श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकविंशत्युत्तरशततमः सर्गः
मूर्तीभूय सीतायाः स्वाङ्कारोपणपूर्वकंकुण्डादुद्गतेनाग्निना रामंप्रति सीतायानिर्दोषत्वोद्धोषणेन तत्स्वीकारचोदना ॥ १ ॥ रामेणापि सीतायाअदोपत्वोत्कीर्तन पूर्वकम् अग्निप्रवेशोपेक्षणस्य लोकापवादपरिजिहीर्षामूलकत्वोक्त्या तत्स्वीकारः ॥ २ ॥
एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम् ।
अङ्केनादाय वैदेहीमुत्पपात विभावसुः ॥ १ ॥
विभावसुः अग्निः ॥ १ ॥
स विधूय चितां तां तु वैदेहीं हव्यवाहनः ।
उत्तस्थौ मूर्तिमानाशु गृहीत्वा जनकात्मजाम् ॥ २ ॥
विधूय चितां शिथिलीकृत्य । मूर्तिमान् मनुष्यविग्रहवान् ॥ २ ॥
तरुणादित्यसंकाशां तप्तकाञ्चनभूषणाम् ।
रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम् ॥ ३ ॥
अक्लिष्टमाल्याभरणां तथारूपां मनस्विनीम् ।
ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः ॥ ४ ॥
अब्रवीच्च तदा रामं साक्षी लोकस्य पावकः ॥ ५ ॥
तरुणादित्येत्यादिश्लोकद्वयमेकान्वयं ॥ तथारूपां प्रवेश कालिक रूपवतीं । मनस्विनीं प्रसन्नमनस्कामित्यर्थः । अङ्के कृत्वा अङ्केनादायेत्यर्थः ॥ ३–५ ॥
एषा ते राम वैदेही पापमस्यां न विद्यते ॥ ६ ॥
एषा या पूर्वं मयि प्रविष्ठा सैषेत्यर्थ: । एतेन मायासीताग्निं प्रविष्टा साक्षात्सीताग्निना दत्तेति प्रत्युक्तं । ते त्वदीयेत्यर्थः । एनां परिगृहाणेति शेषः ।। ६ ।।
नैव वाचा न मनसा नानुध्यानान्न चक्षुषा ।
सुवृत्ता वृत्तशौण्डीर न त्वामतिचचार ह ॥ ७ ॥
पापाभावमेवोपपादयति — नैवेत्यादिना ॥ अनुध्यानात् संकल्पात् । अत्यन्ताभिमतां देवीं निर्दोषां जानन्नपि स्ववृत्तावद्यत्वपरिहारार्थं वह्निं प्रावेशयदिति संतोषातिशयाद्वृत्त- शौण्डीरेति संबोधनं ॥ ७ ॥
रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा ।
त्वया विरहिता दीना विवशा निर्जनाद्वनात् ॥ ८ ॥
एतत्संमति विना कथं रावणः समानीतवानित्यत्राह – रावणेनेत्यादि ॥ ८ ॥
रुद्धा चान्तः पुरे गुप्ता त्वच्चित्ता त्वत्परायणा ।
रक्षिता राक्षसीसंघैर्विकृतैर्घोरदर्शनैः ॥ ९ ॥
प्रलोभ्यमाना विविधं भर्त्स्यमाना च मैथिली ।
नाचिन्तयत तद्रक्षस्त्वद्गतेनान्तरात्मना ॥ १० ॥
विवशा नीतेत्यत्र लिङ्गं दर्शयति – रुद्धेति ॥ त्वयि चित्तं यस्याः सा त्वच्चित्ता । त्वमेव परायणमुत्तमगतिर्यस्याः सा त्वत्परायणा ।। ९-१० ॥
विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव ।
न किंचिदभिधातव्यमहमाज्ञापयामि ते ॥ ११ ॥
विशुद्धभावां विशुद्धहृदयां । अभिधातव्यं मद्वचनस्योत्तरमिति शेषः ॥ ११ ॥
ततः प्रीतमना रामः श्रुत्वैतद्वदतां वरः ।
दध्यौ मुहूर्तं धर्मात्मा वाष्पव्याकुललोचनः ॥ १२ ॥
एवमुक्तो महातेजा द्युतिमान्दृढ विक्रमः ।
अब्रवीत्रिदशश्रेष्ठं रामो धर्मभृतां वरः ॥ १३ ॥
