॥
न चैतत्कर्म रामस्य श्रद्दधामि चमूमुखे ।
सर्वतः समुपेतस्य तव तेनाभिमर्शनम् ॥ ८ ॥
सर्वतः समुपेतस्य सर्वयुद्धोपकरणैः पूर्णस्य । तव तेन रामेण अभिमर्शनं आक्रमणमिति यत् एतद्रामस्य न श्रद्दधामि रामसंबन्धिकर्मेति न श्रद्दधामि ॥ ८ ॥
यदैव च जनस्थाने राक्षसैर्बहुभिर्वृतः ।
खरस्तव हतो भ्राता तदेवासौ न मानुषः ॥ ९ ॥
यदैव नगरीं लङ्कां दुष्प्रवेशां सुरैरपि ।
प्रविष्टो हनुमान्वीर्यात्तदैव व्यथिता वयम् ॥ १० ॥
यदैव वानरैर्घोरर्बद्धः सेतुर्महार्णवे ।
तदैव हृदयेनाहं शङ्के रामममानुषम् ॥ ११ ॥
रावणवधस्य मानुषेणाकृतत्वे केन कृतः स्यादित्याशङ्क्य पक्षान्तरमुपक्षिपति – यदैवेत्यादिना ॥ ९-११ ॥
अथवा रामरूपेण कृतान्तः स्वयमागतः ।
मायां तव विनाशाय विधायाप्रतितर्किताम् ॥ १२ ॥
अथवा वासवेन त्वं धर्षितोसि महाबल ।
वासवस्य कुतः शक्तिस्त्वां द्रष्टुमपि संयुगे ॥
[ महाबलं महावीर्यं देवशत्रुं महौजसम् ॥ १३ ॥ ]
एवं सामान्यतो रामस्यामानुषत्वं प्रतिपाद्य उत्तरोत्तरोत्कृष्टयमेन्द्रादिदेवताविशेषत्वं प्रतिपादयति- अथवेत्यादिना ॥ मायां सीतारूपां । अप्रतितर्कितां अपरिमेयरूपलावण्यां ॥ १२-१३ ।।
व्यक्तमेष महायोगी परमात्मा सनातनः ।
अनादिमध्यनिधनो महतः परमो महान् ॥ १४ ॥
तमसः परमो धाता शङ्खचक्रगदाधरः ।
श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः ॥ १५ ॥
यदैवेत्यादिना सामान्यतउपन्यस्तममानुषत्वमेकत्र व्यवस्थापयितुमाह-व्यक्तमित्यादिना ॥ महायोगित्वादिगुणविशिष्टो यो विष्णुः स एवैष राम इति स्त्रीवचनमुखेनैव विष्णो: सर्वदेवतापारम्यं भगवान्वाल्मीकिर्व्यवस्थापयति । महान् योग: लोकरक्षणोपायचिन्ता सोस्यास्तीति महायोगी । परमश्चासावात्मा च परमात्मा । सर्वजीवात्मभ्य उत्कृष्ट इत्यर्थः । परमत्वमस्य कथमित्याशङ्क्य षड्भावविकाररहितत्वादित्याह-सनातन इति । सदास्तित्वयुक्त इत्यर्थः । अनादिमध्यनिधन: जन्मवृद्धिविनाशशून्यः । शाश्वतः अपक्षयरहितः । ध्रुवः परिणामरहितः । एतैर्विशेषणैर्जीवगतषड्भावविकारशून्यत्वमुक्तं । तथोक्तं विष्णुपुराणे–अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः । वर्जितः शक्यते वक्तुं यः सदास्तीति केवल इति । परमात्मशब्दार्थं विवृणोति – महतः परमो महानिति । महान् इन्द्रादिः । तस्मान्महान् ब्रह्मादिः । तस्मादपि महानित्यर्थः । स्थानविशेषेणापि परमत्वमाह – तमस इति ॥ तमसः प्राकृतमण्डलस्य परमः परस्तादप्राकृते वैकुण्ठे विद्यमानः । आदित्यवर्णं तमसः परस्तात् आदित्यवर्णं तमसस्तु पारे इति श्रुतेः । सर्वत्र व्याप्तस्य कथं तत्रावस्थानमित्याशंक्य विग्रहद्वारेत्याह- शङ्खेत्यादिना । सदा शङ्खचक्रधारणप्रयोजनमाह – धातेति । धाता पोषकः । डुधाञ् धारणपोषणयो: इत्यस्मात्तृच् । सर्वदा रक्षणार्थमायुधधारणमित्यर्थः । तथोक्तमभियुक्तैः– पातु प्रणतरक्षायां विलम्बमसहन्निव । सदा पञ्चायुधीं बिभ्रत्स नः श्रीरङ्गनायकः इति ॥ तस्य सर्वेश्वरत्वद्योतकं लक्षणमाह-श्रीवत्सवक्षा इति । श्रीकरो वत्सः श्रीवत्सः स च रक्तवर्णो मत्स्यविशेषः सः वक्षसि दक्षिणे यस्य स श्रीवत्सवक्षाः । जगद्रक्षणोपयोगिपुरुषकारसंबन्धमाह–नित्यश्रीरिति । नित्या अनपायिनी श्रीर्यस्यासौ नित्यश्रीः । विष्णोः श्रीरनपायिनी इत्यन्यत्रोक्तेः । अत एवाजय्यः जेतुमशक्यः । क्षय्यजय्यौ शक्यार्थे इति निपातनात् । एष रामः एवंभूतः परमात्मा व्यक्तं निश्चितमिति संबन्धः ।। १४-१५ ॥
मानुषं वपुरास्थाय विष्णुः सत्यपराक्रमः ।
सर्वैः परिवृतो देवैर्वानरत्वमुपागतैः ॥ १६ ॥
सर्वलोकेश्वरः सौक्षाल्लोकानां हितकाम्यया ।
सराक्षसपरीवारं हतवांस्त्वां महाद्युतिः ॥ १७ ॥
