श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टादशोत्तरशततमः सर्गः
रामेणसीतांप्रति रावणवधावधिप्रयासस्य निजापयशःप्रमार्जनप्रयोजकत्वोक्तिपूर्वकं तच्चारित्रशुद्धिसंदेहरूपहेतूक्त्या तत्परिग्रहानभिरोचनवचनम् ॥ १ ॥
तां तु पार्श्वस्थितां प्रह्वां रामः संप्रेक्ष्य मैथिलीम् ।
हृदयान्तर्गतक्रोधो व्याहर्तुमुपचक्रमे ॥ १ ॥
अथ रामपरुषोक्तिः–तां तु पार्श्वस्थितामित्यादि । प्रह्वां लज्जया नम्रां ॥ १ ॥
एषाऽसि निर्जिता भद्रे शत्रुं जित्वा मया रणे ।
पौरुषाद्यदनुष्ठेयं तदेतदुपपादितम् ॥ २ ॥
एषेति प्रत्यक्षेण दर्शयति । भद्रे इत्यसंबन्धनिवेदकसंबोधनं । पौरुषायदनुष्ठेयं तदेव कृतं । नतु त्वल्लाभाय यत्नः कृत इति भावः ॥ २ ॥
गतोस्म्यन्तममर्पस्य धर्षणा संप्रमार्जिता ।
अवमानश्च शत्रुश्च मया युगपदुद्धृतौ ॥ ३ ॥
अन्तं फलं । उद्धृतौ निर्मूलितौ ॥ ३ ॥
अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः ।
अद्य तीर्ण प्रतिज्ञत्वात्प्रभवामीह चात्मनः ॥ ४ ॥
आत्मनः प्रभवामि स्वतन्त्रो भवामि ॥ ४ ॥
या त्वं विरहिता नीता चलचित्तेन रक्षसा ।
दैवसंपादितो दोषो मानुषेण मया जितः ॥ ५ ॥
मया विरहिताया त्वं चलचित्तेन रक्षसा नीता । तया त्वया हेतुभूतया दैवसंपादितः दोषः अवमानः । मानुषेण प्रमार्जितः । दैवकृतं पुरुषयत्नेन निवारितमिति भावः ॥ ५ ॥
संप्राप्तमवमानं यस्तेजसा न प्रमार्जति ।
कस्तस्य पुरुषार्थोस्ति पुरुषस्याल्पतेजसः ॥ ६ ॥
घर्षणाया अमार्जने दोषमाह – संप्राप्तमिति । प्रमार्जति प्रमार्ष्टि ॥ ६ ॥
लङ्घनं च समुद्रस्य लङ्कायाश्चावमर्दनम् ।
सफलं तस्य तच्छ्लाघ्यं महत्कर्म हनूमतः ॥ ७ ॥
इदानीं हनुमदादिपौरुषस्यापि घर्षणावमार्जनहेतुत्वमाह-लङ्घनं चेत्यादिना । समुद्रस्य लङ्घनं लङ्काया अवमर्दनं इत्येवंरूपं हनुमतः श्लाघ्यं कर्मचाद्य सफलं । घर्षणापरिमार्जनेन सफलमित्यर्थः ॥ ७ ॥
युद्धे विक्रमतश्चैव हितं मन्त्रयतश्च मे ।
सुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः ॥ ८ ॥
मन्त्रयतः चिन्तयतः ॥ ८ ॥
निर्गुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः ।
विभीषणस्य भक्तस्य सफलोद्य परिश्रमः ॥ ९ ॥
निर्गुणमिति ॥ तस्येत्यध्याहार्यं ॥ ९ ॥
इत्येवं ब्रुवतस्तस्य सीता रामस्य तद्वचः ।
मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता ॥ १० ॥
तद्वचः नैराश्येनोक्तं वचः । तस्य ब्रुवतः । तस्मिन् ब्रुवति सति ॥ १० ॥
पश्यतस्तां तु रामस्य भूयः क्रोधो व्यवर्धत ।
प्रभूताज्यावसिक्तस्य पावकस्येव दीप्यतः ॥ ११ ॥
पावकस्येति । पावकस्य क्रोधोतीव ज्वलनं ॥ ११ ॥
स बद्धा भ्रुकुटीं वक्रे तिर्यक्प्रेक्षितलोचनः ।
अब्रवीत्परुषं सीतां मध्ये वानररक्षसाम् ॥ १२ ॥
तिर्यक्प्रेक्षितलोचन: तिर्यक्प्रेक्षणं पुरतः सीतादर्शनासहिष्णुत्वकृतं ।। १२ ।।
यत्कर्तव्यं मनुष्येण धर्षणां परिमार्जता ।
तत्कृतं सकलं सीते शत्रुहस्तादमर्षणात् ॥ १३ ॥
यत्कर्तव्यमित्यादित्रिपादश्लोक एकान्वयः ॥ हे सीते घर्षणां परिमार्जता । मृजेरजादौ विभाषा वृद्धि: इति वृद्धि । मनुष्येण यत्कर्तव्यं तत् सकलं कृतं । शत्रुहस्तादमर्षणादित्युत्तरशेषः ॥ १३ ॥
