श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षोडशोत्तरशततमः सर्गः
हनुमताऽशोकवनमेत्यसीतांप्रति रामसंदेशनिवेदनपूर्वकं कृतागसांराक्षसीनां हिंसनाभ्यनुज्ञानप्रार्थना ॥ १ ॥ सीतया तदागसां परप्रयोज्यत्वाभिधानेन ऋक्षप्रोक्तश्लोका -नुवादेनचक्षमाप्रशंसनपूर्वकं तन्निषेधनम् ॥ २ ॥ सीतया स्वस्यरामावलोकनाभिलाषं निवेदितेनहनुमता तत्समाश्वासनपूर्वकं पुनारामसमीपगमनम् ॥ ३ ॥
इति प्रतिसमादिष्टो हनुमान्मारुतात्मजः ।
प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ १ ॥
[प्रविश्य च पुरीं लङ्कामनुज्ञाप्य विभीषणम् ।
ततस्तेनाभ्यनुज्ञातो हनुमान्वृक्षवाटिकाम् ॥
संप्रविश्य यथान्यायं सीताया विदितो हरिः] ॥ २ ॥
अथ हनुमत्सीतासंवाद: – इति प्रतिसमादिष्ट इत्यादि । मारुतात्मज इत्यनेन वेगातिशय उच्यते । पूज्यमान इति । मार्गप्रदर्शनादिभिः पूज्यमानत्वं ॥ १-२ ॥
प्रविश्य च महातेजा रावणस्य निवेशनम् ।
ददर्श मृजया हीनां सातङ्कामिव रोहिणीम् ॥
वृक्षमूले निरानन्दां राक्षसीभिः समावृताम् ॥ ३ ॥
प्रविश्येत्यादिसार्धश्लोक एकान्वयः । मृजया शरीरसंस्कारेण । सातङ्कां सग्रहपीडां ॥ ३ ॥
निभृतः प्रणतः प्रह्वः सोभिगम्याभिवाद्य च ॥ ४ ॥
निभृत इत्यर्धं । अभिगम्य समीपं प्राप्य । अभिवाद्य स्वनाम संकीर्त्य । प्रणतः कृतप्रणाम: सन् । निभृतः निश्चल: । प्रह्वः प्रकर्षेण संकुचितगात्र: । स्थित इति शेषः । आचार्यास्तु करणत्रयेणापि निश्चलो बभूवेत्यर्थ इति प्राहुः ॥ ४ ॥
दृष्ट्वा तमागतं देवी हनुमन्तं महाबलम् ।
तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा प्रमुदिताऽभवत् ॥ ५ ॥
तं दृष्ट्वा विस्मृत्य प्रथमं तूष्णीमास्त । पुनर्दृष्ट्वा स्मृत्वा प्रमुदिताऽभवत् । यद्वा सामान्यतो दृष्ट्वा तूष्णीमास्त । ततो विशेषतो दृष्ट्वा स्मृत्वा हनुमानिति ज्ञात्वा प्रमुदिताऽभवत् । अथवा तं दृष्ट्वा स्मृत्वा प्रत्यभिज्ञाय । प्रमुदिताऽभवत् । प्रमोदातिरेकेण स्तब्धा सती तूष्णीमास्तेत्यर्थः ॥ ५ ॥
सौम्यं दृष्ट्वा मुखं तस्या हनुमान्प्लवगोत्तमः ।
रामस्य वचनं सर्वमाख्यातुमुपचक्रमे ॥ ६ ॥
वैदेहि कुशली रामः सहसुग्रीवलक्ष्मणः ।
विभीषणसहायश्च हरीणां सहितो बलैः ॥ ७ ॥
कुशलं चाह सिद्धार्थो हतशत्रुररिंदमः ॥ ८ ॥
विभीषणसहायेन रामेण हरिभिः सह ।
निहतो रावणो देवि लक्ष्मणस्य नयेन च ॥ ९ ॥
पृष्ट्वा तु कुशलं रामो वीरस्त्वां रघुनन्दनः ।
अब्रवीत्परमप्रीतः कृतार्थेनान्तरात्मना ॥ १० ॥
सौम्यं निजदर्शनेन विकसितं ॥ ६-१० ॥
प्रियमाख्यामि ते देवि त्वां तु भूयः सभाजये ।
दिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे ॥ ११ ॥
[ तव प्रभावाद्धर्मज्ञे महान्रामेण संयुगे ॥ ]
लब्धो नो विजयः सीते स्वस्था भव गतव्यथा ।