एवंभूतस्य परमात्मनः किमर्थमेवं व्यापार इत्यत्राह द्वाभ्यां – मानुषमित्यादि ॥ सर्वलोकेश्वरः सर्वलोकानां नियन्ता अनिष्टनिवृत्तीष्टप्रापणयोः कर्ता । विष्णुः विष्णुसकाशादविनाशित्ववरं परिहर्तुं मानुषं वपुः आस्थाय परिगृह्य साक्षात् अव्यवधानेन लोकानां हितकाम्यया लोकहितेच्छया सर्वलोकविरोधिनं त्वां हतवान् । व्यक्तमित्यत्रानुषज्यते ॥ १६-१७ ॥
इन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया ।
स्मरद्भिरिव तद्वैरमिन्द्रियैरेव निर्जितः ॥ १८ ॥
त्वद्दोषकृत एवायं वध इत्याह-इन्द्रियाणीति ॥ १८ ॥
क्रियतामविरोधश्च राघवेणेति यन्मया ।
उच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता ॥ १९ ॥
एवं सर्वज्ञा त्वं पूर्वं किमिति नोक्तवतीत्यत्राह-क्रियतामिति ॥ न गृह्णासि नागृहाः । व्युष्टिः फलं । व्युष्टिः फले समृद्धौ च इत्यमरः ॥ १९ ॥
अकस्माच्चाभिकामोसि सीतां राक्षसपुङ्गव ।
ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च ॥ २० ॥
अकस्मान्निर्हेतुकं सीतामुद्दिश्य अभिकामोसि अभिलाष्यसि तां प्रति त्वदभिलाषोऽयुक्त इत्यर्थः ॥ २० ।।
अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते ।
सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम् ॥ २१ ॥
अयुक्ततामेवाह – अरुन्धत्या इति ॥ विशिष्टां उत्कृष्टां । मान्यामित्यनेन न केवलमरुन्धत्यादिवत्पातिव्रत्यमात्रं किंतु मातृत्वं चेत्युच्यते । असदृशं अनुचितं ॥ २१ ॥
वसुधायाश्च वसुधां श्रियः श्रीं भर्तृवत्सलाम् ।
सीतां सर्वानवद्याङ्गीमरण्ये विजने शुभाम् ॥ २२ ॥
आनयित्वा तु तां दीनां छद्मनाऽऽत्मस्वदूषण ।
अप्राप्य चैव तं कामं मैथिलीसंगमे कृतम् ॥
पतिव्रतायास्तपसा नूनं दग्धोसि मे प्रभो ॥ २३ ॥
सा पतिव्रता चेत् किमर्थं न दग्धवतीत्यत्राह—वसुधाया इत्यादिसार्धश्लोकद्वयेन ॥ वसुधायाश्च वसुधां अत्यन्तक्षमावतीमित्यर्थः । श्रीमित्यत्र इयङभाव आर्षः । सर्वसंपदधिष्ठात्रीमित्यर्थः । भर्तृवत्सलां पतिव्रतां । सर्वानवद्याङ्गीं अनवद्यसर्वाङ्गीं । अरण्ये विजने स्थितामिति शेषः । दीनां त्वदनभिलाषिणीमित्यर्थः । छद्मना मारीचमुखेन आनयित्वा । तं पूर्वमुक्तं । पतिव्रतायास्तस्यास्तपसा दग्धोसि । मे प्रभो इत्यनेन अस्य सर्वस्य मद्दौर्भाग्यमेव निमित्तमिति द्योत्यते । आत्मस्वदूषणेत्यनेन निजस्वभूताया मम त्यागे त्वद्दूषणमेवहेतुः न त्वस्मत्सौन्दर्यहानिरित्युच्यते ॥ २२ – २३ ॥
तदैव यन्न दग्धस्त्वं धर्षयंस्तनुमध्यमाम् ।
देवा बिभ्यति ते सर्वे सेन्द्राः साग्निपुरोगमाः ॥ २४ ॥
तनुमध्यमां धर्षयन्सन् त्वं तदैव न इति यत् तेन माहात्म्येन त्वत्तो देवा बिभ्यतीति संबन्धः । भीता देवाः कथं ते धर्षणफलं दाहं दद्युरिति भावः ॥ २४ ॥
अवश्यमेव लभते फलं पापस्य कर्मणः ।
घोरं पर्यागते काले कर्ता नास्त्यत्र संशयः ॥ २५ ॥
कर्ता घोरं पापस्य फलं काले पर्यागते प्राप्ते अवश्यं लभते नात्र संशयः ॥ २५ ॥
शुभकृच्छुभमाप्नोति पापकृत्पापमश्नुते ।
विभीषणः सुखं प्राप्तस्त्वं प्राप्तः पापमीदृशम् ॥ २६ ॥
पापं दुःखं ॥ २६ ॥
सन्त्यन्याः प्रमदास्तुभ्यं रूपेणाभ्यधिकास्ततः ।
अनङ्गवशमापन्नस्त्वं तु मोहान्न बुध्यसे ॥ २७ ॥
तुभ्यं तव । ततः तस्याः सीतायाः । न बुध्यसे । अभ्यधिकत्वमिति शेषः ॥ २७ ॥
न कुलेन न रूपेण न दाक्षिण्येन मैथिली ।
मयाऽधिका वा तुल्या वा त्वं तु मोहान्न बुध्यसे ॥ २८ ॥
मैथिली मया कुलेन तुल्या अधिका वा न इत्येवं योज्यं । दाक्षिण्येन विद्यासामर्थ्येन ॥ २८ ॥
सर्वथा सर्वभूतानां नास्ति मृत्युरलक्षणः ।
तव तावदयं मृत्युमैथिलीकृतलक्षणः ॥ २९ ॥
सीतानिमित्तजो मृत्युस्त्वया दूरादुपाहृतः ॥ ३० ॥