निर्जिता जीवलोकस्य तपसा भावितात्मना ।
अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् ॥ १४ ॥
भावितात्मना ध्यातात्मस्वरूपेण । अगस्त्येन । इल्वलाक्रान्तत्वाज्जीवलोकस्य दुराधर्षा दुःसंचारा दक्षिणा दिगिव । अमर्षणात् अमर्षाद्धेतोः । शत्रुहस्तान्मया त्वं निर्जितेति संबन्धः ॥ १४ ॥
विदितश्चास्तु ते भद्रे योऽयं रणपरिश्रमः ।
स तीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः ॥ १५ ॥
योयं रणपरिश्रमः सुहृदां वीर्यात्तीर्णः निर्व्यूढः सः त्वदर्थं मया न कृत इति विदितोस्तु ॥ १५ ॥
रक्षता तु मया वृत्तमपवादं च सर्वशः ।
प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिरक्षता ॥ १६ ॥
तर्हि किमर्थमेष परिश्रम इत्यत आह रक्षतेति ॥ अत्र मया रणपरिश्रमः कृत इत्यनुषज्यते । वृत्तं रक्षता अपवादं न्यङ्गं अयशस्यं च परिरक्षता परिहरता निवारयता । मया रणपरिश्रमः कृतः ॥ १६ ॥
प्राप्तचारित्रसंदेहा मम प्रतिमुखे स्थिता ।
दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम् ॥ १७ ॥
तद्गच्छ ह्यभ्यनुज्ञाता यथेष्टं जनकात्मजे ।
एता दश दिशो भद्रे कार्यमस्ति न मे त्वया ॥ १८ ॥
परगृहवासेन प्राप्तचारित्रसंदेहा त्वं नेत्रातुरस्य दीप इव प्रतिकूलासि । अनेनोपमानेन वस्तुतः सीताया दोषो नास्ति । स्वसंदेहेनाहं प्रतिकूलीकरोमीति व्यज्यते ।। १७ – १८ ।।
कः पुमान्हि कुले जातः स्त्रियं परगृहोषिताम् ।
तेजस्वी पुनरादद्यात्सुहृल्लेख्येन चेतसा ॥ १९ ॥
सुहृल्लेखेन सुहृल्लेखा रणरणकं सुहृल्लेखामर्हतीति सुहृल्लेख्यं तेन । रणरणकातिशययुक्तेनेत्यर्थः ॥ १९ ॥
रावणाङ्कपरिभ्रष्टां दृष्टां दुष्टेन चक्षुषा ।
कथं त्वां पुनरादद्यां कुलं व्यपदिशन्महत् ॥ २० ॥
व्यपदिशन् कीर्तयन् ॥ २० ॥
तदर्थं निर्जिता मे त्वं यशः प्रत्याहृतं मया ।
नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामितः ॥ २१ ॥
तदर्थं कुलार्थं । अभिष्वङ्गः आसक्तिः । अनुरागो वा ॥ २१ ॥
इति प्रव्याहृतं भद्रे मयैतत्कृतबुद्धिना ।
लक्ष्मणे भरते वा त्वं कुरु बुद्धिं यथासुखम् ॥ २२ ॥
सुग्रीवे वानरेन्द्रे वा राक्षसेन्द्रे विभीषणे ।
निवेशय मनः सीते यथा वा सुखमात्मनः ॥ २३ ॥
न हि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम् ।
मर्षयेत चिरं सीते स्वगृहे परिवर्तिनीम् ॥ २४ ॥
इति प्रव्याहृतमित्यादिश्लोकद्वयमेकान्वयं ॥ अत्र लक्ष्मणादौ मनःकरणं नाम अनाथाया रक्षकत्वेन तत्तद्गृहे वर्तनं । भर्त्रा परित्यक्तायाः स्त्रियो बन्धुगृहे वासविधानात् । न स्त्री स्वातन्त्र्यमर्हति इति स्मृतेः । न त्वत्रान्यथा ग्रहीतुं युक्तं । महापुरुषेण तादृशोक्त्ययोगात् ॥ २२-२४ ॥
ततः प्रियार्हश्रवणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मैथिली ॥
मुमोच बाष्पं सुभृशं प्रवेपिता गजेन्द्रहस्ताभिहतेव सल्लकी ॥ २५ ॥
सल्लकी गजभक्ष्यलताविशेषः ॥ २५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टादशोत्तरशततमः सर्गः ॥ ११८ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टादशोत्तरशततमः सर्गः ॥ ११८ ।।