श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्विंशत्युत्तरशततमः सर्गः
विभीषणेन रात्रौसुखसुप्तोत्थितंरामंप्रति प्रभातेस्वीयवस्त्राभ्यङ्गाङ्गरागाद्युपचाराङ्गी करणप्रार्थना ॥ १ ॥ रामेणतंप्रति सुग्रीवादीनांत दुपचारकरणचोदनपूर्वकं भरतेनविना भोगाननुभवन रूपस्वीयव्रत निवेदनेनसहायोध्यांप्रति गमनत्वरानिवेदनम् ॥ २ ॥ विभीषणेनतंप्रति पुष्पकविमानेनसत्वरमयोध्याप्रापणप्रतिज्ञानपूर्वकं लङ्कायां द्वित्रदिनावस्थानप्रार्थनेनसह तत्समीपंप्रतिपुष्पकानयनम् ॥ ३ ॥
तां रात्रिमुषितं रामं सुखोत्थितमरिन्दमम् ।
अब्रवीत्प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ॥ १ ॥
अथ रामस्य विभीषणसत्कार:- तां रात्रिमित्यादि । तां रात्रिं । यस्मिन्दिने ब्रह्मादयो निर्जग्मुः तां रात्रिमित्यर्थः ॥ १ ॥
स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च ।
चन्दनानि च दिव्यानि माल्यानि विविधानि च २
अलंकारविदश्चेमा नार्यः पद्मनिमेक्षणाः ।
उपस्थितास्त्वां विधिवत्स्नापयिष्यन्ति राघव ॥
प्रतिगृह्णीष्व तत्सर्वं मदनुग्रहकाम्यया ॥ ३ ॥
स्नानानीत्यादिसार्धश्लोकद्वयमेकान्वयं ॥ स्नानानि स्नानीयजलानि । अत्र सर्वत्रेमानीत्यनुषज्यते । अङ्गरागाणि कुङ्कुमादीनि । माल्यानि स्रजः । विधिवत् सोपचारमित्यर्थः ॥ २-३ ॥
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम् ।
हरीन्सुग्रीव मुख्यांस्त्वं स्नानेनाभिनिमन्त्रय ॥ ४ ॥
सुग्रीवमुख्यान् सुग्रीवप्रमुखानेव हरीन् । स्नानेन स्नानेनहेतुना । अभिनिमन्त्रय ॥ ४ ॥
स तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः ।
सुकुमारो महाबाहुः कुमारः सत्यसंश्रवः ॥ ५ ।।
त्वां विनातेषामामन्त्रणे किंकारणमित्यतआह-सत्विति । सः सर्वदा मनसि परिवर्तमानः । धर्मात्मा ताम्यति । धर्माचरणेनैव ताम्यतीति भावः । मम हेतोः मल्लाभार्थमित्यर्थः । सत्यसंश्रय: । चतुर्दशे हि संपूर्णे वर्षेनि रघूत्तम । न द्रक्ष्यामि यदि त्वां हि प्रवेक्ष्यामि हुताशनं इति कृतप्रतिज्ञः ॥ ५ ॥
तं विना केकयीपुत्रं भरतं धर्मचारिणम् ।
न मे स्नानं बहुमतं वस्त्राण्याभरणानि च ॥ ६ ॥
तं बिना स्नानोपकरणं विना । स्नानं कथं कार्यं । केकयीपुत्रं मध्यमाम्बा तस्मिन् यद्दुःखमकरोत् तत्किं मयापि कर्तव्यं । भरतं राज्ञा मया च विरहितं राज्यं सम्यक्कृतवन्तं । धर्मचारिणं मद्वियोगेन बहुव्रतपरे तस्मिन् कथं मया व्रतत्यागः कर्तुं युक्त इति भावः । न मे स्नानं बहुमतं । प्रथमं मे स्नानमेव नेष्टं कथं तदनन्तरभावीनि वस्त्रादीनि ॥ ६ ॥
इत एव पथा क्षिप्रं प्रतिगच्छामि तां पुरीम् ।
अयोध्यामागतो ह्येष पन्थाः परमदुर्गमः ॥ ७ ॥
इत एवेति । अनेन पथा येनाहमागतस्तेनेत्यर्थः । एष इति हस्तनिर्देशपूर्वकमुच्यते । अयोध्यां आगतः प्राप्तः अयमयोध्या मार्गः । तेन क्षिप्रं तां प्रति गच्छामीत्यर्थः । परमदुर्गम: अतिदूरत्वादिति भावः ॥ ७ ॥
एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः ।
अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज ॥ ८ ॥
पुष्पकं नाम भद्रं ते विमानं सूर्यसन्निभम् ।
मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् ॥ ९ ॥
हृतं निर्जित्य संग्रामे कामगं दिव्यमुत्तमम् ।
त्वदर्थे पालितं चैतत्तिष्ठत्यतुलविक्रम ॥ १० ॥
तदिदं मेघसंकाशं विमानमिह तिष्ठति ।
तेन यास्यसि यानेन त्वमयोध्यां गतज्वरः ॥ ११ ॥
मार्गस्य परमदुर्गमत्वमात्रं परिहर्तुमाह – एवमुक्तस्त्विति । अह्नात्वामित्यादिसार्धश्लोकत्रयमेकान्वयं ॥ किं रावणेन चौर्येणापहृतमित्यत्राह आहृतं निर्जित्येति । तर्हि कुबेराय समागताय तत्किमर्थं न दत्तमित्यत्राह- त्वदर्थ इति ॥ त्वदर्थे त्वद्गमनार्थे । पालितमिति । न दत्तमित्यर्थः । यद्वा त्वदर्थे त्वत्पूजार्थमेव । मेघसंकाशमिति वेगे दृष्टान्तः ।। ८-११ ॥
अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् ।
वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम् ।। १२ ।।
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।
अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि ॥ १३ ॥
प्रीतियुक्तस्य मे राम ससैन्यः ससुहृद्गणः ।
सत्क्रियां विहितां तावद्गृहाण त्वं मयोद्यताम् १४
प्रणयाद्बहुमानाच्च सौहृदेन च राघव ।
प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते ।। १५ ।।
स्नानाकरणे द्वित्रदिनमात्र स्थितिं याचते- अहं त इत्यादिनाचतुःश्लोक्येकान्वया । गुणान् भक्त्त्यादिगुणान् । सर्वकामै: भूषणादिभिः । विहितां मया कृतां । उद्यतां । इतः परं नोद्योगः कार्य: येन विलम्ब: स्यात् । किंतु पूर्वमेव समुद्युक्तामित्यर्थः । निर्बन्धदोषं परिहरति – प्रणयादिति । प्रणयात् मद्वाक्यमवश्यं श्रोष्यतीति विस्रम्भात् । बहुमानात् त्वत्कृतलालनात् । सौहृदेन भत्त्या । प्रसादयामि प्रार्थयामि ॥ १२-१५ ।।
एवमुक्तस्ततो रामः प्रत्युवाच विभीषणम् ।
रक्षसां वानराणां च सर्वेषां चोपशृण्वताम् ।। १६ ।।
उपशृण्वताम् उपशृण्वत्सु । भावलक्षणे षष्ठी ॥ १६ ॥
पूजितोऽहं त्वया सौम्य साचिव्येन परन्तप ।
सर्वात्मना च चेष्टाभिः सौहृदेनोत्तमेन च ॥ १७ ॥
साचिव्येन साहाय्येन । चेष्टाभिः पौरुषैः । सर्वात्मना पूजित इत्यन्वयः ॥ १७ ॥
न खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर ।
तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ॥ १८ ॥
न खल्वेतदित्यातिश्लोकद्वयमेकान्वयं ॥ विभीषणवचनाकरणे हेतुमाह – तं त्विति ॥ १८ ॥
मां निवर्तयितुं योसौ चित्रकूटमुपागतः ।
शिरसा याचतो यस्य वचनं न कृतं मया ॥ १९ ॥
त्वरायां हेतुमाह – शिरसेति ॥ १९ ॥
कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् ।
गुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह ॥ २० ॥