मैथिली सह रामेण विशोका बिहरिष्यति ।
अल्पपुण्या त्वहं घोरे पतिता शोकसागरे ॥ ३१ ॥
अलक्षणः निर्निमित्तः । मैथिल्याः कृतं मैथिलीकृतं मैथिल्यानयनमित्यर्थः । तदेव लक्षणं निमित्तं यस्य स तथा ।।२९-३१ ॥
कैलासे मन्दरे मेरौ तथा चैत्ररथे वने ।
देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया ॥ ३२ ॥
विमानेनानुरूपेण यायाम्यतुलया श्रिया ।
पश्यन्ती विविधान्देशांस्तांस्तांश्चित्रस्रगम्बरा ।
भ्रंशिता कामभोगेभ्यः साऽस्मि वीर वधात्तव ॥ ३३ ॥
कैलास इत्यादिसार्धश्लोकद्वयमेकान्वयं ।। याहं कैलासादिषु विहृत्य विमानेन विविधान्देशान्पश्यन्ती याभि अथ सा भ्रंशिताऽस्मीत्येवं संबन्धः ॥ ३२-३३ ॥
सैवान्येवासि संवृत्ता धिंग्राज्ञां चञ्चलाः श्रियः ॥ ३४ ॥
सैवेत्यर्धं ॥ सैव एवमुक्तभोगैव । अन्येव अस्पृष्टभोगेव ॥ ३४ ॥
हा राजन्सुकुमारं ते सुभ्रु सुत्वक्समुन्नसम् ।
कान्तिश्रीद्युतिभिस्तुल्यमिन्दुपद्मदिवाकरैः ॥ ३५ ॥
किरीटकूटोज्ज्वलितं ताम्रास्यं दीप्तकुण्डलम् ।
मदव्याकुललोलाक्षं भूत्वा यत्पानभूमिषु ॥ ३६ ॥
विविधस्रग्धरं चारु वल्गुस्मितकथं शुभम् ।
तदेवाद्य तवेदं हि वक्रं न भ्राजते प्रभो ॥ ३७ ॥
रामसायकनिर्भिन्नं सिक्तं रुधिरविस्रवैः ।
विशीर्णमेदोमस्तिष्कं रूक्षं स्यन्दनरेणुभिः ॥ ३८ ॥
एवं रावणस्य मतिं राज्यश्रियं च निन्दित्वा भर्तृसौन्दर्यवैपरीत्यं शोचति – हा राजन्नित्यादिश्लोकचतुष्टयमेकान्वयं ॥ सुत्वक् स्निग्धत्वक् । समुन्नसं समुन्नतनासिकं । कान्तिः प्रभा । श्रीः सौन्दर्यं । द्युतिः तेज: । किरीटकूटोज्ज्वलितं शिखरतुल्यकिरीटविराजितं । ताम्रास्यं रक्ताघरमित्यर्थः । चारु सुन्दरं तव यद्वक्रं मदव्याकुललोलाक्षं भूत्वा अभ्राजत तदेवेदं वक्रमद्य न भ्राजते । अप्रकाशनिमित्तमाह — रामेति ॥ विस्रवैः प्रवाहैः । मेदः वसा । मस्तिष्कं मांस विशेषः ॥ ३५-३८ ॥
हा पश्चिमा मे संप्राप्ता दशा वैधव्यकारिणी ।
या मयाऽऽसीन्न संबुद्धा कदाचिदपि मन्दया ॥ ३९ ॥
मे वैधव्यकारिणी ते पश्चिमावस्था मृतिः संप्राप्ता ॥ ३९ ॥
पिता दानवराजो मे भर्ता मे राक्षसेश्वरः ।
पुत्रो मे शक्रनिर्जेता इत्येवं गर्विता भृशम् ॥ ४० ॥
दृप्तारिमर्दनाः शूराः प्रख्यातबलपौरुषाः ।
अकुतश्चिद्भया नाथा ममेत्यासीन्मतिर्दृढा ॥ ४१ ॥
अस्थिरस्य देहस्य विनाशः कुतो न संबुद्ध इत्यत्राह – पितेति ॥ दानवराजः मयः ॥ ४०-४१ ॥
तेषामेवंप्रभावानां युष्माकं राक्षसर्षभ ।
कथं भयमसंबुद्धं मानुषादिदमागतम् ॥ ४२ ॥
तेषामिति ॥ तेषु युष्मास्वेवंप्रभावेष्वित्यर्थः । मयस्य मरणाभावेपि इदानीमकार्यकरत्वादेवमुक्तं । असंबुद्धं पूर्वमचिन्तितं ॥ ४२ ॥
स्निग्धेन्द्रनीलनीलं तु प्रांशुशैलोपमं महत् ।
केयूराङ्गदवैडूर्यमुक्तादामस्रगुज्ज्वलम् ॥ ४३ ॥
कान्तं विहारेष्वधिकं दीप्तं संग्रामभूमिषु ।
[ विनीतं गुरुपूजासु शान्तं शङ्करपूजने ॥ ]
भात्याभरणभाभिर्यद्विद्युद्भिरिव तोयदः ॥ ४४ ॥
तदेवाद्य शरीरं ते तीक्ष्णैर्नैकैः शरैश्चितम् ।
पुनर्दुर्लभसंस्पर्श परिष्वक्तुं न शक्यते ॥ ४५ ॥
श्वाविधः शललैर्यद्वद्बाणैर्लग्नैर्निरन्तरम् ।
स्वर्पितैर्मर्मसु भृशं संछिन्नस्नायुबन्धनम् ।
क्षितौ निपतितं राजञ्श्यावं रुधिरसच्छवि ॥ ४६ ॥
स्निग्धेत्यादि सार्धश्लोकचतुष्टयमेकान्वयं ॥ प्रांशुशैलः उन्नतशैलः । अङ्गदवैडूर्यं वैडूर्यमयाङ्गदमिति केयूराद्भेदः । यच्छरीरं भाति आलिङ्गनयोग्यमभूत् । तदेव शरीरं दुर्लभसंस्पर्शं सत् पुनः परिष्वक्तुं न शक्यते । दुर्लभसंस्पर्शत्वमुपपादयति – श्वाविधः इत्यादिना ॥ श्वाविधं शल्यमृगस्य शललै: तल्लोमभिः यद्वत् यथा । कण्टकाकारश्वाविल्लोमतुल्यैरिति शरविशेषणं । मर्मसु स्वर्पितैः क्षिप्तैः । तत्रैव मर्मसु निरन्तरं लग्नैरिति योजना । श्यावं कपिशवर्णं । श्वावित्तु शल्यस्तल्लोनि शलली शललं शलम् । श्यावः स्यात्कपिशः इत्युभयत्राप्यमरः । स्नायवः धमन्यः । रुधिरसच्छवि रुधिरतुल्यकान्ति । स्वकान्ति विहाय रुधिरकृतकान्त्यन्तरमित्यर्थः ॥ ४३ – ४६ ॥