रावणश्च हतः शत्रुर्लङ्का चेयं वशे स्थिता ॥ १२ ॥
रामसंदेशवाक्यमाह – प्रियमाख्यामीत्यादिश्लोकद्वयमेकान्वयं । हे देवि, ते प्रियमाख्यामि । त्वां तु भूयः भूयिष्ठं । सभाजये प्रीणये । धर्मज्ञे पातिव्रत्यधर्मज्ञे । त्वं दिष्ट्या जीवसि । अन्यथा मम जयो व्यर्थ एव स्यादिति भावः । मम जयेन मत्पराक्रमेण । नः संयुगे जयो लब्ध: । गतव्यथा सती स्वस्था भवेति योजना ।। ११-१२ ।।
मया ह्यलब्धनिद्रेण दृढेन तव निर्जये ।
प्रतिज्ञैषा विनिस्तीर्णा बद्धा सेतुं महोदधौ ॥ १३ ॥
हे सीते तव निर्जये शत्रुहस्तात्तव विमोचने । दृढेन एकाग्रचित्तेन । अतएव अलब्धनिद्रेण मया महोदधौ सेतुं बद्ध्वा एषा प्रतिज्ञा रावणं हनिष्यामीति प्रतिज्ञा । विनिस्तीर्णा प्रतिपालितेत्यर्थः ॥ १३ ॥
संभ्रमश्च न गन्तव्यो वर्तन्त्या रावणालये ।
विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम् ॥ १४ ॥
संभ्रमः व्यग्रता । वर्तन्त्या वर्तमानया ॥ १४ ॥
तदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे ।
अयं चाभ्येति संहृष्टस्त्वदर्शनसमुत्सुकः ॥ १५ ॥
यस्मात् स्वगृहे परिवर्तसे तस्माद्विश्वस्ता सती आश्वसिहि विश्रान्ता भव । निवृत्तखेदा भवेत्यर्थः । अयं विभीषणः ॥ १५ ॥
एवमुक्ता समुत्पत्य सीता शशिनिभानना ।
प्रहर्षेणावरुद्धा सा व्याजहार न किंचन ॥ १६ ॥
अब्रवीच्च हरिश्रेष्ठः सीतामप्रतिजल्पतीम् ।
किंनु चिन्तयसे देवि किंनु मां नाभिभाषसे ॥ १७ ॥
एवमुक्ता हनुमता सीता धर्मे व्यवस्थिता ।
अब्रवीत्परमप्रीता हर्षगद्गदया गिरा ॥ १८ ॥
समुत्पत्य हर्षेण समुत्थाय । अवरुद्धा अवरुद्धव्यापारा । १६-१८ ।।
श्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम् ।
प्रहर्षवशमापन्ना निर्वाक्याऽस्मि क्षणान्तरम् ॥ १९ ॥
क्षणान्तरं क्षणमात्रं । निर्वाक्यास्मि । हर्षावरुद्धव्यापारत्वादिति भावः ॥ १९ ॥
न हि पश्यामि सदृशं चिन्तयन्ती प्लवङ्गम ।
मत्प्रियाख्यानकस्येह तव प्रत्यभिनन्दनम् ॥ २० ॥
निर्वाक्यास्मीत्यत्र हेत्वन्तरमाह – न हीत्यादि । सदृशं प्रत्यभिनन्दनं प्रतिप्रियवचनं ॥ २० ॥
न हि पश्यामि तत्सौम्य पृथिव्यामपि वानर ।
सदृशं मत्प्रियाख्याने तव दातुं भवेत्समम् ॥ २१ ॥
सदृशंप्रदेयवस्त्वपि नपश्यामीत्याह – न हीत्यादिना । अत्र अपिशब्देन अन्तरिक्षस्वर्गौ समुच्चीयेते । त्रिष्वपि लोकेषु न पश्यामि । मत्प्रियाख्याने विषये तव दातुं समं अत्यन्तसदृशं भवेत् ॥ २१ ॥
हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च ।
राज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम् ।। २२ ।।
उक्तंविवृणोति – हिरण्यमिति । हिरण्यं रजतं । रजत हिरण्यं इतिश्रुतेः । त्रिषु लोकेषु राज्यं त्रिलोकविषयराजत्वं । नैतदर्हति भाषितुं । हिरण्याद्येतत्सर्वमपि प्रियाख्यानसमत्वेन भाषितुंनार्हतीत्यर्थः ॥ २२ ॥
एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः ।
गृहीतप्राञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः ॥ २३ ॥
प्रमुखे अग्रे ॥ २३ ॥
भर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि ।
स्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम् ॥ २४ ॥
प्रतिप्रियवचनं न पश्यामीत्यस्योत्तरमाह – भर्तुरिति । एवंविधं स्निग्धं वाक्यं भाषितुं त्वमेवार्हसि नान्या । अनेन सर्वोत्तरं प्रीतिप्रियवचनं मह्यं दत्तमित्युक्तं भवति ॥ २४ ॥
तवैतद्वचनं सौम्ये सारवत्स्निग्धमेव च ।
रत्नौघाद्विविधाच्चापि देवराज्याद्विशिष्यते ॥ २५ ॥
प्रियाख्यानसदृशं प्रदेयं वस्तु नास्तीत्यस्योत्तरमाह – तवेति । एतत् प्रत्यभिनन्दनं न पश्यामीत्येतत् । सारवत् प्रत्यभिनन्दनवचनराहित्यकथनेन मद्वचनस्य निरवधिकप्रीतिजनकत्व -कथनान्महातात्पर्यवत् । स्निग्धं मयि प्रीतिपुरःसरं । एत द्वचनश्रवणेनैव मया सर्वोत्तरं वस्तु समुपलब्धमिति भावः ॥ २५ ॥
अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः ।
हतशत्रुं विजयिनं रामं पश्यामि सुस्थितम् ॥ २६ ॥
तस्य तद्वचनं श्रुत्वा मैथिली जनकात्मजा ।
ततः शुभतरं वाक्यमुवाच पवनात्मजम् ॥ २७ ॥
पूर्वमेव लब्धदेवराज्यादिकस्य तत्प्रदानं निरर्थकमित्याशयेनाह- अर्थत इति । रामं विजयिनं पश्यामीति यत् अस्मात् अर्थतः प्रयोजनात् । देवराज्यादयो गुणा: उत्कर्षाः प्राप्ताः । रामविजयदर्शनमेव राज्यादिकमित्यर्थः ॥ २६–२७ ॥
अतिलक्षणसंपन्नं माधुर्यगुणभूषितम् ।
बुद्ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम् ॥ २८ ॥
नानृग्वेदेत्यादिना राम इव स्वयमपि तद्वाक्य सौष्ठवं प्रशंसति – अतीति । अतिलक्षणसंपन्नं आकाङ्कायोग्यतासन्निधिमत्पदवत्त्वरूपवाक्यलक्षणसंपन्नं । बहु व्याहरताऽनेन न किंचिदपशब्दितं इत्युक्तशब्दसाधुत्वसंपन्नं । माधुर्यगुणभूषितं संश्रवे मधुरंवाक्यम् इत्युक्तरीत्या श्रवणमात्रेणानन्दजनकत्वरूपमाधुर्यगुणभूषितं । अष्टाङ्गया ग्रहणं धारणं चैव स्मरणं प्रतिपादनम् । ऊहापोहोर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः इत्युक्ताष्टाङ्गयुक्तया बुद्ध्या युक्तं । तादृशबुद्धिपूर्वकमित्यर्थः ॥ २८ ॥
श्लाघनीयोऽनिलस्य त्वं पुत्रः परमधार्मिकः ।
बलं शौर्यं श्रुतं सत्वं विक्रमो दाक्ष्यमुत्तमम् ॥ २९ ॥
तेजः क्षमा धृतिर्धैर्यं विनीतत्वं न संशयः ।
एते चान्ये च बहवो गुणास्त्वय्येव शोभनाः ॥ ३० ॥
अथोवाच पुनः सीतामसंभ्रान्तो विनीतवत् ।
प्रगृहीताञ्जलिर्हर्षात्सीतायाः प्रमुखे स्थितः ॥ ३१ ॥