दध्यौ न वृथैव सीता त्यक्तेत्यचिन्तयत् ॥ १२-१३ ।।
अवश्यं त्रिषु लोकेषु न सीता पापमर्हति ।
दीर्घकालोषिता हीयं रावणान्तः पुरे शुभा ॥ १४ ॥
वस्तुतो निर्दोषत्वेपि अपवादोस्तीत्याह-अवश्यमिति ॥ १४ ॥
बालिशः खलु कामात्मा रामो दशरथात्मजः ।
इति वक्ष्यन्ति मां सन्तो जानकीमविशोध्य हि ॥ १५ ॥
अपवादपरिहारार्थमयं मम प्रयत्न इत्याह – बालिश इति ॥ अविशोध्येति । परिग्रह इति शेषः ॥ १५ ॥
अनन्यहृदयां भक्तां मच्चित्तपरिवर्तिनीम् ।
अहमप्यवगच्छामि मैथिलीं जनकात्मजाम् ॥ १६ ॥
अनन्यहृदयां मय्येव सक्तहृदयां । मच्चित्तपरिवर्तिनीं मच्चित्तानुवर्तिंनीं । त्यक्तस्वव्यापारामित्यर्थः । जनकात्मजामिति हेतुगर्भविशेषणं । जनकपुत्र्याः किमाचारसंपत्तिर्वक्तव्येति भावः ॥ १६ ॥
प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः ।
उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम् ॥ १७ ॥
तर्हि किमर्थमुपेक्षितवानसीत्यत्राह-प्रत्ययार्थमिति ॥ प्रत्ययार्थं विश्वासजननार्थमित्यर्थः । सत्यसंश्रयः सत्यैकाश्रयः । यथावद्वृत्तप्रवर्तनाकाङ्क्षीत्यर्थः ॥ १७ ॥
इमामपि विशालाक्षीं रक्षितां स्वेन तेजसा ।
रावणो नातिवर्तेत वेलामिव महोदधिः ॥ १८ ॥
एतादृशसुन्दरीं रावणः कथं नेक्षेतेत्यत्राह-इमामपीति ॥ १८ ॥
न हि शक्तः स दुष्टात्मा मनसाऽपि हि मैथिलीम् ।
प्रधर्षयितुमप्राप्तां दीप्तामग्निशिखामिव ॥ १९ ॥
दृष्टान्तान्तरमाह – न हीति । अप्राप्तां प्रधर्षणानर्हां ॥ १९ ॥
नेयमर्हति चैश्वर्यं रावणान्तः पुरे शुभा ।
अनन्या हि मया सीता भास्करेण प्रभा यथा ॥ २० ॥
तथाप्येषा तादृशमैश्वर्यं कथं जह्यात्तत्राह-नेयमिति । रावणैश्वर्यं नेयमर्हति किंतु ममैश्वर्यमर्हतीत्यर्थः । तत्र हेतुमाह – अनन्येति । मया अनन्या अभिन्ना । अविनांभूतेति यावत् ॥ २० ॥
विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा ।
न हि हातुमियं शक्या कीर्तिरात्मवता यथा ॥ २१ ॥
अहमपि तया अनन्य इत्याह – विशुद्धेति ॥ २१ ॥
अवश्यं तु मया कार्यं सर्वेषां वो वचः शुभम् ।
स्निग्धानां लोकेमान्यानामेवं च ब्रुवतां हितम् ।। २२ ।।
सीतापरिग्रहे भवद्वचनं तु प्रधानहेतुरित्याह-अवश्यमिति ॥ वचनकरणे स्नेह: सर्वपूज्यत्वं हितोपदेष्टत्वं च हेतुरित्यर्थः ॥ २२ ॥
इतीदमुक्त्वा विदितं महाबलैः प्रशस्यमानः स्वकृतेन कर्मणा ॥
समेत्य रामः प्रियया महाबलः सुखं सुखार्होऽनुबभूव राघवः ॥ २३ ॥
विदितं स्वेन विदितं । इदं उक्तं वचनं । उक्त्वा स्वकृतेन कर्मणा करणेन महाबलैः कर्तृभिः प्रशस्यमानः प्रियया समेत्य सीतां स्वसमीपमानीयेत्यर्थः ॥ २३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकविंशत्युत्तरशततमः सर्गः ॥ १२१ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकविंशत्युत्तशततमः सर्गः ॥ १२१ ॥