बज्रप्रहारामिहतो विकीर्ण इव पर्वतः ॥ ४७ ॥
वज्रेत्यर्थं ॥ असीति शेषः ॥ ४७ ॥
हा स्वप्नः सत्यमेवेदं त्वं रामेण कथं हतः ।
त्वं मृत्योरपि मृत्युः स्याः कथं मृत्युवशं गतः ॥ ४८ ॥
इदं ते मरणं स्वप्नः स्वप्नानुभवविषय: । सत्यमेव नात्र संशयः । तत्र हेतुमाह – त्वमिति । तत्रापि हेतुमाह – त्वं मृत्योरिति ॥ ४८ ॥
त्रैलोक्यवसुभोक्तारं त्रैलोक्योद्वेगदं महत् ।
जेतारं लोकपालानां क्षेप्तारं शंकरस्य च ॥ ४९ ॥
दृप्तानां निगृहीतारमाविष्कृतपराक्रमम् ।
लोकक्षोभयितारं च नादैर्भूतविराविणम् ॥ ५०
ओजसा दृप्तवाक्यानां वक्तारं रिपुसन्निधौ ।
स्वयूथभृत्यवर्गाणां गोप्तारं भीमकर्मणाम् ॥ ५१ ॥
हन्तारं दानवेन्द्राणां यक्षाणां च सहस्रशः ।
निवातकवचानां च संग्रहीतारमीश्वरम् ॥ ५२ ।।
नैकयज्ञविलोप्तारं त्रातारं स्वजनस्य च ।
धर्मव्यवस्थाभेत्तारं मायास्रष्टारमाहवे ॥ ५३ ॥
देवासुरनृकन्यानामाहर्तारं ततस्ततः ।
शत्रुस्त्रीशोकदातारं नेतारं स्वजनस्य च ॥ ५४ ॥
लङ्काद्वीपस्य गोप्तारं कर्तारं भीमकर्मणाम् ।
अस्माकं कामभोगानां दातारं रथिनांवरम् ॥ ५५ ॥
एवंप्रभावं भर्तारं दृष्ट्वा रामेण पातितम् ।
स्थिराऽस्मि या देहमिमं धारयामि हतप्रिया ॥ ५६ ॥
शयनेषु महार्हेषु शयित्वा राक्षसेश्वर ।
इह कस्मात्प्रसुप्तोसि धरण्यां रेणुपाटलः ॥ ५७ ॥
त्रैलोक्येत्यादि हतप्रियेत्यन्तं श्लोकाष्टकमेकं वाक्यं ॥ एवंभूतं भर्तारं दृष्ट्वा या इमं देहं धारयामि साहं स्थिरास्मि वज्रसारमय्यस्मि । कथमन्यथा न शीर्येदिति भावः । महदिति त्रैलोक्यवसुविशेषणं । यद्वा त्रैलोक्योद्वेगदं महद्वसु महत् यथा भवति तथा त्रैलोक्योद्वेगदमिति वा । उद्वेगो भयसंभ्रमः । शंकरस्य क्षेप्तारं कैलासचलनद्वारा । स्वयूथाः स्वबन्धवः निवातकवचा नाम केचनासुराः । तेषां संग्रहीतारं तैः सख्यकृतमित्यर्थः । स्वजनस्य । स्वाश्रितजनस्य धर्मव्यवस्था आचारव्यवस्था । यज्ञकर्मभेत्तृत्वकथनेनातीव स्वतन्त्रत्वमुक्तं । कन्यानामिति । स्त्रीमात्रमुच्यते । स्वजनस्य नेतारमिति । पूर्वत्रानिष्टनिवर्तकत्वमुक्तं । अत्रेष्टप्रापकत्वं । भीमकर्मणां स्वशिरोहवनादीनां ॥ ४९–५७ ॥
यदा मे तनयः शस्तो लक्ष्मणेनेन्द्रजिद्युधि ।
तदास्म्यभिहता तीव्रमद्य त्वसिन्निपातिता ॥ ५८ ॥
शस्तः हतः । तदा अभिहता प्रहृता । अद्य अस्मिन् त्वद्धनने सति तीव्रं निपातिता । मारितेत्यर्थः ॥ ५८ ॥
नाहं बन्धुजनैर्हीना हीना नाथेन तु त्वया ।
बिहीना कामभोगैव शोचिष्ये शाश्वतीः समाः ॥ ५९ ॥
बन्धुजनैः हीनाहं न शोचिष्ये यदि त्वं स्थितः स्याः । किंतु त्वया हीना अत एव कामभोगैर्हीना शोचिष्य इति योजना ॥ ५९ ॥
प्रपन्नो दीर्घमध्वानं राजन्नद्यासि दुर्गमम् ।
नय मामपि दुःखार्तां न जीविष्ये त्वया विना ॥६०॥
दीर्घमध्वानं वीरस्वर्गं ॥ ६० ॥
कस्मात्त्वं मां विहायेह कृपणां गन्तुमिच्छसि ।
दीनां विलपितैर्मन्दां किंवा मां नाभिभाषसे ॥ ६१ ॥
विलपितैः प्रलापैः । दीनां मन्दां अभाग्यां ॥ ६१ ॥
दृष्ट्वा न खल्वसि क्रुद्धो मामिहानवकुण्ठिताम् ।
निर्गतां नगरद्वारात्पद्भ्यामेवागतां प्रभो ॥ ६२ ॥
अनवकुण्ठितां अनावरणां । इहागतामित्यन्वयः ॥ ६२ ।।
पश्येष्टदार दारांस्ते भ्रष्टलज्जावकुण्ठितान् ।
बहिर्निष्पतितान्सर्वान्कथं दृष्ट्वा न कुप्यसि ॥ ६३ ॥
इष्टदारेति संबुद्धिः । भ्रष्टलज्जावकुण्ठितान् हीनलज्जावकुण्ठितान् ।। ६३ ॥