कौसल्यामिति । अत्रापि द्रष्टुं त्वरते मे मन इति संबध्यते । पौरांश्च तनयैः सहेत्यत्र पौरैरव तनयशब्दोन्वेति ॥ २० ॥
उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर ।
कृतकार्यस्य मे वासः कथं स्विदिह संमतः ॥ २१ ॥
द्वित्रदिनान्यत्र स्थातव्यमित्यस्योत्तरमाह- कृतेति । निर्वर्तितचतुर्दशवर्षप्रव्राजनस्य कृतकार्यस्य मे इह लङ्कायां । वासः संमतः कथं स्वित् । न संमत इत्यर्थ: । अन्यथा भरतस्याग्निप्रवेशादिति भावः ॥ २१ ॥
अनुजानीहि मां सौम्य पूजितोस्मि विभीषण ।
मन्युर्न खलु कर्तव्यस्त्वरितं त्वाऽनुमानये ॥ २२ ॥
पूजितोस्मि विमानप्रदानेनेति शेषः । प्रदत्तत्वेन स्वत्वादुत्तरत्र कुबेराय प्रेषयिष्यति । मन्युः दैन्यं कोपो वा । मन्युर्दैन्ये ऋतौ क्रुधि इत्यमरः । त्वरितं उक्तप्रकारेण त्वरावन्तं मामिति संबन्धः । यद्वा त्वरितं यथा भवति तथा अनुमानये । अनुमतिं कारये ॥ २२ ॥
राघवस्य वचः श्रुत्वा राक्षसेन्द्रो विभीषणः ।
तं विमानं समादाय तूर्णं प्रतिनिवर्तत ॥ २३ ॥
ततः काञ्चनचित्राङ्गं वैडूर्यमयवेदिकम् ।
कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ॥ २४ ॥
पाण्डुराभिः पताकाभिर्ध्वजैश्च समलंकृतम् ।
शोभितं काञ्चनैर्हम्यैर्हेम पद्मविभूषितम् ॥ २५ ॥
प्रकीर्ण किङ्किणीजालैर्मुक्तामणिगवाक्षितम् ।
घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् ॥ २६ ॥
राघवस्य वचः श्रुत्वेत्यादिश्लोकचतुष्टयमेकं वाक्यं ॥ प्रतिनिवर्तत प्रतिन्यवर्तत । काञ्चनचित्राङ्गं काञ्चनमयचित्रावयवं । कूटागारैः मण्डपैः । परिक्षिप्तं व्याप्तं । रजतप्रभं । रजतशब्देनात्र विशदत्वमुच्यते । पताकाभिः केवलध्वजैः । ध्वजैः सचिन्हैः । हर्म्यैः अवान्तरराजगृहैः। हेमपद्मानि लम्बमानानि तैर्विभूषितं । प्रकीर्णं व्याप्तं । मुक्तामणिगवाक्षितं मुक्तामणिनिर्मितगवाक्षयुक्तं । घण्टाजालैः परिक्षिप्तं चतुर्षु पार्श्वेषु किङ्किणीजालयुक्तं । कोणेषु घण्टाजालयुक्तं । अतएव मधुरस्वनं ।। २३-२६ ॥
यन्मेरुशिखराकारं निर्मितं विश्वकर्मणा ।
बहुभिर्भूषितं हर्म्यैर्मुक्तारजतसंनिभैः ॥ २७ ॥
तलैः स्फाटिकचित्राङ्गैर्वैडूर्यैश्च वरासनैः ।
महार्हास्तरणोपेतैरुपपन्नं महाधनैः ॥ २८ ॥
उपस्थितमनावृष्यं तद्विमानं मनोजवम् ।
निवेदयित्वा रामाय तस्थौ तत्र विभीषणः ॥ २९ ॥
[ तत्पुष्पकं कामगमं विमानमुपस्थितं भूधरसंनिकाशम् ॥
दृष्ट्वा तदा विस्मयमाजगाम रामस्ससौमित्रिरुदारसत्वः ॥ ३० ॥ ]
यन्मेर्वित्यादिश्लोकत्रयमेकान्वयं ॥ मुक्तारजतसन्निभैः तद्वन्निर्मलैरित्यर्थः । स्फाटिकचित्राङ्गैः स्फटिकमयचित्रावयवैः । महाधनैः महामूल्यै: ॥ २७-३० ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्विंशत्युत्तरशततमः सर्गः ॥ १२४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुर्विंशत्युत्तरशततमः सर्गः ॥ १२४ ॥