न केवलं वाक्यतः गुणतोपि श्लाघ्योसीत्याह – श्लाघनीय इत्यादिना श्लोकद्वयेन । अनिलस्य श्लाघनीयः पुत्रः । अनिलादपि संजीवनकर इत्यर्थः । संजीवनं चानृशंस्यधर्मादित्याह- परमधार्मिक इति । बलं प्रयाससहिष्णुत्वं । शौर्य युद्धोत्साहः । श्रुतं शास्त्रज्ञानं । श्रुतं शास्त्रा वधृतयो: इत्यमरः । सत्वं शारीर: सारः । विक्रमः पराक्रमः । दाक्ष्यं सामर्थ्यं । उत्तममिति सर्वविशेषणं । तेजः पराभिभवनसामर्थ्यं । क्षमाअपराधसहिष्णुत्वं । धृतिः प्रभावः । धैर्यं क्षोभके सत्यक्षोभ्यत्वं । विनीतत्वं विनयवत्त्वं । विशिष्टनीतिमत्त्वं वा । एते चान्ये च दद्यादयो बहवो गुणाः त्वय्येव शोभनाः त्वामाश्रयमधिगम्य शोभमाना भवन्ति । न संशयः नाहमसतो गुणानारोप्य स्तौमीत्यर्थः ॥ २९-३१ ॥
इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे ।
हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा ३२
क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम् ।
घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः ॥
राक्षस्यो दारुणकथा वरमेतत्प्रयच्छ मे ॥ ३३ ॥
इदं तु मे प्रियाख्यानपारितोषिकत्वेन देयमित्यर्थयते – इमा इत्यादिना । सार्धश्लोकद्वयमेकान्वयं । क्लिश्यन्तीं पतिदेवतां त्वां प्रति या राक्षस्यो दारुणकथा अब्रुवन् । पुरा याभिस्त्वं तर्जिता इमा राक्षस्यः राक्षसीः । यद्यनुमन्यसे हन्तुमिच्छामि । एतद्वरं मे प्रयच्छेति संबन्धः ।। ३२-३३ ।।
मुष्टिभिः पाणिभिः सर्वावरणैश्चैव शोभने ।
इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः ॥ ३४ ॥
घातैर्जानुप्रहारैश्च दशनानां च पातनैः ।
भक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा ॥ ३५ ॥
नखैः शुष्कमुखीभिश्च दारणैर्लङ्घनैर्हतैः ।
[ विभिन्नशङ्खग्रीवांसपार्श्वकैश्च कलेबरैः ॥ ]
निपात्य हन्तुमिच्छामि तव विप्रियकारिणीः ॥ ३६ ॥
हननप्रकारं स्वक्रोधानुरूपं दर्शयति – मुष्टिभिरित्यादिना । श्लोकत्रयमेकान्वयं । घातैः प्रहारैः। भक्षणैः खादनैः । लुञ्चनैः उन्मूलनैः । शुष्कमुखीभिः नखैः । दारणैः पीडनैः । कपोलताडनैर्वा । लङ्घनैः उत्प्लुत्योपरिपातनैः । हतैः हस्तैस्ताडनैः । निपात्य भूमौ पातयित्वा । मुष्टयादिभिर्हन्तुमिच्छामीत्यन्वयः ॥ ३४-३६ ।।
एवंप्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि ।
हन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः ॥ ३७ ॥
उक्तमर्थमावश्यकत्वज्ञापनाय पुनरपि संग्रहेण याचते – एवमिति ॥ ३७ ॥
एवमुक्ता हनुमता वैदेही जनकात्मजा ।
उवाच धर्मसहितं हनुमन्तं यशस्विनी ॥ ३८ ॥
धर्मसहितमिति क्रियाविशेषणं ॥ ३८ ॥
राजसंश्रयवश्यानां कुर्वन्तीनां पराज्ञया ।
विधेयानां च दासीनां कः कुप्येद्वानरोत्तम ॥ ३९ ॥
राजसंश्रयवश्यानां राजसेवापरवशानां । अतएव पराज्ञया कुर्वन्तीनां राजचोदितकार्यं कुर्वन्तीनां । विधेयानां चोदिताकरणे दण्डार्हाणां । रावणस्य दासीनां दासीभ्यः । कः कुप्येत् ॥ ३९ ॥