अयं क्रीडासहायस्तेऽनाथो लालप्यते जनः ।
न चैनमाश्वासयसे किं वा न बहुमन्यसे ॥ ६४ ॥
नाथो लालप्यत इति पाठे अनाथ इति छेदः ।। ६४ ।।
यास्त्वया विधवा राजन्कृता नैकाः कुलस्त्रियः ।
पतिव्रता धर्मपरा गुरुशुश्रूषणे रताः ॥
ताभिः शोकाभितप्ताभिः शप्तः परवशं गतः ॥ ६५ ॥
यास्त्वयेत्यादिसार्धश्लोक एकान्वयः ॥ परवश परवशत्वं । शत्रुवशत्वमिति यावत् ।। ६५ ।।
त्वया विप्रकृताभिर्यत्तदा शप्तं तदागतम् ॥ ६६ ॥
त्वयेत्यर्धं ॥ त्वया विप्रकृताभिः परिभूताभिः । तदा भर्तृवधकाले यच्छप्तं तत् आगतं फलदमासीदित्यर्थः ॥ ६६ ।।
प्रवादः सत्य एवायं त्वां प्रति प्रायशो नृप ।
पतिव्रतानां नाकस्मात्पतन्त्यश्रूणि भूतले ॥ ६७ ॥
पतिव्रतानामश्रूणि अकस्मान्निर्हेतुकतया भूतले न पतन्ति । पतन्ति चेत् किंचित्कुर्वन्त्येव । इत्येवं प्रायशः प्रवादः जनवार्ता । त्वां प्रत्येव सत्यः यथार्थो जातः । पतिव्रतानामास्त्रपातकरणमनर्थावहमित्येवं जनवादः तथा कुर्वति त्वयि । दृष्टफल आसीदित्यर्थः ॥ ६७ ॥
कथं च नाम ते राजँल्लोकानाक्रम्य तेजसा ।
नारीचौर्यमिदं क्षुद्रं कृतं शौण्डीर्यमानिना ॥ ६८ ॥
शौण्डीर्यमानिना शूरमानिना ।। ६८ ॥
अपनीयाश्रमाद्रामं यन्मृगच्छद्मना त्वया ।
आनीता रामपत्नी सा तत्ते कातर्यलक्षणम् ॥ ६९ ॥
त्वया कर्त्रा मृगच्छद्मना मृगरूपकपटोपायेन । कातर्यलक्षणं कातर्यसूचनं ॥ ६९ ।।
कातर्यं च न ते युद्धे कदाचित्संस्मराम्यहम् ।
तत्तु भाग्यविपर्यासान्नूनं ते पकलक्षणम् ॥ ७० ॥
ते युद्धे कातर्यं कदाचिदपि न स्मरामि न जानामीत्यर्थः । एवमकातरप्रकृतेस्तव भाग्यविपर्यासात् यत्कातर्यं चौर्यरूपमस्ति तत् पक्कलक्षणं पक्कत्वलक्षणं विनाशज्ञापकमिति यावत् । महतो हीनकृत्यं हानिकरमिति लोकप्रवादादिति भावः ॥ ७० ॥
अतीतानागतार्थज्ञो वर्तमानविचक्षणः ।
मैथिलीमाहतां दृष्ट्वा ध्यात्वा निश्वस्य चायतम् ॥ ७१ ॥
सत्यवाक्स महाभागो देवरो मे यदब्रवीत् ।
सोयं राक्षसमुख्यानां विनाशः पर्युपस्थितः ॥
कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना ॥ ७२ ॥
अतीतेत्यादिसार्धश्लोकद्वयमेकान्वयं ॥ देवरो यदब्रवीत् अयं तद्वाक्यार्थभूतो विनाश: प्रसङ्गिना प्रसक्तेन व्यसनेन हेतुना पर्युपस्थितः ॥ ७१-७२ ॥
निर्वृत्तस्त्वत्कृतेऽनर्थः सोयं मूलहरो महान् ।
त्वया कृतमिदं सर्वमनाथं रक्षसां कुलम् ॥ ७३ ॥
त्वत्कृते त्वन्निमित्तं । निर्वृत्तः प्रवृत्तः ॥ ७३ ॥
न हि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः ।
स्त्रीस्वभावात्तु मे बुद्धिः कारुण्ये परिवर्तते ॥ ७४ ॥
सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः ।
आत्मानमनुशोचामि त्वेद्वियोगेन दुःखिता ॥ ७५ ।।
कारुण्ये दैन्ये ॥ ७४-७५ ।।
सुहृदां हितकामानां न श्रुतं वचनं त्वया ।
भ्रातॄणां चापि कार्येन हितमुक्तं त्वयाऽनघ ।। ७६ ।।
कार्त्स्न्येनोक्तं हितं त्वया न श्रुतमित्यनुषज्यते ॥ ७६ ॥
हेत्वर्थयुक्तं विधिवच्छ्रेयस्करमदारुणम् ।
विभीषणेनाभिहितं न कृतं हेतुमत्त्वया ॥ ७७ ॥
हेत्वर्थयुक्तं युक्तिप्रयोजनाभ्यां युक्तं । विधिवत् शास्त्रोक्तप्रकारवत् । श्रेयस्करं हितभूतं । अदारुणं सान्त्वपूर्वकं । विभीषणेनाभिहितं वचनं त्वया हेतुमद्युक्तिमद्यथा भवति तथा न गृहीतं । ज्ञातित्वेन मद्व्यसनं काङ्क्षसे इत्यादिना हेतूपपादनपूर्वकं न गृहीतमित्यर्थः ॥ ७७ ॥
मारीचकुम्भकर्णाभ्यां वाक्यं मम पितुस्तदा ।
न श्रुतं वीर्यमत्तेन तस्येदं फलमीदृशम् ॥ ७८ ॥
मारीचकुम्भकर्णाभ्यां सह मम पितुर्मयस्य वाक्यं न श्रुतं । तस्य अश्रवणस्य ईदृशं फलं । आगतमिति शेषः । अत्रानुवादान्मयोप्यस्तीत्यवगन्तव्यं ॥ ७८ ॥
नीलजीमूतसंकाश पीताम्बर शुभाङ्गद ।
स्वगात्राणि विनिक्षिप्य किं शेषे रुधिराप्लुतः ॥
प्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे ॥ ७९ ॥
नीलेत्यादि सार्धश्लोक एकान्वयः ॥ विनिक्षिप्य भूमौ प्रसार्य प्रसुप्त इव शेषे, शोकार्तां मां च किमिति न प्रतिभाषस इत्यन्वयः ॥ ७९ ॥
महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः ।
यातुधानस्य दौहित्र किं च मां नाभ्युदीक्षसे ॥ ८० ॥
उत्तिष्ठोत्तिष्ठ किं शेषे प्राप्ते परिभवे नवे ।
अद्य वै निर्भया लङ्कां प्रविष्टाः सूर्यरश्मयः ॥ ८१ ॥
यातुधानस्य माल्यवतः । सुमालिनो वा । तत्संबन्धकीर्तनमप्रतिहतकुलप्रभावप्रकटनार्थं ॥ ८०-८१ ॥
येन हृदयसे शत्रून्समरे सूर्यवर्चसा ।
वज्रो वज्रधरस्येव सोयं ते सततार्चितः ॥ ८२ ॥
रणे शत्रुप्रहरणो हेमजालपरिष्कृतः ।
परिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा ।। ८३ ॥
प्रियामिवोपगुह्य त्वं शेषे समरमेदिनीम् ।
अप्रियामिव कस्माच्च मां नेच्छस्यभिभाषितुम् ॥ ८४ ॥
येनेत्यादिश्लोकद्वयमेकान्वयं ॥ ते त्वया । सततार्चित: बाणैः रामबाणैश्छिन्नः वज्रधरस्य वज्र इव स्थितः ते परिघः अद्य विशीर्णः ॥ ८२-८४ ॥
धिगस्तु हृदयं यस्या ममेदं न सहस्रधा ।
त्वयि पञ्चत्वमापन्ने फलते शोकपीडितम् ॥ ८५ ।।
यस्या मम हृदयं न फलते न स्फुटति । तादृशीं मां धिगित्यन्वयः ॥ ८५ ॥
इत्येवं विलपन्त्येव बाष्पव्याकुललोचना ।
स्नेहावस्कन्नहृदया देवी मोहमुपागमत् ।। ८६ ॥
अवस्कन्नहृया विलीनहृदया ॥ ८६ ।।
कश्मलाभिहता सन्ना बभौ सा रावणोरसि ।
संध्यानुरक्ते जलदे दीप्ता विद्युदिवासिते ॥ ८७ ॥
तथागतां समुत्पत्य सपत्न्यस्ता भृशातुराः ।
पर्यवस्थापयामासू रुदन्त्यो रुदतीं भृशम् ॥ ८८ ॥
कश्मलेन अभिहता मूर्च्छिता । सन्ना कृशा ८७-८८ ॥
न ते सुविदिता देवि लोकानां स्थितिरध्रुवा ।
दशाविभागपर्याये राज्ञां चञ्चलया श्रिया ॥ ८९ ॥
इत्येवमुच्यमाना सा सशब्दं प्ररुरोद ह ।
स्त्रोपयन्ती त्वभिमुखौ स्तनावस्राम्बुविस्रवैः ॥ ९० ॥
एतस्मिन्नन्तरे रामो विभीषणमुवाच ह ।
संस्कारः क्रियतां भ्रातुः स्त्रियश्चैता निवर्तय ॥ ९१ ॥
नेत्यादिश्लोकद्वयमेकान्वयं ।। दशाविभागपर्याये दशानां बाल्यकौमारयौवनवार्धकाद्य -वस्थानां विभागस्य भेदस्य पर्याये प्राप्तौ विषये लोकानामध्रुवा स्थितिः राज्ञां चञ्चलया श्रिया सह ते त्वया । सुविदिता नेति काकु: । सुविदितैवेत्यर्थः । लोकानां स्थितिरध्रुवेति राज्ञां श्रीचञ्चलेति च त्वया सुविदितैवेत्यर्थः । उच्यमाना बन्धुवृद्धादिभिरिति शेषः । अभिमुखौ उन्नतौ ।। ८९-९१ ॥
तं प्रश्रितस्ततो रामं श्रुतवाक्यो विभीषणः ।
विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः ॥
रामस्यैवानुवृत्यर्थमुत्तरं प्रत्यभाषत ॥ ९२ ॥
प्रश्रितः विनयान्वितः । विमृश्य एतस्य यत्प्रेतगतस्य कृत्यं तत्कर्तुमिच्छामि तव प्रसादात् इत्युक्तमङ्गीकृतं विचिन्त्येत्यर्थः । रामस्यैवानुवृत्यर्थं रामेणानुज्ञातोस्मि चेत्तदा करिष्यामि नान्यथेत्येवमनुवृत्त्यर्थं ॥ ९२ ।।
त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा ।
नाहमर्होस्मि संस्कर्तु परदाराभिमर्शिनम् ॥ ९३ ॥
त्यक्तेति । त्यक्तो धर्मो व्रतं च येन तं । अनृतं अनृतवादिनं ॥ ९३ ॥
भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः ।
रावणो नार्हते पूजां पूज्योपि गुरुगौरवात् ॥ ९४ ॥
गुरुगौरवात् गुरुरिति गौरवात् । पूज्योपि उक्तदोषान्मत्तः पूजां नार्हति ॥ ९४ ॥
नृशंस इति मां कामं वक्ष्यन्ति मनुजा भुवि ।
श्रुत्वा तस्यागुणान्सर्वे वक्ष्यन्ति सुकृतं पुनः ॥ ९५ ॥