भाग्यवैषम्ययोगेन पुरादुश्चरितेन च ।
मयैतत्प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते ॥ ४० ॥
भाग्यवैषम्ययोगेन भाग्यविपर्यययोगेन । भाग्यस्यापरिपक्कतयेत्यर्थः । पुरादुश्चरितेन च पूर्वकृतदुष्कृतेन च एतत्तर्जनभर्त्सनादिकं प्राप्यते । तत्र हेतुमाह -स्वकृतमिति । हि यस्मात् । स्वकृतमुपभुज्यते स्वकृतकर्मफलं प्राप्यते लोकैः । अतो मयापि भुज्यत इत्यर्थः ॥ ४० ॥
प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम् ।
दासीनां रावणस्याहं मर्षयामीह दुर्बला ॥ ४१ ॥
रावणस्य दासीनां एतत्तर्जनादिकं । दशायोगात् अवस्थायोगात् । अनुभवयोग्यकालसंबन्धादिति यावत् । प्राप्तव्यमिति मया निश्चितं । दुर्बला पूर्वमेतादृशापन्निवारककर्मकरणाशक्ता । अतोहमिह राक्षसीविषये मर्षयामीति संबन्धः । दुर्बला कृपापरवशा वा । हते रावणे दौर्बल्यान्तराभावात् । परदुःखसहिष्णुत्वमेव हि तदानीं दौर्बल्यं ॥ ४१ ॥
आज्ञप्ता रावणेनैता राक्षस्यो मामतर्जयन् ।
हते तस्मिन्न कुर्युर्हि तर्जनं वानरोत्तम ॥ ४२ ॥
राक्षसीनामपराधस्य राजाज्ञामूलकत्वमन्वयव्यतिरेकाभ्यां दर्शयति – आज्ञप्ता इति ॥ ४२ ॥
अयं व्याघ्रसमीपे तु पुराणो धर्मसंस्थितः ।
ऋक्षेण गीतः श्लोको मे तन्निबोध प्लवङ्गम ॥ ४३ ॥
अथासां स्वातन्त्र्येणापकारकरणमभ्युपेत्य तथापि क्षन्तव्यमित्यत्र इतिहासं दर्शयति — अयमिति । पुरा किल कश्चिद्व्याधो व्याघ्रेणानुसृतो वृक्षमारूढः । वृक्षमूलगतो व्याघ्रो वृक्षोपरि स्थितमृक्षं वन्यमृगाणामस्माकं जात्या शत्रुरेषः । तस्मादेनं वृक्षात्पातयेत्यब्रवीत् । एवमुक्तो भल्लूकः स्ववासस्थानगतमेनं न पातयिष्यामि । तथात्वे धर्महानि: स्यादित्युक्त्वा सुष्वाप । तदनन्तरं त्वां रक्षिष्यामि सुप्तमृक्षं पातयेति व्याघ्रेण चोदितः सन् व्याधस्तमृक्षमपातयत् । स त्वभ्यासवशेन शाखान्तरमवलम्ब्य नापतत् । तदनुः कृतापराधमेनं पातयेति पुनः पुनर्व्याघ्रेणोच्यमानोपि भल्लूको बहुशः कृतापराधमप्येनं तुभ्यं न दास्यामीत्यभिधाय ररक्षेति पौराणिकी गाथा ॥ ४३ ॥
न परः पापमादत्ते परेषां पापकर्मणाम् ।
समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ॥ ४४ ॥
तत्रत्यं श्लोकं पठति – न पर इति । सुग्रीवं प्रति रामः कपोतोपाख्यानमिव हनुमन्तमुद्दिश्य देव्यपि स्वाभिप्रेतेर्थे ऋक्षगीतं प्रमाणयतिस्म । परेषां पापकर्मणां परानुद्दिश्य पापं कुर्वतां । परः प्राज्ञः पुरुषः पापं प्रत्यपकाररूपं नादत्ते नाङ्गीकरोति । न करोतीत्यर्थः । समयः आचारः अपकर्तृष्वपि प्रत्यपकारवर्जनरूपः । रक्षितव्यस्तु रक्षितव्य एव । तथाहि सन्तश्चारित्रभूषणाः । सद्भिश्चारित्रभूषणैरिति वा पाठः ॥ ४४ ॥
पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम ।
कार्यं करुणमार्येण न कश्चिन्नापराध्यति ॥ ४५ ॥
अथ देव्या अभयप्रदानश्लोकः– पापानामिति । पापानां वा शुभानां वा त्वदभिप्रायेण पापानां वा अस्मदभिप्रायेण शुभानां वा । तदेव ममोद्देश्यं ‘दोषो यद्यपितस्यस्यात्’ इतिवत् । मलिनस्य हि स्नानमपेक्षितं । तासां पापत्वादेवास्मदपेक्षा । किं शुभानामस्माभिः । तत्पुण्यानामेव तद्रक्षकत्वात् । तस्मात्तत्पापमेवास्माकमुद्देश्यं । ननु तर्हि दण्ड्या दण्डनीया: नादण्ड्या इति धर्मशास्त्रं भवतीमासाद्य भज्येतेत्याशङ्क्य दुष्टोपि शरणागतो रक्षणीय इति विशेषशास्त्रं भवन्तमासाद्य किं भञ्जनीयमित्याह – वधार्हाणामिति । वधार्हाणामपीत्यर्थः । सप्तम्यर्थे षष्ठी । लवङ्गम अनभिलषितमेवाभिलषितवान् खलु भवान् । तेषु । आर्येण महता पुरुषेण । करुणं दयाकार्यं । तिष्ठतु । पुण्यं पापं च इदानीमेतद्दयनीयदशां पश्य । यद्वा शुभानामिति दृष्टान्तार्थं । शुभेषु वधार्हेषु यथा करुणं कार्यं तथा पापेषु वधार्हेष्वपि कार्यमित्यर्थः । सापराधादण्डनेतिप्रसङ्गःस्यादित्याशङ्क्याह – न कश्चिन्नापराध्यतीति । सर्वोप्यपराध्यती -त्यर्थः ॥ ४५ ॥
लोकहिंसाविहाराणां रक्षसां कामरूपिणाम् ।
कुर्वतामपि पापानि नैव कार्यमशोभनम् ॥ ४६ ॥
एवमुक्तस्तु हनुमान्सीतया वाक्यकोविदः ।
प्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम् ॥ ४७ ॥
रक्षसां स्वजातिप्रयुक्तहिंसादेरदोषावहत्वाच्छास्त्रोक्तदण्डविषयत्वं नास्तीत्याह – लोकेति । अशोभनं दण्डनं ॥ ४६ – ४७ ॥
युक्ता रामस्य भवती धर्मपत्नी यशस्विनी ।
प्रतिसंदिश मां देवि गमिष्ये यत्र राघवः ॥ ४८ ॥
एवमुक्ता हनुमता वैदेही जनकात्मजा ।
अब्रवीद्रष्टुमिच्छामि भर्तारं वानरोत्तम ॥ ४९ ॥
तस्यास्तद्वचनं श्रुत्वा हनुमान्मारुतात्मजः ।
हर्षयन्मैथिलीं वाक्यमुवाचेदं महाद्युतिः ॥ ५० ॥
पूर्णचन्द्राननं रामं द्रक्ष्यस्यार्ये सलक्ष्मणम् ।
स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम् ॥ ५१ ॥
तामेवमुक्त्वा राजन्तीं सीतां साक्षादिव श्रियम् ।
आजगाम महावेगो हनुमान्यत्र राघवः ॥ ५२ ॥
[ सपदि हरिवरस्ततो हनूमान्प्रतिवचनं जनकेश्वरात्मजायाः ॥
कथितमकथयद्यथाक्रमेण त्रिदशवरप्रतिमाय राघवाय ] ॥ ५३ ॥
रामस्य युक्ता । किं पुनर्मद्विधो जन इति स्वस्योत्तमशरणत्वं प्रतिपादितवतो रामस्य शरण्यत्वादिगुणवत्तया सहशीत्यर्थः । अनेन सर्गेण सीताया दयालुत्वं अपराधसहिष्णुत्वं घटकत्वं चोक्तमिति ध्येयम् ॥ ४८-५३ ॥ इच्छामीत्यत्र इतिकरणं द्रष्टव्यं ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षोडशोत्तरशततमः सर्गः ॥ ११६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षोडशोत्तरशततमः सर्गः ॥ ११६ ॥