भ्रातुः संस्काराकरणे त्वां नृशंसं लोका वक्ष्यन्तीत्याशङ्क्य वदन्तु नाम त एव पुनस्तद्गुणं विचारयन्तो मां युक्तकारिणं वक्ष्यन्तीत्याह-नृशंस इति ॥ संस्काराकरणे नृशंस इति मां कामं मनुष्या वक्ष्यन्ति । तस्य रावणस्य । अगुणान् दोषान् । श्रुत्वा असंस्कुर्वता विभीषणेन सुकृतं शोभनं कृतमिति वक्ष्यन्तीत्यर्थः ॥ ९५ ॥
तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः ।
विभीषणमुवाचेदं वाक्यज्ञो वाक्यकोविदम् ।। ९६ ।।
परमप्रीतः सत्यवचनकथनादिति भावः । अप्रीत इति वा छेदः ॥ ९६ ॥
तवापि मे प्रियं कार्यं त्वत्प्रभावाच्च मे जितम् ।
अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वरः ॥ ९७ ॥
दोषसद्भावेपि गुणबाहुल्यादयं संस्कारयोग्य इत्याह तवापीत्यादिना ।। तव त्वया । मे प्रियमपि प्रियमेव । कार्यं । चो हेतौ । यस्मात्कारणात् त्वत्प्रभावात् मे मया जितं तस्मान्मया त्वं क्षमं हितमेव वाच्यः । मत्प्रियत्वात् त्वद्धितत्वाच्च रावणसंस्कारः क्रियतामित्यर्थ: । यद्वा तवापि मे प्रियं कार्यं मद्वैरिणो रावणस्यासंस्करणं नाम मम पियं तवापि कर्तव्यमेव । त्वत्प्रभावाच्च मे जितं पूर्वं च तस्य जयसाहाय्यरूपं प्रियं त्वया कृतं । तथाप्यवश्यं तु क्षमं वाच्यः । यदर्हं तत्र नियोजनीयोसीत्यर्थः ॥ ९७ ॥
अधर्मानृतसंयुक्तः कामं त्वेष निशाचरः ।
तेजस्वी बलवाञ्शूरः संयुगेषु च नित्यशः ॥ ९८ ॥
दोषिणः कथमर्हत्वमित्याशंक्य गुणाधिक्यादित्याह–अधर्मेत्यादिना ॥ ९८ ॥
शतक्रतुमुखैर्देवैः श्रूयते न पराजितः ।
महात्मा बलसंपन्नो रावणो लोकरावणः ॥ ९९ ॥
संयुगेष्वपराजितत्वमुदाहरति-शतक्रत्विति ॥ ९९ ॥
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् ।
क्रियतामस्य संस्कारो ममाप्येष यथा तव ।। १०० ॥
गुणबाहुल्येपि त्वद्वैरी कथं संस्कार्य इत्यत्राह – मरणेति ॥ यथायं तव बन्धुस्तथा ममापि त्वद्वत् बन्धुरेवायमित्यर्थः ॥ १०० ॥
त्वत्सकाशाद्दशग्रीवः संस्कारं विधिपूर्वकम् ।
प्राप्तुमर्हति धर्मज्ञ त्वं यशोभाग्भविष्यसि ॥ १०१ ॥
यशोभागिति । पापकारिणमपि संस्कृतवानिति यशस्तव भविष्यतीत्यर्थः ॥ १०१ ॥
राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः ।
संस्कारेणानुरूपेण योजयामास रावणम् ।। १०२ ।।
[ स प्रविश्य पुरीं लङ्कां राक्षसेन्द्रो विभीषणः ।
रावणस्याग्निहोत्रं तु निर्यापयति सत्वरम् ॥१०३॥
शकटान्दारुरूपाणि अग्नीन्वै याजकांस्तथा ।
तथा चन्दनकाष्ठानि काष्ठानि विविधानि च ॥१०४॥
अगरूणि सुगन्धीनि गन्धांश्च सुरभींस्तथा ।
मणिमुक्ताप्रवालानि निर्यापयति राक्षसः ॥ १०५ ॥
आजगाम मुहूर्तेन राक्षसैः परिवारितः ।
ततो माल्यवता सार्धं क्रियामेव चकार सः ॥ १०६ ॥
सौवर्णी शिबिकां दिव्यामारोप्य क्षौमवाससम् ।
रावणं राक्षसाधीशमश्रुपूर्णमुखा द्विजाः ॥
तूर्यघोषैश्च विविधैः स्तुवद्भिश्चाभिनन्दितम् ।। १०७ ।।
पताकाभिश्च चित्राभिः सुमनोभिश्च चित्रिताम् ।
उत्क्षिप्य शिबिकां तां तु विभीषणपुरोगमाः ॥
दक्षिणाभिमुखाः सर्वे गृह्य काष्टानि भेजिरे ॥ १०८ ।।
अग्नयो दीप्यमानास्ते तदाऽध्वर्युसमीरिताः ।
शरणाभिगताः सर्वे पुरस्तात्तस्य ते ययुः ॥ १०९ ॥
अन्तःपुराणि सर्वाणि रुदमानानि सत्वरम् ।
पृष्ठतोऽनुययुस्तानि प्लवमानानि सर्वतः ॥ ११० ॥
अनुरूपेण यायजूकानुगुणेन । अत्र संस्कारारम्भात् स्त्रीनिवर्तनमर्थसिद्धं ।। १०२-११० ।।
रावणं प्रयते देशे स्थाप्य ते भृशदुःखिताः ॥]
चितां चन्दनकाष्ठानां पद्मकोशीरसंवृताम् ॥
ब्राह्मया संवेशयांचकू राङ्कवास्तरणावृताम् ॥ १११ ॥
चन्दनकाष्ठानां संबन्धिनीं पद्मकमुशीरं च गन्धद्रव्यं प्रसिद्धं । ब्राह्वया वेदोक्तप्रक्रियया । रङ्कुः मृगविशेषः तत्संबन्धि चर्म राङ्कवं तदेवास्तरणं तेनावृतां चितां संवेशयाचक्रुः योजयाञ्चक्रुः । रावणं ऋत्विज इति च शेषः ॥ १११ ॥
वर्तते वेदविहितो राज्ञो वै पश्चिमः क्रतुः ।
प्रचक्रू राक्षसेन्द्रस्य पितृमेधमनुक्रमम् ॥ ११२ ॥
पश्चिमः क्रतुः अन्त्येष्टि: । वर्तते अवर्तत । चितानिर्माणानन्तरमन्तिमेष्टिं चक्रुरित्यर्थ: । राक्षसेन्द्रस्य पितृमेधं पितृमेधसंस्कारं च अनुक्रमं यथाक्रमं प्रचक्रुः ।। ११२ ।।
वेदिं च देक्षिणग्राच्यां यथास्थानं च पावकम् ।
पृषदाज्येन संपूर्ण स्रुवं सर्वे प्रचिक्षिपुः ॥ ११३ ॥
संग्रहेणोक्तं संस्कारं प्रपञ्चयति–वेदिमित्यादिना ॥ दक्षिणप्राच्यां चिताया आग्नेयभागे वेदिं तत्र यथास्थानं पावकं च त्रेताग्निं च प्रचक्रुरित्यनुषज्यते । वेद्यां पश्चिमे गार्हपत्यं प्राच्यामाहवनीयं दक्षिणतो दक्षिणाग्निं च स्थापयामासुरित्यर्थः । पृषदाज्येन दधिमिश्रघृतेन । पृषदाज्यं सदध्याज्यं इत्यमरः । संपूर्णं स्रुवं होमपात्रं प्रचिक्षिपुः प्रतिपत्यर्थं चितायामिति शेषः ॥ ११३ ॥
पादयोः शकटं प्रादुरन्तरूर्वोरुलूखलम् ।
दारुपात्राणि सर्वाणि अरणिं चोत्तरारणिम् ॥ ११४ ॥
दत्त्वा तु मुसलं चान्यद्यथास्थानं विचक्षणाः ।
शास्त्रदृष्टेन विधिना महर्षिविहितेन च ॥ ११५ ॥
तत्र मेध्यं पशुं हत्वा राक्षसेन्द्रस्य राक्षसाः ।
परिस्तरणिकां राज्ञो घृताक्तां समवेशयन् ॥ ११६ ॥
यज्ञपात्रान्तराणामपि प्रतिपत्तिं दर्शयति- पादयोरित्यादिना श्लोकत्रयेण ।। शकटं सोमराजानयनशकटम् । उलूखलं यज्ञीयव्रीह्यवहननसाधनं । अन्यत् स्थाल्यादिकं दारुपात्रादिकं । यथास्थानं दत्त्वा । शास्त्रदृष्टेन वेदविहितेन महार्षविहितेन स्मृत्युक्तेन विधिना क्रमेण तत्र चितासमीपे मेध्यं पवित्रं पशुं छागं हत्वा । हननं होमपर्यन्तस्याप्युपलक्षणं । परिस्तरणिकां परिस्तरणानि । जात्येकवचनं । समवेशयन् चिक्षिपुरित्यर्थः ॥ ११४-११६ ॥
गन्धैर्माल्यैरलंकृत्य रावणं दीनमानसाः ।
विभीषणसहायास्ते वस्त्रैश्च विविधैरपि ।
लाजैश्चावकिरन्ति स्म बाष्पपूर्णमुखास्तदा ॥ ११७ ।।
अथ शवालंकारमाह-गन्धैरित्यादिसार्धश्लोकमेकं वाक्यं ॥ अवकिरन्ति चितामिति शेषः ।। ११७ ।।
ददौ च पावकं तस्य विधियुक्तं विभीषणः ॥ ११८ ॥
अथ संस्कारमाह-ददाविति ॥ तस्य तस्मै रावणाय । विधियुक्तं मन्त्रयुक्तं ॥ ११८ ॥
स्नात्वा चैवार्द्रवस्त्रेण तिलान्दूर्वाभिमिश्रितान् ।
उदकेन च संमिश्रान्प्रदाय विधिपूर्वकम् ॥ ११९ ॥
प्रदाय चोदकं तस्मै मूर्ध्ना चैनं नमस्य च ।
ताः स्त्रियोऽनुनयामास सान्त्वमुक्त्वा पुनःपुनः ॥
गम्यतामिति ताः सर्वा विविशुर्नगरं तदा ॥ १२० ॥
स्नात्वेत्यादि गम्यतामितीतिपर्यन्तं किंचिदधिकं श्लोकद्वयमेकान्वयं ॥ दूर्वोदकमिश्रितान तिलान् प्रेतावाहनार्थं भूमौ प्रदाय तत्र तस्मै रावणाय उदकं दत्त्वा ताः स्त्रियः गम्यतामिति पुनः पुनः सान्त्वमुक्त्वा अनुनयामास पुरीं प्रापयामास ॥ ११९-१२० ।।
प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः ।
रामपार्श्वमुपागम्य तदाऽतिष्ठद्विनीतवत् ॥ १२१ ॥
रामोपि सह सैन्येन ससुग्रीवः सलक्ष्मणः ।
हर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः ॥ १२२ ।।
[ ततो विमुक्त्वा सशरं शरासनं महेन्द्रदत्तं कवचं च तन्महत् ।
विमुच्य रोषं रिपुनिग्रहात्ततो रामः स सौम्यत्वमुपागतोऽरिहा ] ॥ १२३ ॥
ताः सर्वा इत्युत्तरवाक्यादि ॥ रामपार्श्वमुपागम्येति । रणशिरसि हतत्वेन रावणस्याशौचाभावादागतः अतएवोत्तरदिने राज्याभिषेकोऽयोध्यागमनं चानुष्ठितं । प्रथमायां रावणसंस्कारः ।। १२१ – १२३ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्दशोत्तरशततमः सर्गः ॥ ११४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुर्दशोत्तरशततमः सर्गः ॥ ११४ ॥